कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

इभ्या

ibhyāस्त्री · fem.

In 5 kośas: 2 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.

शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.640 · p. 82
हस्तिवातिङ्गने त्विभ्या विशाला दद्रुनाशिनी ।मारिषो जीवशाकः स्यात् स्वल्पेऽस्मिंस्तण्डुलीयकः ॥ ६४० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.103 · p. 53
गोष्ठवातिंगने त्वेला परुका जलजंबुका ।हस्तिवातिंगने त्विभ्या विशाला दद्रुनाशिनी ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.4 · p. 256
अन्योऽप्यसदृशे भिन्ने वाच्यलिङ्गोऽपि कुत्रचित् ।अर्य्यः स्वामिनि वैश्ये स्यादास्यं वक्रे स्थितौ स्त्रियाम् ॥इज्याचीयां क्रतौ दाने सङ्गमे स्त्री गुरौ त्रिषु ।इभ्या करेणौ शल्लक्यां स्त्रियागाढ्येऽभिधेयवत् ॥
अनुष्टुप्

इभ्या as a meaning in nānārtha verses