कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

नानालिङ्गाध्यायः (4/18)

कञ्जारो ना गृहे गूढे मणौ कश्चिदथ त्रिषु ।अशोभनेऽथ कवटं क्लीबमुच्छिष्टमिः सयोः ॥ ३६१ ॥
4.361 · p. 77
अनुष्टुप्
मर्त्यजात्यन्तरे तु द्वे पुल्कसीशूद्रसम्भवे ।क्रकरस्तु करीरद्रौ दीनक्रकचयोश्च ना ॥ ३६२ ॥
4.362 · p. 78
अनुष्टुप्
द्वयोस्तु पक्षिभेदे स्यादेतद्रभसभाषितम् ।करटस्तु पुमान् बिल्वे गजगण्डेऽप्यथाब्रवीत् ॥ ३६३ ॥
4.363 · p. 78
अनुष्टुप्
रभसोऽमुं नवश्राद्धे शब्दवेदी द्वयोः पुनः ।काके दुर्दुरुटे तु त्रिः कुङ्कुमे तु नपुंसकम् ॥ ३६४ ॥
4.364 · p. 78
अनुष्टुप्
करटा तु स्त्रियां दुःखदोह्यायां गवि नप् पुनः ।करोटं वस्त्रकोशे च कपाले शिरसस्तथा ॥ ३६५ ॥
4.365 · p. 78
अनुष्टुप्
द्वे तु भृत्ये घनाम्लायां य्वागुल्यां स्यात् करोटिका ।कपटो ना वर्णभेदे त्रिस्तु तद्वत्यथ द्वयोः ॥ ३६६ ॥
4.366 · p. 78
अनुष्टुप्
कितवेऽथ कपोतो ना वर्णभेदे त्रि तद्वति ।द्वे तु पारावताभिख्यखगेऽन्यस्मिन्नपि क्वचित् ॥ ३६७ ॥
4.367 · p. 78
अनुष्टुप्
गृहप्रवेशनायोग्ये पक्षिभेदेऽथ कर्परः ।पुमान् घटादिशकले कपालाख्ये शिरोस्थनि ॥ ३६८ ॥
4.368 · p. 78
अनुष्टुप्
कटाहे शस्त्रभेदे च वृक्षस्यावयवान्तरे ।रसाञ्जने तु स्त्रीलिङ्गा कर्परीति विदुर्बुधाः ॥ ३६९ ॥
4.369 · p. 78
अनुष्टुप्
कर्पूरोऽस्त्री चन्द्रसंज्ञगन्धद्रव्ये स्त्रियां पुनः ।कर्पूरी नागवल्ल्याख्यवल्लीभेदेऽथ कर्बुरम् ॥ ३७० ॥
4.370 · p. 78
अनुष्टुप्
क्लीबं स्वर्णे हरिच्छुक्लमिश्रवर्णे तु पुंस्ययम् ।सिंहस्तु चित्र इत्याह त्रि तु वर्णसमन्विते ॥ ३७१ ॥
4.371 · p. 78
अनुष्टुप्
तद्वर्णयुक्तसुरभौ पुनः स्त्री कर्बुरा तथा ।जलौकाजातिभेदे च सविषे तस्य लक्षणम् ॥ ३७२ ॥
4.372 · p. 78
अनुष्टुप्
या छिन्नोन्नतकुक्षिः स्याद् वर्मिमत्स्यवदायता ।सविषा कर्बुरा नामेत्यथ स्यात् कच्छुरस्त्रिषु ॥ ३७३ ॥
4.373 · p. 78
अनुष्टुप्
पामाभिः संयुते जन्तौ कच्छुरा तु स्त्रियामियम् ।शट्यामप्यात्मगुप्तायां यवासे कण्डुरस्तु ना ॥ ३७४ ॥
4.374 · p. 79
अनुष्टुप्
सूरणेऽथात्मगुप्तायां कण्डुरा स्त्री नृभूम्नि तु ।कम्बोजा देशभेदे स्यान्ना तु स्यात् तम्य राजनि ॥ ३७५ ॥
4.375 · p. 79
अनुष्टुप्
द्वयोस्तु तदपत्ये स्याद् गजभेदे च ना पुनः ।शङ्खेऽपि रभसेनोक्तः कपर्दस्तु पुमानयम् ॥ ३७६ ॥
4.376 · p. 79
अनुष्टुप्
महादेवजटाजूटे जटाजूट इतीतरे ।जलजन्तुविशेषे तु वराटाख्ये द्वयोरथ ॥ ३७७ ॥
