कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

द्वितीयः काण्डः · वनाध्यायः (2/3)

तिल्वकः श्वेतपुष्पश्च श्वेतत्वक् तीक्ष्णगन्धकः ।सोमवल्को महात्वक् स्यात् सोमवृक्षश्च रोहिणी ॥ ५५५ ॥
2.3.555 · p. 72
अनुष्टुप्
तैलपर्णी तैलपर्णः सोमवृक्षो हरिप्रियः ।कुण्डली वृन्दफलिका तीक्ष्णपत्री च चारिणी ॥ ५५६ ॥
2.3.556 · p. 72
अनुष्टुप्
चतुष्कण्टकिनी चाथ रम्यकः सूर्यवल्लरी ।आवर्तिनी रक्तपुष्पा त्रिभाण्डी पीतपीलुका ॥ ५५७ ॥
2.3.557 · p. 72
अनुष्टुप्
महाज्वाला च कुष्ठघ्नी खरभूषः सुगन्धिकः ।सूक्ष्मभीरुर्मरुवकः खरपत्रः सरात्मकः ॥ ५५८ ॥
2.3.558 · p. 72
अनुष्टुप्
कृष्णनिम्बः कालशाकः कैडर्यः सुरभिश्च सः ।अभ्रिका मधुरा शीता विषघ्नी विषदूषिणी ॥ ५५९ ॥
2.3.559 · p. 72
अनुष्टुप्
कदम्बपुष्पी कच्छूघ्नी श्रमणी सैव मुण्डिनी ।विपुष्पा विफला विप्रा भञ्जी गुरुतरा सरा ॥ ५६० ॥
2.3.560 · p. 72
अनुष्टुप्
श्रादारी दार्विका दारी तीक्ष्णा हरितमञ्जरी ।मरुदध्ना विश्वरूपा गन्धलक्ष्मीः कफावहा ॥ ५६१ ॥
2.3.561 · p. 73
अनुष्टुप्
गाङ्गैरिका तु पित्तघ्नी कन्दमूला महारसा ।कञ्चुका मूलकं क्लीबे महामूलकमित्यपि ॥ ५६२ ॥
2.3.562 · p. 73
अनुष्टुप्
गौलीरसाम्लमधुरा मोचकी गुडमञ्जरी ।सर्पदृष्टिः सदापुष्पो वसिरः पार्वतेयकः ॥ ५६३ ॥
2.3.563 · p. 73
अनुष्टुप्
राजाक्षवः कर्कशः स्यात् कासारिर्वीतपुष्पकः ।विषमुष्टिः श्वेतमुष्टिः केशमुष्टिश्च मुष्टिकः ॥ ५६४ ॥
2.3.564 · p. 73
अनुष्टुप्
रक्तमञ्जरिकाकान्तः कामुको भूकदम्बकः ।लम्बूषो दक्षिणावर्तो वर्तनी च बृहत्फली ॥ ५६५ ॥
2.3.565 · p. 73
अनुष्टुप्
पानीयवल्ली सुषवी सुवर्णकुसुमा त्वियम् ।हिरण्यारणिका राजी बृहत्पुष्पातिकेसरा ॥ ५६६ ॥
2.3.566 · p. 73
अनुष्टुप्
तरुणी रामतरुणी पूलिका नित्यपुष्पिका ।काकोत्पलं कुवलयं कज्जलेन्दीवरं च तत् ॥ ५६७ ॥
2.3.567 · p. 73
अनुष्टुप्
वननिष्पावकः शिम्बी कुक्कुटी वनरञ्जिनी ।काकनासा तु काकाङ्गी जीवनीया शिरोरुहा ॥ ५६८ ॥
2.3.568 · p. 74
अनुष्टुप्
पशुगन्धा बस्तगन्धा शृङ्गी परमसूरिका ।सुरसा नाकुली रास्ना छत्राकी गन्धनाकुली ॥ ५६९ ॥
2.3.569 · p. 74
अनुष्टुप्
नकुलेष्टा भुजंगाक्षी सुगन्धा श्वासमल्लिका ।प्रत्यक्पर्णी कीशपर्णी किणिही खरमञ्जरी ॥ ५७० ॥
2.3.570 · p. 74
अनुष्टुप्
अपामार्गः शेखरिको धामार्गवमयुरकौ ।गण्डीरं भञ्जकं चव्यं चविका वृत्तपत्रिका ॥ ५७१ ॥
