कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सर्ज

sarjaपुं · masc.

In 14 kośas: 13 synonym verses, 1 as a nānārtha head word, 10 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1138 · p. 44
कर्कन्धुः कुवली कोलिर्बदर्यथ हलिप्रियः ।नीपः कदम्बः सालस्तु सर्जोरिष्टस्तु फेनिलः ॥ ११३८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.44
साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.195 · p. 24
अर्जुनं ककुभं प्राहुः सालं सर्जं च सूरयः ।झाबुकः पिचुलः प्रोक्त इज्जलो निचुलः स्मृतः ॥ १९५ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.211 · p. 85
पीतसाले सर्जसिन्धुः रक्ते सर्जे तु बाणकः ।अर्जुनः श्वेतसर्जे तु सर्जो वाप्यश्वकर्णकः ॥ २११ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.189 · p. 269
नखवृक्षो नखालुः स्यान्नराह्वः शोकनाशनः ।अथ सर्जरसः सर्जः कलः कलयजोद्भवः ॥ १८९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.200 · p. 152
दीपवृक्षः सर्ज-सर्जरस-सर्वरसा गलः ।बहुरूपो यक्षधूपः स्निग्धदारुश्च शीतलः ॥ २०० ॥
अनुष्टुप्
genderपुंक्लीm. n.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र शाककाण्डः Nighaṇṭuśeṣa 4.364 · p. 195
छर्दनी च विपाण्डुश्च तस्याः पक्वफलं स्फुटी ।कूर्चके शृङ्गकः सर्जो दीर्घायुः कूर्चशीर्षकः ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2006 · p. 331
सालः श्यालस्तथा सर्जः कार्यः कार्ष्योऽश्वकर्णकः ।सस्यसंवरनामा सः शस्यसंवर इत्यपि ॥ २००६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.89 · p. 63
पीतशालोऽर्जुनः सर्जः सर्जकोऽप्यशनोऽसनः ।सालः सार्जलता शङ्खः स्यात् काष्योप्यश्वकर्णकः ।शस्यशम्बर इत्येष सस्यसम्बर इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.153 · p. 230
सर्जे फेनिले त्वरिष्ठो रिष्ठोऽपि पिचुमन्दवत् ।पिचुमर्दोऽपि निम्बेऽथ कर्पासे पिचुतूलयुक् ॥ १५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.471 · p. 62
मृदुत्वक्चर्मिणौ भूर्जे भूर्जपत्रः सितच्छदः ।सर्जो निकोचकाङ्कोलौ बिल्वः श्रीफलबिल्वकौ ॥ ४७१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.498 · p. 65
सर्जश्च क्षारवृक्षस्तु मुष्ककश्च विषापहः ।पुंनागो पुरुषस्तुङ्गः केसरो देववल्लभः ॥ ४९८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.38 · p. 48
विकंकते ग्रन्थिलः स्याद्व्याघ्रपाच्च मधुच्छदः ।सर्जेऽश्वकर्णः साले तु कार्ष्यकः सस्यसंवरः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
शिवकोष Śivakoṣa · शिवदत्तमिश्र जद्विः Śivakoṣa 7.1.4 · p. 10
सर्जोऽश्वकर्णकण्डूरा हस्तिपिप्पलिकासने ।

सर्ज as a meaning in nānārtha verses