एला
elāस्त्री · fem.In 12 kośas: 11 synonym verses, 19 as a meaning of another word.
पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा ।
अनुष्टुप्
genderस्त्रीfem.
माधव्यनन्यगमना निःसङ्गा तु वसन्तिका ।एला तु चन्द्रलतिका लवङ्गलतिका वधूः ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
एला लता चन्द्रबाला सूक्ष्मेला तूपकुम्भिका ।उर्वारौ ककरी भीरुः कूष्माण्डे तु नृपात्मजः ॥ २९ ॥
अनुष्टुप्
genderस्त्रीfem.
गन्धमूलस्तीक्ष्णमूलोऽथैला तु लवली हिमा ।निःकुटी निःकुटिरपि द्राविड्यल्पा त्रुटी त्रुटिः ॥ ३५८ ॥
अनुष्टुप्
genderस्त्रीfem.
निष्कुटिर्बहुला च स्यात्सूक्ष्मा तु त्रिपुटा मता ।कपोतवर्णा कोरङ्गी तुच्छाप्येलोपकुञ्चिका ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
अग्निज्वाला सुभिक्षा च धातृ च धातुपुष्पिका ।एला च बहुला चन्द्रबाला निष्कुटिरित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
दीर्घादय ईडेलेराश्च त्विडीडौ डान्तगौ मतौ ।अन्दताविड ईडश्च देवभिद्यपि तौ स्मृतौ ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
चण्डातको हरिक्षेमौ गणहासश्च राक्षसी ।बहुला चन्द्रबालैला पृथ्वीका निष्कुटी तुटिः ॥ ५३१ ॥
अनुष्टुप्
genderस्त्रीfem.
त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धं त्रिजातकम् ।तदेव चातुर्जातं स्यान्नागकेसरसंयुतम् ॥ १४६४ ॥
अनुष्टुप्
genderस्त्रीfem.
गोष्ठवातिंगने त्वेला परुका जलजंबुका ।हस्तिवातिंगने त्विभ्या विशाला दद्रुनाशिनी ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
निष्कुट्यां चन्द्रबालैला पृथ्विका त्रिदिवात्र तु ।सूक्ष्मायां त्रिपुटा कुन्तिस्त्रुटिस्तुत्थोपकुंचिका ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
एला as a meaning in nānārtha verses
- धरणिकोश बहुलबहुला कृत्तिका गौस्तु एलाश्च बहुला मता । बहुलः कृष्णपक्षोऽग्निर्बहुलो बहुलं शिति ॥ Dharaṇikośa 27.3.20
- कोषकल्पतरु दाडिमएलायां करके च दाडिम इति त्रय्यामथो भेषजे गोधूमो नरि नागरङ्ग उदितो व्रीहेर्विभेदेऽपि च । व्याया[34a]मो नरि पौरुषे श्रमविधौ स्याद्दुर्गसंचारके सर्पे पाशिनि कुक्कुरे नरि विलोमः स्यात्प्रतीपेऽन्यवत् ॥ ९१ ॥ Koṣakalpataru 6.25.91
- कोषकल्पतरु विशल्यारसाञ्जने नेत्रहितेऽन्यवत्स्या- द्दन्त्यां विशल्याऽग्निशिखागुडूच्योः । एलागता चाथ यशस्यभिख्या तथाभिधाने छविवाचिका च ॥ ७९ ॥ Koṣakalpataru 6.26.79
- कोषकल्पतरु बहुलअग्नौ च स्त्री तु नील्येलागोषु स्त्री भूम्नि भान्तरे । क्लीबेऽन्तरिक्षे परवदसितप्राज्ययोर्भवेत् ॥ ८ ॥ Koṣakalpataru 6.28.8
