अश्वकर्णक
aśvakarṇakaपुं · masc.In 5 kośas: 5 synonym verses.
साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
पीतसाले सर्जसिन्धुः रक्ते सर्जे तु बाणकः ।अर्जुनः श्वेतसर्जे तु सर्जो वाप्यश्वकर्णकः ॥ २११ ॥
अनुष्टुप्
genderपुंmasc.
दीर्घपर्णः कौशिकोऽपि वन्यः स्यादश्वकर्णकः ।सस्यसंवरणस्तार्क्ष्यप्रसवोऽप्यतलः पुनः ॥ १९२ ॥
अनुष्टुप्
genderपुंmasc.
सालः श्यालस्तथा सर्जः कार्यः कार्ष्योऽश्वकर्णकः ।सस्यसंवरनामा सः शस्यसंवर इत्यपि ॥ २००६ ॥
अनुष्टुप्
genderपुंmasc.
पीतशालोऽर्जुनः सर्जः सर्जकोऽप्यशनोऽसनः ।सालः सार्जलता शङ्खः स्यात् काष्योप्यश्वकर्णकः ।शस्यशम्बर इत्येष सस्यसम्बर इत्यपि ॥
अनुष्टुप्
genderपुंmasc.