अनादर
anādaraपुं · masc.In 13 kośas: 10 synonym verses, 5 as a meaning of another word.
रीढावज्ञावहेलान्यसूर्क्षणं चाप्यनादरे ॥ १४७९ ॥
अनुष्टुप्
genderपुंmasc.
अनादरः परिभवः परीभावस्तिरस्क्रिया ॥ २२ ॥रीढावमाननावज्ञावहेलनमसूर्क्षणम् ।
अनुष्टुप्
genderपुंmasc.
अत्याकारः परिभवो निकारश्च पराभवः ।अनादरश्चाभिभवस्तिरस्कारश्च कथ्यते ॥ ७०४ ॥
अनुष्टुप्
genderपुंmasc.
परीभवः परिभवः परिभावोऽवहेलनम् ।अनादरोऽवहेलं चाप्यवमानोऽवमाननम् ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
हेला त्रिष्ववहेलं स्यादसूर्क्षणमसूक्षणम् ।अनादरोऽथाभिभव-परिभाव-पराभवाः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
अनादरः परिभवो रीढावज्ञा तिरस्क्रिया ।अवहेलावगणना तक्षणं चापमानता ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
अवज्ञाऽनादरो रीढा ह्यसूक्षणमसूर्क्षणम् ।अवगणनाऽवमाननं तिरस्क्रिया च नाम स्यात् ॥ २६८९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अवहेला च हेला स्यादवहेलनहेलने ।अनादरस्त्वभिभवः सूक्ष्मेणञ्चापि सूक्ष्मणम् ॥
अनुष्टुप्
genderपुंmasc.
रीढावमाननावज्ञा परिभूतिस्तिरस्क्रिया ।अवहेडः परिभवः परीभावोऽप्यनादरः ॥ ९७३ ॥
अनुष्टुप्
genderपुंmasc.
सा स्यादहमहमिका योऽहंकारः परस्परम् ।अत्याकारः परिभवस्तिरस्कारोऽप्यनादरः ॥ १७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
genderपुंmasc.
अनादर as a meaning in nānārtha verses
- धरणिकोश अवग्रहणशिखरिण्यः स्मृताश्छन्दोमल्लिकानवमालिकाः । प्रविदारणमाख्यातं विद्वद्भिर्दारणे रणे । अवग्रहणमित्येतत्प्रतिरोघेऽप्य[ना]दरे ॥ Dharaṇikośa 14.2.35
- कोषकल्पतरु अवग्रहणप्रतिरोधेऽवग्रहणं गदितं चानादरे तद्वत् । प्रविदारणं तु युद्धे विदारणे चापि निर्दिष्टम् ॥ ६७ ॥ Koṣakalpataru 6.15.67
- नानार्थार्णवसंक्षेप हेलाहेला त्वनादरे नृस्त्री क्रुधि ना हेतिवाक् पुनः । रवेरर्चिषि वह्नेश्च ज्वाले स्त्री नृस्त्रियोः पुनः ॥ १६०६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1606
- परमानन्दीयनाममाला कलाजाराज्जीवत्पतेः पुत्रे कुण्डः कुम्भ्यां जलाश्रये । कला शिल्पे विधोर्भागे क्रीडानादरनर्मणोः ॥ १०० ॥ Paramānandīyanāmamālā 5.7.100
- शब्दरत्नावली अवग्रहणअथावग्रहणं क्लीबं प्रतिरोधेऽप्यनादरे ॥ Śabdaratnāvalī 7.15.95