2.3.571 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 यु (wrong syllable)
पाण्डुपत्रा विशाला च कोलपिप्पलिका च सा ।जटी तपस्विनी मांसी रोमशा जटिलामिषी ॥ ५७२ ॥
2.3.572 · p. 74
अनुष्टुप्
जिङ्गी समङ्गा मञ्जिष्ठा विकसा कालमेषिका ।वासा सिंही वैद्यमाता सिंहास्यो वासको वृषा ॥ ५७३ ॥
2.3.573 · p. 74
अनुष्टुप्
आटरूषो वाजिदन्तो रोमशा जटिला वचा ।तीक्ष्णोग्रगन्धा षड्ग्रन्था मङ्गल्या वाजिगन्धिका ॥ ५७४ ॥
2.3.574 · p. 74
अनुष्टुप्
शतपर्वा च पौलोमी सा तु हैमवती सिता ।ऊषणा पिप्पली शौण्डी वैदेही मागधी कणा ॥ ५७५ ॥
2.3.575 · p. 74
अनुष्टुप्
कृष्णोपकुल्या चपला कोलाथ वसिरः पुमान् ।कपिवल्ली क्रोष्टुवल्ली श्रेयसी हस्तिपिप्पली ॥ ५७६ ॥
2.3.576 · p. 74
अनुष्टुप्
क्षुद्रगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः ।त्वक्पत्रं तु त्वचं चोचं वराङ्गं भृङ्गमुत्कटम् ॥ ५७७ ॥
2.3.577 · p. 75
अनुष्टुप्
पृश्निपर्णी पृथक्पर्णी प्रत्यक्पर्ण्यङ्घ्रिपर्णिका ।लाङ्गूली च गुहा चाथ सा दीर्घा चित्रपत्रिका ॥ ५७८ ॥
2.3.578 · p. 75
अनुष्टुप्
सिंहपुच्छा फेरुविन्ना चित्राङ्घ्रिः क्रोष्टुमेखला ।ग्रीष्महृद्या त्वधःपुष्पी कट्वङ्गी व्रणनाशिनी ॥ ५७९ ॥
2.3.579 · p. 75
अनुष्टुप्
कपित्थपत्रिका चाथ मत्स्याक्षी सोमवल्लिका ।एकाष्ठीला पापचेली स्थापनी वनतिक्तका ॥ ५८० ॥
2.3.580 · p. 75
अनुष्टुप्
तत्र प्रतिविषा घण्टारवा तु शणपुष्पिका ।काकचिञ्चा च विक्रोडा गुञ्जा चूडामणिर्वरा ॥ ५८२ ॥
2.3.582 · p. 75
अनुष्टुप्
शार्ङ्गाष्ठा कृष्णला दक्षा जङ्घा तिक्ता च रक्तिका ।मधुस्रवा तु सा शुक्ला दहनाह्वस्तु चित्रकः ॥ ५८३ ॥
2.3.583 · p. 75
अनुष्टुप्
पाठी ज्वाली दीपकं च कुष्ठघ्नी जघनेफला ।काकमाची बहुफला सर्वतिक्ता च वायसी ॥ ५८४ ॥
2.3.584 · p. 75
अनुष्टुप्
सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् ।त्रिभाण्डी रोचनी गोधापदी च सुवहा समे ॥ ५८५ ॥
2.3.585 · p. 75
अनुष्टुप्
गोपी तु शारिबा श्यामा नागजिह्वा सुगन्धिका ।सेवनीया च कृष्णा सा स्यादेवोत्पलशारिबा ॥ ५८६ ॥
2.3.586 · p. 76
अनुष्टुप्
ताम्बूलवल्ली ताम्बूली भुजंगलतिका च सा ।ऋश्यप्रोक्ताभीरुपत्री शतमूली शतावरी ॥ ५८७ ॥
2.3.587 · p. 76
अनुष्टुप्
नारायणी बहुसुताभीरुरिन्दीवरी वरी ।वेणी खरा गरी देवताली जीमूत इत्यपि ॥ ५८८ ॥
2.3.588 · p. 76
अनुष्टुप्
लज्जालुस्तु नमस्कारी कदल्यञ्जलिकारिका ।गण्डकाली कदल्यां तु लज्जालुश्च शमीफला ॥ ५८९ ॥
