कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Bālaprabodhikā

बालप्रबोधिका Bālaprabodhikā

357 verses · 2,901 words tagged · 725 marked doubtful (dashed)

द्वादशोपदेशः

इति बालप्रबोधिकायामेकादशोपदेशः ।

वार्क्षिकं कानने तु स्याद्वृक्षे तु वसुविष्टिका ।लतायां वल्लरी वल्ली पुष्पे सूनं मणीचकम् ॥ २०२ ॥
12.202 · p. 84
अनुष्टुप्
छदस्तु छदनं पत्रं पलाशं छदनादलम् ।पर्णं बर्हं च पत्रं च कोशिका मुकुलोऽपि च ॥ २०३ ॥
12.203 · p. 84
अनुष्टुप्
गुच्छो गुलिच्छस्तवको मञ्जामञ्जनिवल्लरी ।प्रसवोऽपि फलं सस्यं फलं वृन्तन्तु बन्धनम् ॥ २०४ ॥
12.204 · p. 84
अनुष्टुप्
आम्रः कामाङ्कमाकन्दौ श्रेष्ठस्तु सहकारकः ।अथ श्यामलके लाला लवलीलबलीफला ॥ २०५ ॥
12.205 · p. 85
अनुष्टुप्
न्यग्रोधे तु जटालः स्याद्वकुले मद्यलालसः ।श्रीवृक्षे पिप्पलोऽश्वत्थः प्लक्षे तु गिरिलक्ष्मणा ॥ २०६ ॥
12.206 · p. 85
अनुष्टुप्
उदुम्बरे तु मशकी पलाशे किंशुकोऽपि च ।हस्तिकर्णिदले कृत्तिर्बिल्वे मालूरमङ्गलौ ॥ २०७ ॥
12.207 · p. 85
अनुष्टुप्
आरग्वधे वालभीलुः सिते तु विधुलो रथः ।कपित्थो मन्मथश्च स्यादरिष्टे तु च फेनिलः ॥ २०८ ॥
12.208 · p. 85
अनुष्टुप्
मातुलुङ्गे तु रुचको बीजपूरे तु लुङ्गकः ।अथात्यम्ला मातुलुङ्गी पूतिपुष्पी वृकाम्लिका ॥ २०९ ॥
12.209 · p. 85
अनुष्टुप्
महीपतिर्दन्तशटः कर्ता नेता च कर्म च ।विकन्तके ग्रन्थिलः स्यात् साले तु स्थूलसञ्चरः ॥ २१० ॥
12.210 · p. 85
अनुष्टुप्
पीतसाले सर्जसिन्धुः रक्ते सर्जे तु बाणकः ।अर्जुनः श्वेतसर्जे तु सर्जो वाप्यश्वकर्णकः ॥ २११ ॥
12.211 · p. 85
अनुष्टुप्
स्त्रीप्रियो वञ्चुलः शोके कङ्केलिः कर्णपूरकः ।अङ्कोले निचुलोऽपि स्याद्रसाले वरुणो रिपुः ॥ २१२ ॥
12.212 · p. 85
अनुष्टुप्
दोहग्राहे तु कतको लक्ष्मीवान् सवरः सयः ।राजादने फलद्व्यक्षो मधुपुष्पे मधुष्ठिलः ॥ २१३ ॥
12.213 · p. 85
अनुष्टुप्
चर्मिका भूर्जपत्रे स्यात् गुग्गुलौ तु महेश्वरः ।कामः पुरो जटायुश्च कुम्मोलू … कं वरम् ॥ २१४ ॥
12.214 · p. 85
अनुष्टुप्metre not read in every line
शोभाञ्जनी तीक्ष्णमन्धः शिग्रुका क्षीबमोचकौ ।कदम्बे पुलकः श्रीमान् नीपो धूर्तश्च दीपनः ॥ २१५ ॥
12.215 · p. 85
अनुष्टुप्
वासन्ते स्यात्कुरबको मदनो धूर्तनागरौ ।करञ्जे स्यान्नक्तमालः प्रकीर्यश्चित्रबिल्वकः ॥ २१६ ॥
12.216 · p. 85
अनुष्टुप्
तिलके पुलकः श्रीमान् सुगन्धो मुखमण्डनः ।कर्णपुरोऽल्पपुष्पश्च पुन्नागे सुरवल्लभः ॥ २१७ ॥
12.217 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 पु (wrong syllable)
पुत्रजीवेत्यक्षफलो रुद्राक्षे तु महामुनिः ।कृष्णपाकफलश्चोलः पनसो मधुबीजकः ॥ २१८ ॥
12.218 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्य (wrong syllable)
वन्दारो वृक्षको वन्द्या जीवन्त्यपि च रोहिणी ।वृक्षादनी वृक्षरुहा सेव्यास्मिन् क्षीरवृक्षजे ॥ २१९ ॥