4.377 · p. 79
अनुष्टुप्
क्रमुको ना पूगवृक्षे पट्टिकाख्ये च पादपे ।ब्रह्मदारुसमाख्ये च भद्रमुस्ते च नप् पुनः ॥ ३७८ ॥
4.378 · p. 79
अनुष्टुप्
एषा प्रसूने क्रमणं पुनर्विद्यान्नपुंसकम् ।पादे क्रान्ते तथा द्वे तु तुरङ्गे कन्दरा पुनः ॥ ३७९ ॥
4.379 · p. 79
अनुष्टुप्
त्रयोः गिरेरवयवे दरीसंज्ञे द्वयोः पुनः ।स्यादुच्चजानुके भेदे मृगजातेरथो पुमान् ॥ ३८० ॥
4.380 · p. 79
अनुष्टुप्
कन्धरो वारिदे ग्रीवासिरयोस्तु स्त्रियामियम् ।कन्धरा कथिता सद्भिः पुन्नपुंसकयोः पुनः ॥ ३८१ ॥
4.381 · p. 79
अनुष्टुप्
क्षुद्रग्रामे द्रोणमुखसंज्ञे कर्वट इत्ययम् ।देशसन्धिषु संस्त्यायो यस्तस्मिन्निति शाकटः ॥ ३८२ ॥
4.382 · p. 79
अनुष्टुप्
कर्वरो नाञ्जलौ देशे पापे च रभसोऽब्रवीत् ।द्वयोस्तु रक्षसि व्याघ्रे क्लीबं तु जलकर्मणोः ॥ ३८३ ॥
4.383 · p. 79
अनुष्टुप्
सतृणाभ्यवहारी तु रभसः शबले त्रिषु ।कर्वरी तु स्त्रियां भूमौ शिवायां चाथ कच्छपः ॥ ३८४ ॥
4.384 · p. 79
अनुष्टुप्
द्वे कूर्मे निधिभेदे तु पुंसि स्यात् स्त्री तु कच्छपी ।वीणायां स्यात् सरस्वत्या ऋषिभदे तु कश्यपः ॥ ३८५ ॥
4.385 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
ना द्वे तु कच्छपे त्रिस्तु मद्यपे कम्बलस्तु ना ।कस्मिंश्चित् पार्वतीभक्ते रभसस्तूक्तवानमुम् ॥ ३८६ ॥
4.386 · p. 80
अनुष्टुप्
उत्तरासङ्गमात्रे च सास्नायां च गवामथ ।रभसः सलिले क्लीबं रल्लके तु त्रिलिङ्गकम् ॥ ३८७ ॥
4.387 · p. 80
अनुष्टुप्
कम्बली स्त्री तु विज्ञेया सज्जनायां च हस्तिनः ।कल्पना क्ली तु क्लृप्तौ स्याच्छेदने चाथ नप्स्त्रियोः ॥ ३८८ ॥
4.388 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
क्रियायां स्यात् कल्पयतेरथ स्यात् कर्षकः पुमान् ।अङ्गारके क्रष्टरि तु भेद्यवच्च कृषीवले ॥ ३८९ ॥
4.389 · p. 80
अनुष्टुप्
ककुदोऽस्त्री बलीवर्दस्कन्धयोर्मध्य उन्नते ।प्रधाने राजचिह्ने च हस्तिनो मेढ्र एव च ॥ ३९० ॥
4.390 · p. 80
अनुष्टुप्
कठिनं तु कठोरे त्रिः कठिना तु स्त्रियामियम् ।शुक्लधातुसमाख्ये स्यादित्याहुर्दृषदन्तरे ॥ ३९१ ॥
4.391 · p. 80
अनुष्टुप्
रभसो गुडशर्कारेत्यमुमर्थमभाषत ।कमठः कच्छपे द्विः स्याद् वामने भेद्यलिङ्गकम् ॥ ३९२ ॥
4.392 · p. 80
अनुष्टुप्
कूर्मास्थनि तु ना क्ली तु भिक्षापात्रेऽथ कक्खटम् ।कठिने त्रिः कक्खटी तु शुक्लधातुसमाख्यके ॥ ३९३ ॥
4.393 · p. 80
अनुष्टुप्