2.3.589 · p. 76
अनुष्टुप्
ह्रीबेरशालकोदीच्यबर्हिष्ठानि वराङ्गकम् ।केशाम्बुनामकं वीरतृणं स्याद्वीरणः पुमान् ॥ ५९१ ॥
2.3.591 · p. 76
अनुष्टुप्
मूलेऽस्योशीरमस्त्री स्यादवदाहं जलाशयम् ।लामज्जं नलदं सेव्यममृणालं वराभये ॥ ५९२ ॥
2.3.592 · p. 76
अनुष्टुप्
आह्लादनं लघुलयमिष्टकापथमित्यपि ।अन्नसंज्ञा बला वाट्या वाट्यालो हेमपुष्पकः ॥ ५९३ ॥
2.3.593 · p. 76
अनुष्टुप्
पुष्पवीर्या त्वतिबला सहा भद्रा बलेत्यपि ।भारती तुलसी सेव्या पालिनी विष्णुवल्लभा ॥ ५९४ ॥
2.3.594 · p. 76
अनुष्टुप्
प्रसारिणी चन्द्रबाला सारिणी च कटंभरा ।सोमराजी सोमवल्ली वागुजी वसुमल्लिका ॥ ५९५ ॥
2.3.595 · p. 77
अनुष्टुप्
कालमेषी कृष्णफली पूतिफल्यथ वृश्चिकः ।सर्पदंष्ट्रा धूमपुष्पी विषघ्नी वृश्चिकच्छदा ॥ ५९६ ॥
2.3.596 · p. 77
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable)
दासी षडश्रा शार्ङ्गाष्ठा काकजङ्घा विलोमिका ।पुनर्नवा तु शोफघ्नी वर्षाभ्वी जीवबोधिनी ॥ ५९७ ॥
2.3.597 · p. 77
अनुष्टुप्
सा तु शुक्ला वृश्चिकः स्यात् सा तु कृष्णा कठिल्लकः ।किणिही शीतला मैत्री प्रत्यक्श्रेण्यपराजिता ॥ ५९८ ॥
2.3.598 · p. 77
अनुष्टुप्
परास्फोता चाश्वखुरी श्वेतायामत्र वारिणी ।गिरिकर्णीगवादिन्यौ नीलायां स्थूलपुष्पिका ॥ ५९९ ॥
2.3.599 · p. 77
अनुष्टुप्
तिष्यान्ता तु लघुः स्पृक्का लतालंकारिका मरुत् ।मरुन्माला च पिशुना श्वदंष्ट्रा स्वादुकण्टका ॥ ६०० ॥
2.3.600 · p. 77
अनुष्टुप्
इक्षुगन्धा दुष्प्रधर्षाफला सिंही फलंकषा ।गोकण्टको गोक्षुरकः पुंसि तत्र त्रिकण्टकः ॥ ६०१ ॥
2.3.601 · p. 77
अनुष्टुप्
दार्वीदारुहरिद्रे तु हेमकाष्ठा कटंकटा ।कटंकटेरी पर्जन्या कालेयकहरिद्रवौ ॥ ६०३ ॥
2.3.603 · p. 78
अनुष्टुप्
ज्योतिष्मती पूतितैला पारावतपदीङ्गुदी ।तेजोवती किङ्किणिका जीवन्ती स्फुटवल्कला ॥ ६०४ ॥
2.3.604 · p. 78
अनुष्टुप्
क्षुद्रश्वेतकटभ्रौ तु सुनागो बहुकण्टकः ।महाश्वेता शतपदी किणिही शोफनाशिनी ॥ ६०५ ॥
2.3.605 · p. 78
अनुष्टुप्
शिरीषपत्री पौण्ड्री च शोणपर्णस्तु तापसः ।इङ्गुदोऽङ्गारकश्चारपुण्ड्रः पाटलपुण्ड्रकः ॥ ६०६ ॥
2.3.606 · p. 78
अनुष्टुप्
उरणाक्षस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः ।प्रपुन्नाडः समाने तु शार्ङ्गाष्ठाचर्मपर्णिके ॥ ६०७ ॥
2.3.607 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वे (wrong syllable)