12.219 · p. 86
अनुष्टुप्
तुनस्तुष्टो जयः कान्तः कुलिः कातुकलो द्रुमः ।अग्निमन्थे हरिन्मन्थः मन्थः सन्धे तमालकः ॥ २२० ॥
12.220 · p. 86
अनुष्टुप्
तुण्डिता पिञ्चके तु स्यात् बदर्यां कबरीत्यपि ।शमी सक्तुफला तु स्यात् काचस्थाल्यां कुबेरिका ॥ २२१ ॥
12.221 · p. 86
अनुष्टुप्
अमोघा पाटली चापि पूरण्यां शल्मलीति च ।काष्टिका तूलनी तूलफला स्यात्कूटशाल्मलिः ॥ २२२ ॥
12.222 · p. 86
अनुष्टुप्
श्वशाल्मलीः कूटफलः सिद्धिदा लोकमोहिनी ।जम्ब्वां त्रिसारा विरुजा भल्लातक्यग्निमुख्यका ॥ २२३ ॥
12.223 · p. 86
अनुष्टुप्
धातक्यामनलज्वाला सुभिक्षा शत्रुपुष्पिका ।कार्पासी तु भरद्वाजी ब्रह्मदत्ता तु पार्वती ॥ २२४ ॥
12.224 · p. 86
अनुष्टुप्
कोकिलाक्षे तु काण्डेक्षुर्वार्ताकी दुष्टधर्षिणी ।हयपुच्छी तु काम्भोजी ग्रामणी रञ्जनीति च ॥ २२५ ॥
12.225 · p. 86
अनुष्टुप्
मूलको मूल्यकश्चापि कुस्तबर्यल्पपत्त्रतः ।तद्बीजं धान्यकं प्रोक्तं विरिशस्तु मरीचिका ॥ २२६ ॥
12.226 · p. 86
अनुष्टुप्
कालमेष्यां कृष्णफला वागूजी वसमल्लिका ।श्रीफल्यां क्लातकी नीली काकोदुम्बरिकापि च ॥ २२७ ॥
12.227 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable)
स्वर्णपत्रा पृष्ठफला काकमाच्यान्तु वायसी ।प्रत्यक्श्रेणी सुतश्रेणी द्रवन्ती शम्बरी वृषा ॥ २२८ ॥
12.228 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पृ (wrong syllable)
प्रत्यक्पर्णी तु शिधरी त्वपामार्गस्वरेणुका ।सौगन्धी श्वेतसुरसा भारती तुलसी शिवा ॥ २२९ ॥
12.229 · p. 87
अनुष्टुप्
अल्पपत्रे तु जम्बीरः फणिज्जकसमीरकौ ।तीक्ष्णे तीक्षार्जका गौरी भूतग्निदेवदुन्दुभिः ॥ २३० ॥
12.230 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्नि (wrong syllable)
अल्पमाले तु वैकुण्ठो बिन्वगन्धो वचाछदः ।कालपर्ण्यां तु सुरभिः करालिः कालमालिका ॥ २३१ ॥
12.231 · p. 87
अनुष्टुप्
अथ ब्रह्मजटायां तु सल्लज्जं दानवं जनम् ।पुण्डरीकं दवनकं कान्तं दान्तं मुनिर्मरुः ॥ २३२ ॥
12.232 · p. 87
अनुष्टुप्
विष्णुक्रान्ता तु सुमुखी ऋषिणी द्रोणपुष्पिका ।सूर्यावर्तः पर्णिकायां मोरटा मूलमूलका ॥ २३३ ॥
12.233 · p. 87
अनुष्टुप्
भूवल्लूरं महिच्छत्रं भूस्फुटं भूमिकन्दकम् ।चन्द्राके सिन्धुरी धूश्च मुकुले तु फलोण्डुकः ॥ २३४ ॥
12.234 · p. 87
अनुष्टुप्
चक्रवर्ती सृगालश्च वास्तुके क्षारपत्रकः ।प्रवाले वीरशाकस्य भूषाया कासमर्दकः ॥ २३५ ॥
12.235 · p. 87
अनुष्टुप्
मत्स्याक्ष्यां लोहमारः स्यात् अगस्ते मुनिरित्यपि ।क्रपुनाटे त्वेडगर्जकूर्पो मार्जारमोहिनी ॥ २३६ ॥
12.236 · p. 87
अनुष्टुप्
मारिषे जीवशाकः स्यात् काण्डमारीष ओलकः ।वर्चला भूप्रवाले स्यात् तद्भेदे तु कलम्बिका ॥ २३७ ॥
12.237 · p. 87
अनुष्टुप्
कलम्बू वायसी वासा निद्रालुः खरनामकः ।शोषः केशफला घण्टा पृथौ कोशातकीति च ॥ २३८ ॥