पाषाणभेदे स्त्री त्रिस्तु कनिष्ठोऽल्पतमेऽनुजे ।तथा युवतमे स्त्री तु कनिष्ठाल्पतमाङ्गुलौ ॥ ३९४ ॥
4.394 · p. 80
अनुष्टुप्
क्ली तु भूलवणे कूप्यसंज्ञेऽथ करजः पुमान् ।नखे करञ्जवृक्षे च क्ली तु व्याघ्रनखाह्वये ॥ ३९५ ॥
4.395 · p. 80
अनुष्टुप्
भेषजे कञ्चुकस्त्वस्त्री कवचे वारवाणके ।निर्मोके भोगिनश्चाह रभसः शब्दवित्तमः ॥ ३९६ ॥
4.396 · p. 80
अनुष्टुप्
वर्धापकगृहीताङ्गस्थितवस्त्रेऽप्यभाषत ।कषीकं तु खनित्रे स्यात् क्लीबलिङ्गमथ स्त्रियाम् ॥ ३९७ ॥
4.397 · p. 81
अनुष्टुप्
मक्षिकायां कषीका स्यात् कर्णिका तु वनस्पतेः ।बीजे स्त्री स्यात् तथा भिन्नतण्डुलावयवेऽत्र तु ॥ ३९८ ॥
4.398 · p. 81
अनुष्टुप्
पुंस्याहार्थे हर्षनन्दी ना त्वेव पटवासके ।कणिकोऽथ कबन्धोऽस्त्री क्रियायुक्तेऽपमूर्धके ॥ ३९९ ॥
4.399 · p. 81
अनुष्टुप्
शरीरे सलिले चापि रक्षोभेदे तु पुंस्ययम् ।रमसस्तूदरे राहावपि भाषितवानमुम् ॥ ४०० ॥
4.400 · p. 81
अनुष्टुप्
करण्डो ना समुद्ने स्यात् पुटीसंज्ञे तु भाजने ।स्त्री करण्डी द्वयोस्तु स्यात् पक्षिभेदेऽथ ना स्मृतः ॥ ४०१ ॥
4.401 · p. 81
अनुष्टुप्
कडम्बो व्यञ्जनीभूतशाकनाले द्रुमान्तरे ।क्ली तु तत्प्रसवेऽथो ना कलम्बः शाकनालके ॥ ४०२ ॥
4.402 · p. 81
अनुष्टुप्
बाणे चाथ कलम्बोऽस्त्री शतपर्वसमाख्यके ।स्तम्बे शाके कदम्बस्तु सर्षपे ना च नीपके ॥ ४०३ ॥
4.403 · p. 81
अनुष्टुप्
क्लीबं तु प्रसवे तस्य समूहे चाथ ना स्मृतः ।करम्बः सेकमिश्रान्ने मिश्रमात्रे तु भेद्यवत् ॥ ४०४ ॥
4.404 · p. 81
अनुष्टुप्
केचित् तु पुष्पे क्लीत्याहुः कबरस्तु नृलिङ्गकः ।लवणेऽ(म्ले) च रसयोर्मेद्यलिङ्गस्तु तद्वतोः ॥ ४०५ ॥
4.405 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
केशविन्यासभेदे तु कबरी स्त्री तथैव सा ।बाष्पिकासंज्ञभैषज्ये शोकेऽपि रभसोऽपठीत् ॥ ४०६ ॥
4.406 · p. 81
अनुष्टुप्
व्याकीर्णमाल्यकबरा कबरीमिति सत्कवेः ।वाक्ये कबरशब्दस्य चिन्त्योऽर्थोऽथ करम्भवाक् ॥ ४०७ ॥
4.407 · p. 82
अनुष्टुप्
पुंसि स्याद्दधिमिश्रेषु सक्तुषु स्त्री पुनर्भवेत् ।करम्भी पात्रभेदेऽथ करभो गर्दभे द्वयोः ॥ ४०८ ॥
4.408 · p. 82
अनुष्टुप्
उष्ट्रस्य च शिशौ पाणेर्मणिबन्धकनिष्ठयोः ।मध्ये स्यात् कर्तनं तु क्ली छेदने सूत्रसर्जने ॥ ४०९ ॥
4.409 · p. 82
अनुष्टुप्
अश्वस्य धूलिलुठने कर्तनी तु स्त्रियामियम् ।नापितस्योपकरणे क(र्तृ?त्रि)काख्येऽथ नप्स्त्रियोः ॥ ४१० ॥