आजमोदा बस्तगन्धा ब्रह्मदर्भा यवानिका ।स्वर्णक्षीरी हैमवती पटुपर्णी हिमावती ॥ ६०८ ॥
2.3.608 · p. 78
अनुष्टुप्
विशल्या शक्रपुष्प्यग्निशिखानन्ता फलिन्यपि ।पूगस्तु मलपुष्पः स्याद्वसुकः किण्वमूलकः ॥ ६०९ ॥
2.3.609 · p. 78
अनुष्टुप्
अमी समाः स्युः पर्णासकुठेरककठिञ्जराः ।शुक्लेऽस्मिन् मञ्जरी तीक्ष्णतीक्ष्णगन्धार्जकाः समाः ॥ ६१० ॥
2.3.610 · p. 78
अनुष्टुप्
अस्मिन् सुगन्धे स्याच्छ्वेतसुरसा सुरसापि च ।मण्डूकपर्णिका भण्डी भण्डीरी चाथ पालकम् ॥ ६११ ॥
2.3.611 · p. 78
अनुष्टुप्
व्याप्यं कुष्ठं पारिभाव्यमुत्पलं व्याधिरित्यपि ।वृषा तु वृषभः शृङ्गी पालक्यां कुन्दकुन्दुरू ॥ ६१२ ॥
2.3.612 · p. 79
अनुष्टुप्
प्रस्थपुष्पो मरुवकः समीरणफणिज्जकौ ।कपोताङ्घ्रिस्तु सुषिरा नटी विद्रमवल्लरी ॥ ६१३ ॥
2.3.613 · p. 79
अनुष्टुप्
शङ्खिनी केशिनी चोरपुष्पिका शङ्खपुष्पिका ।मुरा गन्धकुटी दैत्या सालपर्ण्यश्वगन्धिका ॥ ६१४ ॥
2.3.614 · p. 79
अनुष्टुप्
कबरा खरपुष्पासृग्गन्धिकाथ विदारिका ।भूकूश्माण्डीक्षुगन्धा च सा तु कृष्णा फलाधिका ॥ ६१५ ॥
2.3.615 · p. 79
अनुष्टुप्
उष्ट्रिका क्षीरशुक्लेक्षुगन्धिकेक्षुविदारिका ।श्वेता क्षीरविदारी सा महाश्वेतर्क्षगन्धिका ॥ ६१६ ॥
2.3.616 · p. 79
अनुष्टुप्
वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी ।हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ ६१७ ॥
2.3.617 · p. 79
अनुष्टुप्
माषपर्णी तु काम्बोजी यवपुष्पा महासहा ।रास्ना तु सुवहा युक्तरसैलापर्णिका च सा ॥ ६१८ ॥
2.3.618 · p. 79
अनुष्टुप्
किराततिक्तो भूनिम्बः शार्ङ्गेरी त्वम्ललोणिका ।अम्बष्ठा चुक्रिका दन्तशठा चाथ कलम्बिका ॥ ६१९ ॥
2.3.619 · p. 79
अनुष्टुप्
वायसी शतपर्वाथ नदी विद्रुमवल्लिका ।सुषिरा च कपोतङ्घ्रिरतिच्छत्रा तु कारवी ॥ ६२० ॥
2.3.620 · p. 79
अनुष्टुप्
सितपुष्पी सितच्छत्रावाक्पुष्पी मधुरा कणा ।मधुका यष्टिमधुकं क्लितकं मधुयष्टिका ॥ ६२१ ॥
2.3.621 · p. 80
अनुष्टुप्
भूवल्लूरमिलाछत्रं कुक्वण्डं भूमिकन्दकम् ।चारटी सव्यथा पद्मातिचरा पद्मचारिणी ॥ ६२२ ॥
2.3.622 · p. 80
अनुष्टुप्
पुण्डरीकं दमनकं सलज्जं दारुवन्मुनिः ।तत्र ब्रह्मजटा च स्यादलर्कः सिंहवल्लरी ॥ ६२३ ॥
2.3.623 · p. 80
अनुष्टुप्
कण्टकारी तु बृहती वार्ताकी दुष्प्रधर्षिणी ।सिंही कण्टकिनी क्षुद्रा कार्पासी तुण्डिकेरिका ॥ ६२४ ॥
2.3.624 · p. 80
अनुष्टुप्