12.238 · p. 87
अनुष्टुप्
ज्योत्स्ना स्वल्पफला ग्राम्या मृदङ्गः कृतवेदनः ।हस्तिघोषे तुरङ्गः स्यात् सुषव्यातिक्तपर्वकः ॥ २३९ ॥
12.239 · p. 87
अनुष्टुप्
द्राक्षायां कृष्णिका स्वाद्वी प्रियाला कालमेषिका ।मालत्यां रेवतीजातिर्यूथिकायां मनोज्वला ॥ २४० ॥
12.240 · p. 87
अनुष्टुप्
वासन्ती हेमपुष्पी स्यात् मल्लिका मुक्तबन्धना ।भूपतिः स्याद्वीचकीलो गवाक्षी तृणशून्यकम् ॥ २४१ ॥
12.241 · p. 88
अनुष्टुप्
शतभूर्दमयन्ती च सौरभे त्वस्य मङ्गलम् ।वृषाकदल्यां माहेद्रिर्दीर्घपत्रांशुमत्फला ॥ २४२ ॥
12.242 · p. 88
अनुष्टुप्
सुगन्ध्यल्पफला मेचा घनः कर्पूरभूरुहे ।बन्धुको बन्धुजीवश्च सप्रलापा विभावरी ॥ २४३ ॥
12.243 · p. 88
अनुष्टुप्
सुगन्धा ग्रैष्मिका ताना मालिका नवमालिका ।शेफालिकायां निर्गुण्डी नीलिका निवहा च सा ॥ २४४ ॥
12.244 · p. 88
अनुष्टुप्
कन्या कुमारी तरुणी प्रलोही चाविलातकः ।सैरेयकस्तु झिण्डी स्यात्तस्मिन् कुरवरोऽरुणे ॥ २४५ ॥
12.245 · p. 88
अनुष्टुप्
कुन्दो मध्यः शुक्लपुष्पः करवीरे हयोद्धतः ।परिहासः शतप्रासः सितकुम्भोऽश्वमारकः ॥ २४६ ॥
12.246 · p. 88
अनुष्टुप्
चकपुष्पः स्थूलपुष्पः कङ्करीषः शिवप्रियः ।नन्द्यावर्त्यान्तु तनरस्तारावटनभोङ्गणौ ॥ २४७ ॥
12.247 · p. 88
अनुष्टुप्
जपायां लोध्रपुष्पं स्यादत्र पद्मादयोऽपि च ।विदार्यां भूमिकूष्माण्डः सा तु कृष्णा फलाधिका ॥ २४८ ॥
12.248 · p. 88
अनुष्टुप्
लशुने तु ग्रहोच्छिष्टः पलण्डौ गुदवासनः ।कन्दः कन्दं चित्रदण्ड उल्लुः कण्डूरसूरणौ ॥ २४९ ॥
12.249 · p. 88
अनुष्टुप्
गौर्यां हरिद्रा रात्र्याख्या हेमघ्नी काञ्चनी वरा ।रोचनी रञ्चनी पीता पिञ्जा पिण्डमनः शिला ॥ २५० ॥
12.250 · p. 88
अनुष्टुप्
तोषिणी वर्जिनी बाला विकटान्ता तरङ्गिणी ।दार्व्यां दारुहरिद्रा स्यात् वेणौ यवफलः स्मृतः ॥ २५१ ॥
12.251 · p. 88
अनुष्टुप्
तृणराजस्तलस्तालो महापत्रः फलेरुहः ।क्रमुको वाटिको घोण्टा गवाङ्गः क्रूर आसवः ॥ २५२ ॥
12.252 · p. 88
अनुष्टुप्
कषायो नागवाक् पूगः फले पर्कटमित्यपि ।पक्वे लघुः खरं शुष्के चिक्कणचिक्कणेऽपि च ॥ २५३ ॥
12.253 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
हिन्तालस्तृणराजश्च नालिकेरे तु लाङ्गली ।दाक्षिणात्यो फले बालः सुतङ्गः कृच्छ्रकेसरः ॥ २५४ ॥
12.254 · p. 89
अनुष्टुप्
केली सदाफलोऽपि स्याद्रक्ते स्वर्ण इतीर्यते ।पट्टकेऽस्य परिक्रोणः खर्परः पूगपट्टके ॥ २५५ ॥
12.255 · p. 89
अनुष्टुप्
परुषः पाण्डखर्जूरे तस्मिन् खर्जूरिकाऽल्पके ।केतक्यां क्रकचच्छत्रा पुष्पे भोगवतीति च ॥ २५६ ॥
12.256 · p. 89
अनुष्टुप्
स्त्रीभूषणं रजःपुष्पं तप्तरागं निगद्यते ।दूर्वा … सहवीर्या तु शतवीर्या तु सा सिता ।इक्षुः कान्तारकश्च स्याद्दर्भे तु स्यात्परित्रकः ॥ २५७ ॥
12.257 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 दू (syllables merged)