4.410 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कर्तना कर्तयत्यर्थे स्यादथेदं नपुंसकम् ।करणं कारणे काये साधने कर्मणीन्द्रिये ॥ ४११ ॥
4.411 · p. 82
अनुष्टुप्
क्षेत्रेऽपि साधकतमे नाट्यगीतिप्रभेदयोः ।रतबन्धे तथा ज्योतिःशास्त्रज्ञानां च कुत्रचित् ॥ ४१२ ॥
4.412 · p. 82
अनुष्टुप्
ग्रहवारेक्षणोपायप्रभेदे च निरूप्यताम् ।स्पृष्टाद्युच्चारणाभेदे योगिपद्मासनादिषु ॥ ४१३ ॥
4.413 · p. 82
अनुष्टुप्
मर्त्यजात्यन्तरे तु द्वे शूद्रायां वैश्यसम्भवे ।करुणा तु स्त्रियां चित्तवृत्तौ क्लिष्टेषु जन्तुषु ॥ ४१४ ॥
4.414 · p. 82
अनुष्टुप्
धार्मिकस्य त्रिषु पुनः करुणाविषये तथा ।सरूपे चाथ वदति हर्षनन्दी नपुंसकम् ॥ ४१५ ॥
4.415 · p. 82
अनुष्टुप्
दैन्ये करुणमित्येतन्ना तु च्छागाख्यपादपे ।कर्मण्या तु भृतौ स्त्री स्यात् कर्मसाधौ तु भेद्यवत् ॥ ४१६ ॥
4.416 · p. 82
अनुष्टुप्
सम्पादिनि च विज्ञेयं कर्मणा स्यान्मनीषिभिः ।कट्वङ्गस्तु द्रुमे टुण्डुसंज्ञे ना द्वे खगान्तरे ॥ ४१७ ॥
4.417 · p. 82
अनुष्टुप्
कस्वरं तु धने क्लीबं त्रिः स्यात् कसनशीलके ।कथेरः शकुनौ द्वे त्रिः कथके कुहकेऽपि च ॥ ४१८ ॥
4.418 · p. 83
अनुष्टुप्
कणीचिः स्त्री लतायां स्यान्मनस्यपि धनञ्जयः ।अन्ये तु केचिद्भाषन्ते तुरङ्गे स्याद्द्वयोरिति ॥ ४१९ ॥
4.419 · p. 83
अनुष्टुप्
करेणुरिभ्या स्त्री नेभे कर्णिकारद्रुमेऽपि च ।कशिपुस्त्वस्त्रियामन्नवस्त्रयोस्तद्द्वयेऽपि च ॥ ४२० ॥
4.420 · p. 83
अनुष्टुप्
कुथे च वैजयन्ती तु शय्यायामिति भाषते ।कठारस्तु द्वयोर्ज्ञेयः खड्गे शिल्पिनि चाप्यथ ॥ ४२१ ॥
4.421 · p. 83
अनुष्टुप्
कर्करुः पुंसि कूश्माण्डे कालिङ्गे चानयोः पुनः ।क्लीबं स्यात् प्रसवेऽथ स्यात् कर्कन्धूः पुंस्त्रियोरपि ॥ ४२२ ॥
4.422 · p. 83
अनुष्टुप्
बदर्यां क्रोष्टुबदर्यां व्रणविष्टम्भयोरपि ।स्त्री तु मध्वाज्यसंसिक्तयवलाजजतर्पणे ॥ ४२३ ॥
4.423 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ब (wrong syllable)
रथादीनां युगे चाथ कफेलू ः पुंसि पादपे ।श्लेष्मातकसमाख्येऽथच्छादिषेयतृणे स्त्रियाम् ॥ ४२४ ॥
4.424 · p. 83
अनुष्टुप्impossible sign sequence: चाथ कफेलू ः पुंसि
कशेरुः स्त्रीनपोः पृष्ठस्यास्थनि क्लीबकं पुनः ।स्तम्बप्रभेदे सजलपङ्करूढे कशेर्वथ ॥ ४२५ ॥
4.425 · p. 83
अनुष्टुप्
वशावेदयाकर्णिकारे कशेरू रभसः स्त्रियाम् ।कटप्रूर्ना महादेवे स्त्री तु खेलगता स्मृता ॥ ४२६ ॥