जपा तु रक्तकार्पासी समे कार्पासबादरे ।तुण्डिकेरी तु बिम्बी स्याद् बिम्बो बिम्बा च तत्फले ॥ ६२५ ॥
2.3.625 · p. 80
अनुष्टुप्
कुस्तुम्बुरु तु धान्याकं तत्र छत्रा वितुन्नकम् ।कोशातकी पटोली स्यात् पटोलः कर्कशः पटुः ॥ ६२६ ॥
2.3.626 · p. 80
अनुष्टुप्
घण्टाला तु कृतच्छत्रा ज्योत्स्नी कोशातकी फली ।ग्राम्या मृदङ्गफलिका जालिनी फलिनीत्यपि ॥ ६२७ ॥
2.3.627 · p. 80
अनुष्टुप्
राजजाली महाकोशातकी च फलिकेति च ।कर्कोटी कोशफलिका क्ष्वेडोऽधोमार्गवोऽप्यसौ ॥ ६२८ ॥
2.3.628 · p. 80
अनुष्टुप्
महाजाल्यां कोशफलो वन्द्या तिक्तपटोलिका ।जाङ्गादीप फली चाथ कारवेल्लः कठिल्लकः ॥ ६२९ ॥
2.3.629 · p. 80
अनुष्टुप्
राजवल्ल्युरुवल्ल्यम्बुवल्ली रञ्जनवल्लिका ।सुषवी तिक्तपत्री च कर्कोटस्तु युगंधरः ॥ ६३० ॥
2.3.630 · p. 81
अनुष्टुप्
हस्तिकर्कोटकश्चैव बृहत्कर्कोटको बली ।अर्शोघ्नः सूरणः कन्दः कूष्माण्डस्तु नृपात्मजः ॥ ६३१ ॥
2.3.631 · p. 81
अनुष्टुप्
हेमपुष्पस्तिष्यफलः कर्कारुस्तिष्यवल्लरी ।कूष्माण्डी तिष्यफलिका कटुतुम्ब्यां नृपात्मजा ॥ ६३२ ॥
2.3.632 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ति (wrong syllable)
लम्बा तुम्बवतीक्ष्वाकुस्तिक्तबीजो महाफलः ।तुम्ब्यां पिण्डफलालाबूर्वृत्ततुम्ब्यां तु कम्बुका ॥ ६३३ ॥
2.3.633 · p. 81
अनुष्टुप्
अल्पतुम्ब्यां कुक्कुटाक्षः समौ कर्करिचित्रकौ ।उर्वारुः कर्कटी भीरुर्वालकी चिद्भटः पुमान् ॥ ६३४ ॥
2.3.634 · p. 81
अनुष्टुप्
त्रपुसश्छर्दनस्तालः कुटपत्री च मूत्रला ।पाण्डुपत्री विशाला स्यादमरी चेन्द्रवारुणी ॥ ६३५ ॥
2.3.635 · p. 81
अनुष्टुप्
मृगोर्वारुस्तिक्तफली विचित्रफलिका च सा ।अथो गवाक्षी गोतुम्बी कलिङ्गश्चित्रकोऽपि च ॥ ६३६ ॥
2.3.636 · p. 81
अनुष्टुप्
कदली वारणबुसा रम्भा मोचांशुमत्फला ।काष्ठीला दीर्घपत्रा च सा तु चम्पा सितेतरा ॥ ६३७ ॥
2.3.637 · p. 81
अनुष्टुप्
वार्ताकी प्रसवा काली बृहती दुष्प्रधर्षिणी ।वातिङ्गनस्तु गान्धारी वार्ताकी हिङ्गुलीङ्गुली ॥ ६३८ ॥
2.3.638 · p. 82
अनुष्टुप्
वात्या बृहत्यां सुस्कन्धा धन्या प्रसहनी लता ।गोष्ठवातिङ्गने त्वेलागन्धिका जलजम्बुका ॥ ६३९ ॥
2.3.639 · p. 82
अनुष्टुप्
हस्तिवातिङ्गने त्विभ्या विशाला दद्रुनाशिनी ।मारिषो जीवशाकः स्यात् स्वल्पेऽस्मिंस्तण्डुलीयकः ॥ ६४० ॥
2.3.640 · p. 82
अनुष्टुप्
मेघनादश्च गण्डीरं रक्तेऽस्मिन् देवमारिषः ।वरो लतामारिषः स्याद्वरशाकश्च शाकिनी ॥ ६४१ ॥