- नानार्थार्णवसंक्षेप कुन्तिकुतूसंज्ञे स्नेहपात्रे पेठेऽन्येषां न तन्मतम् । एलायां च कुणिस्तु स्यान्नान्दीवृक्षाख्यपादपे ॥ २४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.246
- नानार्थार्णवसंक्षेप पृथ्वीकासेनायामपि युद्धे च पृथिवी तु महीखयोः । पृथ्वीका पुनरेलायां स्यात् तथा कृष्णजीरके ॥ ६१ ॥ Nānārthārṇavasaṃkṣepa 3.1.61
- नानार्थार्णवसंक्षेप त्रिदिवना स्वर्गाकाशयोः क्लीबे त्वन्ये केचित् स्त्रियां पुनः । एलायां निम्नगाभेदे त्रिदिवां त्रिपदी पुनः ॥ ८६१ ॥ Nānārthārṇavasaṃkṣepa 4.861
- नानार्थार्णवसंक्षेप दाडिमीतत्र त्रि रभसस्त्वाह त्रिलिङ्गा दाडिमी बुधः । एलायां मुच्चिलि(ङ्गा?न्दा)ख्यपादपे ब्रूमहे वयम् ॥ ९१९ ॥ Nānārthārṇavasaṃkṣepa 4.919
- नानार्थार्णवसंक्षेप निष्कुटीगृहागमे पुमांस्त्रिस्तु निष्क्रान्तादौ कुटादथ । एलायां निष्कुटी स्त्री स्यान्निष्क्रान्तादौ कुटेस्त्रिषु ॥ १०३९ ॥ Nānārthārṇavasaṃkṣepa 4.1039
- नानार्थार्णवसंक्षेप बहुलास्त्रियां तु बहुला भूभ्यामेलायां सुरभावपि । श्वेतायां चाथ रोदस्यौ द्विवचो बहुले इति ॥ १२३० ॥ Nānārthārṇavasaṃkṣepa 4.1230
- नानार्थार्णवसंक्षेप त्रिसुगन्धत्रिसुगन्धं तु जानीयादेलात्वक्पत्रकत्रये । नपुंसकं समासाद्यलिङ्गान्यत्रापि पूर्ववत् ॥ २५७ ॥ Nānārthārṇavasaṃkṣepa 6.257
- नानार्थार्णवसंक्षेप सर्वगन्धआक्षिप्तस्य पुनश्चापि स्थापनायामथो नपि । एलालवङ्गत्वक्पत्रनागकेसरसिल्हकाः ॥ ६४२ ॥ Nānārthārṇavasaṃkṣepa 6.642
- शिवकोष त्रुटित्रुटिरेलाकट्फलयोर्नटस्तु नटमण्डने । नडेऽशोके नटं वन्ये नलीनीलिकयोर्नटी ॥ १२० ॥ Śivakoṣa 8.1.120
- शिवकोष त्रिपुटात्रिपुटैलामल्लिकयोस्त्रिवृताबृहदेलयोः । सतीनके तु चणके त्रिपुटश्चाथ पर्कटी ॥ १३१ ॥ Śivakoṣa 8.2.131
- शिवकोष दाडिमगोधूमः स्यान्नागरङ्गशूकधान्यप्रभेदयोः । दाडिमस्तु त्रिलिङ्गं स्यादेलायां करकेऽपि च ॥ ३३६ ॥ Śivakoṣa 20.2.336
- शिवकोष ऐन्द्रीऐन्द्री स्यादिन्द्रवारुण्यां शेफल्यां सारिवैलयोः । क्षारः पाक्ये गुडे काचे यवजे पटुभस्मनोः ॥ ३७२ ॥ Śivakoṣa 22.2.372
- शब्दरत्नावली गुल्मवस्त्रवेश्मामलक्येलावनीस्तम्बेषु च स्त्रियाम् । घर्मो ग्रीष्मातपोष्णेषु स्वेदाम्भसि भवेत्पुमान् ॥ Śabdaratnāvalī 7.25.9
- शब्दरत्नाकर बहुलफलकी चन्दनश्चर्मी बर्बरो भङ्गुरेऽधमे । बहुलोऽग्निः कृष्णपक्षो बहुलैलार्जुनी मही ॥ २१३८ ॥ Śabdaratnākara 4.1.2138
- वैजयन्ती बहुलास्त्री स्यात्पृथिव्यामुस्रायामेलायां कृत्तिकासु च । भविलं भवने भव्ये भ्रमरः कामुकेऽलिनि ॥ ६२ ॥ Vaijayantī 7.5.62