4.426 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ककुद्मान् वृषभे पुंसि षण्डसंज्ञे च गोपतौ ।ककुद्मती तु श्रोण्यां स्त्री कण्टको तु पुमानयम् ॥ ४२७ ॥
4.427 · p. 83
अनुष्टुप्
अरिमेदाख्यवृक्षे च वृक्षे च मदनाह्वये ।त्रि तु कण्टकसंयुक्ते कञ्चुकी तु द्वयोरहौ ॥ ४२८ ॥
4.428 · p. 83
अनुष्टुप्
सौविदल्ले तु ना त्रिस्तु कञ्चुकेन समन्विते ।कलापी ना महादेवे पर्कट्याख्ये च पादपे ॥ ४२९ ॥
4.429 · p. 83
अनुष्टुप्
ज्ञेयश्च पर्कटी प्लक्षो द्वे मयूरे स्त्रियां पुनः ।कलापिनी स्यात् पार्वत्यां कलापवति तु त्रिषु ॥ ४३० ॥
4.430 · p. 84
अनुष्टुप्
ककुदी तु पुमान् षण्डसंज्ञके गोपतौ त्रि तु ।ककुदेन समायुक्ते काञ्चनं तु नपुंसकम् ॥ ४३१ ॥
4.431 · p. 84
अनुष्टुप्
हेम्न्यब्जकेसरे ना तु धुर्धूरे नागकेसरे ।उदुम्बरे च रभसो हरिद्रायां तु काञ्चनी ॥ ४३२ ॥
4.432 · p. 84
अनुष्टुप्
ब्रह्मरीतिसमाख्ये च लोहभेदेऽस्त्रियामथ ।विषप्रभेदे काकोलः पुन्नपुंसकयोः स्मृतः ॥ ४३३ ॥
4.433 · p. 84
अनुष्टुप्
द्वयोस्तु कृष्णकाके स्यात् काकोलीति स्त्रियामियम् ।वयस्यासंज्ञके वल्लीजातिभेदेऽथ काहला ॥ ४३४ ॥
4.434 · p. 84
अनुष्टुप्
स्त्री वाद्यभेदे सुषिरे रथ्यावादे तु नप्यदः ।त्रि तु निष्ठुरवाक्ये स्यादाकुले चाथ न स्त्रियाम् ॥ ४३५ ॥
4.435 · p. 84
अनुष्टुप्
कान्तारः स्यान्महारण्ये दुर्गमार्गे च तं पुनः ।रभसो वनमात्रे च प्रोक्तवानथ पुंस्ययम् ॥ ४३६ ॥
4.436 · p. 84
अनुष्टुप्
इक्षुभेदेऽथ कादम्बः कलहंसे द्वयोरयम् ।कदम्बसम्बन्धिनि तु त्रिषु स्यान्मार्गणे तु ना ॥ ४३७ ॥
4.437 · p. 84
अनुष्टुप्
काम्बोजी तु स्त्रियां माषपर्णीति प्रथितौषधौ ।ना तु पुन्नागवृक्षे च वलक्षखदिरे तथा ॥ ४३८ ॥
4.438 · p. 84
अनुष्टुप्
तद्देशसम्भवे तु स्याद् द्वयोरेष तुरङ्गमे ।क्लीबं तु कारणं हेतौ रभसस्त्वभिधानवित् ॥ ४३९ ॥
4.439 · p. 84
अनुष्टुप्
करणेऽपि पठत्येनं स्त्रीनपोस्त्वपि कारणा ।क्रियायां स्यात् कारयतेर्घाते चेत्यजयोऽब्रवीत् ॥ ४४० ॥
4.440 · p. 84
अनुष्टुप्
कारणा तु स्त्रियां तीव्रवेदनायामथो नपि ।कार्मुकं स्याद्धनुर्मात्रे धनुर्भेदे च ना पुनः ॥ ४४१ ॥
4.441 · p. 85
अनुष्टुप्
वेणौ त्रिस्तु प्रभवति कर्मणे तत्र वस्तु यत् ।कावृकः कृकवाकौ द्वे पीतमस्तककोकयोः ॥ ४४२ ॥
4.442 · p. 85
अनुष्टुप्
त्रि तु स्याद्रभसेनोक्तः कार्मणः कर्मकारके ।मन्त्रादियोजने तु क्ली मूलकर्मेति तद्विदुः ॥ ४४३ ॥
