श्याल
śyālaपुं · masc.In 12 kośas: 10 synonym verses, 8 as a meaning of another word.
जघन्यजे यविष्ठः स्यात्कनिष्ठोऽवरजोऽनुजः ।स यवीयान्कनीयांश्च पितृव्यश्यालमातुलाः ॥ ५५२ ॥पितुः पत्न्याश्च मातुश्च भ्रातरो देवृदेवरौ ।देवा चावरजे पत्युर्जामिस्तु भगिनी स्वसा ॥ ५५३ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनस्तु कनीयसि ।रागारो देवरो देवा जामाता दुहितुः पतिः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
पितृव्यस्तु पितुर्भ्राता मातुलो मातृसोदरे ।पत्नीभ्राता मतः श्यालो देवरः पतिबान्धवे ॥ २१७ ॥
अनुष्टुप्
genderपुंmasc.
मातुलो जननीभ्राता भगिनी सहजा स्वसा ।शालको गृहिणीबन्धुः श्यालः पत्नीसहोदरः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
पितुः पत्न्याश्च मातुश्च भ्राता लोके निगद्यते ।पितृव्यश्च तथा श्यालः मातुलः क्रमशोऽत्र वै ॥ ८८४ ॥
अनुष्टुप्
genderपुंmasc.
सालः श्यालस्तथा सर्जः कार्यः कार्ष्योऽश्वकर्णकः ।सस्यसंवरनामा सः शस्यसंवर इत्यपि ॥ २००६ ॥
अनुष्टुप्
genderपुंmasc.
पत्नीभ्राता च वाक्कीरः श्यालः श्यालक इत्यपि ।पत्युर्ज्येष्ठे श्वशुरको भ्रातृश्वशुर इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
स्यालस्तालव्य-दन्त्यादिः पत्न्या भ्रातरि कथ्यते ।देवृ-देवर-देवानः स्युः पत्युरनुजे स्वसा ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
बालो मुष्टिन्धयश्चाथ श्यालिका केलिकुञ्चिका ।नागरो देवलः श्यालो वारकीरोऽथ साश्रुधीः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
श्याल as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् श्वशुर्यश्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ ॥ १४६ ॥ Amarakośa 3.3.146
- हलायुधकोशः (अभिधानरत्नमाला) श्वशुर्यअग्न्युत्पातौ धूमकेतू श्वशुर्यौ श्यालदेवरौ । दिव्यार्थसंग्रहौ कोशौ नरेन्द्रौ नृपवार्त्तिकौ ॥ ८४० ॥ Abhidhānaratnamālā (Halāyudha) 5.840
- धरणिकोश श्वशुर्यअपत्ये दुहितृसुतौ लौहित्यौ व्रीहिसागरौ । श्वशुर्यौ देवरश्यालौ विस्मयाऽद्भुतगर्वयोः ॥ Dharaṇikośa 25.1.12
- कोषकल्पतरु श्वशुर्यअक्षय्ये द्रविणे च रेतसि मितेर्भेदेऽप्यकुप्ये तथा स्वर्णे चापि वराटके निगदितं न स्त्री हिरण्यं बुधैः । सौकर्यं तु वराहकर्मणि तथानायासपर्यायके ऽथाहार्यः स्थिरशैलयोर्निगदितः, श्याले पुनर्देवरे ॥ ७० ॥ Koṣakalpataru 6.26.70
- नानार्थार्णवसंक्षेप कीचकस्याले विराटराजस्य महाभारतविश्रुते । क्ली तु कीचकवृक्षस्य प्रसवे क्षीरिकः पुनः ॥ ४९० ॥ Nānārthārṇavasaṃkṣepa 4.490
- नानार्थार्णवसंक्षेप कुम्मीलनक्रे चोरे पुन(स्त्री?स्त्रि) स्यात् कुम्मीलस्तु पुमानयम् । स्यालाख्यमत्स्ये त्रिषु तु श्लोकच्छायादिहारिणि ॥ ५४४ ॥ Nānārthārṇavasaṃkṣepa 4.544
- नानार्थार्णवसंक्षेप आत्मनीनआभ्यन्तरं क्ली त्रि त्वेतदभ्यन्तरभवादिषु । आत्मनीनः सुते स्याले प्राणधारिणि दूषके ॥ ६८ ॥ Nānārthārṇavasaṃkṣepa 6.68
- शब्दरत्नावली श्वशुर्यलौहित्यं लोहितत्वे स्यात्क्लीबं पुंसि नदान्तरे । श्वशुर्यो देवरे श्याले श्यालीनन्दिकयोः स्त्रियाम् ॥ शाण्डिल्योऽग्निमुनिभिदोः श्रीफले च भवेत्पुमान् । शालेयः स्यान्मिसौ पुंसि त्रिषु शाल्योद्भवोचिते ॥ Śabdaratnāvalī 7.26.48