2.3.641 · p. 82
अनुष्टुप्
सृगालवास्तुके त्वारुर्वास्तुके क्षारपत्रकः ।प्रवालो वीरशाकश्च वास्तिकः शोफकर्शकः ॥ ६४२ ॥
2.3.642 · p. 82
अनुष्टुप्
रोदनी कच्छुरा नक्रा ताम्रमूला दुरालभा ।यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥ ६४३ ॥
2.3.643 · p. 82
अनुष्टुप्
द्रोणस्तु द्रोणिका छत्रा चक्षुष्या द्रोणपुष्पिका ।जीरको जरणो हृद्योऽजाजिः कृष्णे तु जीरके ॥ ६४४ ॥
2.3.644 · p. 82
अनुष्टुप्
कालोपकुञ्चिका पृथ्वी सुषवी कारवी कणा ।सर्षपो दुन्दुभस्तीक्ष्णो रक्षोघ्नो दुष्प्रधर्षणः ॥ ६४५ ॥
2.3.645 · p. 82
अनुष्टुप्
कदम्बकश्च कटुकः सिद्धार्थः श्वेतसर्षपः ।रक्षोघ्नश्च गृहघ्नश्च कलम्ब्यां स्यादुपोदका ॥ ६४६ ॥
2.3.646 · p. 83
अनुष्टुप्
समष्टिला च गण्डीरं शकुटो दलकूर्चिका ।बृहच्छदो महापद्मः शोफघ्नो मोह इत्यपि ॥ ६४७ ॥
2.3.647 · p. 83
अनुष्टुप्
वराहकन्दे वाराही कन्दलः कन्दली स्त्रियाम् ।मध्वालुको मधुरसः कालाची नूतकन्दलम् ॥ ६४८ ॥
2.3.648 · p. 83
अनुष्टुप्
विष्वक्सेना तु बदरा वराङ्गी वज्रवल्लरी ।त्र्यश्रा गृष्टिः प्रिया नागबला गाङ्गेरुकी समे ॥ ६४९ ॥
2.3.649 · p. 83
अनुष्टुप्
कूर्चशीर्षो मधुकरो ह्रस्वाङ्गः शृङ्गिजीवकौ ।ब्रह्म्यां सत्यवती ब्राह्मी मत्स्याक्षी सोमवल्लिका ॥ ६५० ॥
2.3.650 · p. 83
अनुष्टुप्
पर्पटः पटुकोऽथास्त्री मूलकं हिलकूर्चिका ।झटामलाज्झटो ताली शिवा तामलकीत्यपि ॥ ६५१ ॥
2.3.651 · p. 83
अनुष्टुप्
वार्षिकं त्रायमाणः स्यात् नायन्ती बलभद्रिका ।रसोनो गृज्जनोऽरिष्टः पलाण्डुरमृतोद्भवः ॥ ६५२ ॥
2.3.652 · p. 83
अनुष्टुप्
सुकन्दकः कटुः कञ्जो महाकन्दो महौषधम् ।कायाङ्गं लशुनं दीप्यं जीर्णकं गुल्मनाशनम् ॥ ६५३ ॥
2.3.653 · p. 84
अनुष्टुप्
सुकन्दकः श्वेतकन्दः पलाण्डुश्च समा इमे ।हरिद्रक्ते स्वल्पकन्दो गृञ्जनो गर्जनो गजः ॥ ६५४ ॥
2.3.654 · p. 84
अनुष्टुप्
हरितेऽस्मिन् लतार्कः स्यात् परुण्डो दद्रु मोऽसमः ।लशुनं दीर्घपत्रं च पिच्छगन्धो महौषधम् ॥ ६५५ ॥
2.3.655 · p. 84
अनुष्टुप्
परुण्डुश्च पलाण्डुश्च लतार्कश्चापराजिता ।गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः ॥ ६५६ ॥
2.3.656 · p. 84
अनुष्टुप्
आर्द्रकं शृङ्गिवेरं स्याच्छ्यामिका कालकेशिका ।विशल्या लाङ्गली विद्युद्रक्तपुष्पानलाङ्गिका ॥ ६५७ ॥
2.3.657 · p. 84
अनुष्टुप्