4.443 · p. 85
अनुष्टुप्
कार्मिकस्तु भवेद्राज्ञा शुल्केष्वधिकृते त्रिषु ।कर्मणां तु समूहे क्ली कातरस्त्वभिधेयवत् ॥ ४४४ ॥
4.444 · p. 85
अनुष्टुप्
भीरौ स्यात् षण्डके त्वेष पुमान् स्याद्भेद्यवत् पुनः ।कालेयः कालसम्बन्धिन्यर्थे सर्वत्र नप् पुनः ॥ ४४५ ॥
4.445 · p. 85
अनुष्टुप्
कलिना सान्नि दृष्टे स्याद् कलीनां च कदम्बके ।रागद्रव्ये जापकाख्ये दार्व्यां त्वेव पुमानयम् ॥ ४४६ ॥
4.446 · p. 85
अनुष्टुप्
दार्वी दारुहरिद्रोक्ता काकाण्डस्तु पुमानयम् ।कृष्णशिम्बौ नपि त्वेतत् काकस्याण्डे पुमान् पुनः ॥ ४४७ ॥
4.447 · p. 85
अनुष्टुप्
क्षालनोऽरत्निके षष्ठे यस्य यूपस्य सप्त च ।दश चारत्नयोः मानं तस्य स्त्रीशण्डयोः पुनः ॥ ४४८ ॥
4.448 · p. 85
अनुष्टुप्
प्रक्षालनेऽथ कामाङ्गं चूतवृक्षे पुमानयम् ।कामस्य पुनरङ्गे क्ली काश्यपस्तु पुमानयम् ॥ ४४९ ॥
4.449 · p. 85
अनुष्टुप्
ऋषिभेदे च चन्द्रे च स्यादिक्ष्वाकोः कुलस्य यः ।द्वितीयोः नृपतिस्तत्र मरीचितनये स्मृतः ॥ ४५० ॥
4.450 · p. 85
अनुष्टुप्
काश्यपस्य तु पुत्रे द्वे काश्यपीति स्त्रियां भुवि ।क्ली तु मासेऽथ काण्डीरस्त्रिषु काण्डवति स्मृतः ॥ ४५१ ॥
4.451 · p. 85
अनुष्टुप्
पुमांस्तु हस्तिपिप्पल्ल्यां क्षारकस्तु नृशण्डयोः ।पक्षिमत्स्यादिपिटके तथा स्यात् पुष्पजालके ॥ ४५२ ॥
4.452 · p. 85
अनुष्टुप्
क्षरितृक्षारयित्रोस्तु भेद्यवत् कासिका पुनः ।स्त्री वनस्पतिभेदेऽन्ये छेदनद्रव्य ऊचिरे ॥ ४५३ ॥
4.453 · p. 86
अनुष्टुप्
त्रिस्तु कासयितर्येष कासकः कसितर्यपि ।काचिकस्तु पुमाञ्ज्ञेयः कमुण्डे द्वे तु मूषिके ॥ ४५४ ॥
4.454 · p. 86
अनुष्टुप्
काकली तु कले सूक्ष्मे शब्दे स्त्री काकलं पुनः ।ग्रीवाया उन्नते देशे क्ली कण्ठमणिसंज्ञके ॥ ४५५ ॥
4.455 · p. 86
अनुष्टुप्
कारुजस्तु पुमाञ्ज्ञेयोः वल्मीके कलहे तथा ।चित्रे चित्रकराणां च त्रि पुनः कारुसम्भवे ॥ ४५६ ॥
4.456 · p. 86
अनुष्टुप्
काश्मीरी कृष्णवर्णायां वचायां स्यात् स्त्रियामियम् ।क्ली तु पुष्करमूलाख्यभेषजे कुङ्कुमेऽपि च ॥ ४५७ ॥
4.457 · p. 86
अनुष्टुप्
त्रिः कश्मीरनिवासे च कश्मीरभिजनेऽपि च ।काणकस्त्रिषु हिंस्रे स्यात् क्लीबं त्वक्षिमले विदुः ॥ ४५८ ॥
4.458 · p. 86
अनुष्टुप्
कायस्थो लेखके त्रिः स्याच्छरीरस्थेऽप्यथ स्त्रियाम् ।हरीतक्यामिदं चोक्तं रभसेनैव धीमता ॥ ४५९ ॥
4.459 · p. 86
अनुष्टुप्