त्वक्सारस्तेजनो वंशस्त्वचिसारस्तृणध्वजः ।मृत्युपुष्पो यवफलो वेणुः कर्मारमस्करौ ॥ ६५८ ॥
2.3.658 · p. 84
अनुष्टुप्
शतपर्वाप्यथ क्ष्वेलः करीरोऽस्त्री तदङ्कुरः ।कीचका वेणवस्ते ये स्वनन्त्यनिलपूरिताः ॥ ६५९ ॥
2.3.659 · p. 84
अनुष्टुप्
नालिकेरो द्वयोः कूर्चकेसरो लाङ्गली हली ।सदाफलो दाक्षिणात्यो बलिसेव्यः कलिङ्गकः ॥ ६६० ॥
2.3.660 · p. 84
अनुष्टुप्
मधुक्षीरो मधुरसः खर्जूरः पुंसि च स्त्रियाम् ।कूर्चपुष्पोऽपि तालस्तु राजतालो दृढच्छदः ॥ ६६१ ॥
2.3.661 · p. 84
अनुष्टुप्
तारो वराङ्गना ताली राजताल्यथ केतकी ।केतकोऽपि रजःपुष्पः स्त्रीप्रियः सर्पवेष्टितः ॥ ६६२ ॥
2.3.662 · p. 85
अनुष्टुप्
खर्जूरः केतकी पूगो हिन्तालो नालिकेरकः ।तृणवृक्षाः प्रियालः स्यादिक्षुः खड्गदलो मधुः ॥ ६६३ ॥
2.3.663 · p. 85
अनुष्टुप्
तस्मिन्मधुतृणं भेदा वंशकान्तारपुण्ड्रकाः ।मत्कुटः सूक्ष्मपत्रः स्याद्दीर्घलोहितयष्टिका ॥ ६६४ ॥
2.3.664 · p. 85
अनुष्टुप्
गुच्छो वृत्ततृणः शुण्ठी शृङ्गिबेरार्हमूलकः ।शरेक्षुरिक्षुकुसुमः पिकेक्षुर्गिरिकर्णिका ॥ ६६५ ॥
2.3.665 · p. 85
अनुष्टुप्
तस्मिन् काण्डेक्षुकाशेक्षू अपि चामरपुष्पकः ।शादस्तु घासो यवसं तृणं हरितमर्जुनम् ॥ ६६६ ॥
2.3.666 · p. 85
अनुष्टुप्
तृण्या तु तृणसंघाते शाद्वलं तु तृणाङ्कुरे ।पुञ्जीलस्तु तृणस्तम्बः शष्पं बालतृणं समे ॥ ६६७ ॥
2.3.667 · p. 85
अनुष्टुप्
कुशो मुनिः कुथो दर्भः क्लीबे बर्हिः पवित्रके ।मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वग्ब्रह्ममेखला ॥ ६६८ ॥
2.3.668 · p. 85
अनुष्टुप्
अश्ववालस्तु दर्भः स्यात् काशोऽस्त्री स्त्रीक्षुगन्धिका ।समाः काशः शरो मुञ्जो दर्भभेदे खरच्छदः ॥ ६६९ ॥
2.3.669 · p. 85
अनुष्टुप्
ऊर्ध्वमूलोलपौ चास्मिन् जूर्णा कृकणपत्रिका ।नडादिकं तृणं गर्मुछ्यामाकप्रमुखा अपि ॥ ६७० ॥
2.3.670 · p. 85
अनुष्टुप्
नडस्तु धमनः पोटगलो नड्या तु तद्गणे ।सौगन्धिकं देवजग्धं कत्तृणं धा(ध्या?)मकं पुरम् ॥ ६७१ ॥
2.3.671 · p. 86
अनुष्टुप्
गुन्द्रः शरस्तेजनः स्यादिषीका कूलिका समे ।छत्राकश्छत्रपालघ्नौ पुंसि भूम्नि च बल्बजाः ॥ ६७२ ॥
2.3.672 · p. 86
अनुष्टुप्
दूर्वा तु हरिताली स्याच्छतवीर्या च भार्गवी ।सितदूर्वा तु गोलोमी श्वेताङ्गी शतमूलिका ॥ ६७३ ॥
2.3.673 · p. 86
अनुष्टुप्
मुस्ता स्त्री मुस्तकोऽस्त्री स्याच्छ्वेतमध्यः सुगन्धिकः ।शकलाक्षः कर्णपूरो ग्राही कर्पूरगन्धिकः ॥ ६७४ ॥
2.3.674 · p. 86
अनुष्टुप्