कानीनः पुंसि कर्णे स्याद् व्यासे च रभसोऽपठीत् ।द्वयोस्त्वपत्ये कन्याया लुब्धे त्वेष त्रिषु स्मृतः ॥ ४६० ॥
4.460 · p. 86
अनुष्टुप्
कायिका तु स्त्रियां ज्ञेया प्रदेये स्याद्दिने दिने ।ऋणवृद्धिविशेषेऽथ त्रिः कायकृतकर्मणि ॥ ४६१ ॥
4.461 · p. 86
अनुष्टुप्
कारिका स्त्री यातनायां व्याख्याश्लोके कृतावपि ।क्रियानिर्वतके तु क्ली कर्मादौ त्रिस्तु कर्तरि ॥ ४६२ ॥
4.462 · p. 86
अनुष्टुप्
हिंसके च स्वयं दृष्टे त्वृणवृद्ध्यन्तरे स्त्रियाम् ।कारितापि च कारित्वे त्रिस्तु नि(र्वा?र्मा)पितेऽप्यथ ॥ ४६३ ॥
4.463 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
म(सु?रौ) रोगविशेषे ना कामुके त्रिषु कामलः ।कालिका तु स्त्रियां मासि मासि देयेऽधमर्णकैः ॥ ४६४ ॥
4.464 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ऋणवृद्धिविशेषे स्याद् भेद्यलिङ्गं तु यस्य वै ।काले प्राप्ते प्रकृष्टोऽस्ति तत्र तत्र च वर्तते ॥ ४६५ ॥
4.465 · p. 87
अनुष्टुप्
यदा स्त्रियां तदा रूपं कालिकीत्यथ कालका ।अङ्गारकसमाख्यस्य शकुनेर्योषिति स्त्रियाम् ॥ ४६६ ॥
4.466 · p. 87
अनुष्टुप्
कालिका त्विति सौराष्ट्रीसंज्ञके भेषजे भवेत् ।प्रशान्ताग्नौ दग्धकाष्ठे मृगभेदेऽस्य लक्षणम् ॥ ४६७ ॥
4.467 · p. 87
अनुष्टुप्
कालिका त्वसिता यद्वा कपोता पिङ्गबिन्दुका ।इत्येवमविवाह्यानां कन्यानां कन्यकान्तरे ॥ ४६८ ॥
4.468 · p. 87
अनुष्टुप्
अस्योक्तं लक्षणं कुब्जा दुर्दर्शाः कालिका च सा ।अश्वस्य दन्तरेखायां सूक्ष्मजीरक एव च ॥ ४६९ ॥
4.469 · p. 87
अनुष्टुप्
मनोविकारप्रभवकायवैवर्ण्य एव च ।मेघजाले च चिक्रोडसंज्ञप्राण्यन्तरेऽपि च ॥ ४७० ॥
4.470 · p. 87
अनुष्टुप्
क्र(य?म)देयवस्तुमूल्ये काञ्च्यां च रभसोऽपठीत् ।कालकस्तु पुमान् कायविकारे पिप्लुसंज्ञके ॥ ४७१ ॥
4.471 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रक्ते तु कालद्रव्येण पटादौ भेद्यलिङ्गकः ।कोपादिनां च काले स्यान्मुखादौ कलितर्यपि ॥ ४७२ ॥
4.472 · p. 87
अनुष्टुप्
तथैव कालयितरि कार्त्तिकी तु स्त्रियामियम् ।कृत्तिकाख्यर्क्षसंयुक्तपौर्णमास्यां पुमान् पुनः ॥ ४७३ ॥
4.473 · p. 87
अनुष्टुप्
कार्त्तिकी यत्र मासेऽस्ति तस्मिन्नथ नृलिङ्गकः ।किष्किन्धः शैलभेदे स्यात् किष्किन्धा तु स्त्रियामियम् ॥ ४७४ ॥
4.474 · p. 88
अनुष्टुप्
धराधरविशेषस्थगुहाभेदे पुमान् पुनः ।किञ्जल्कः केसरे क्ली तु स्यादाकाशे च लाञ्छने ॥ ४७५ ॥
4.475 · p. 88
अनुष्टुप्
इदं धनञ्जयेनोक्तं किरातस्त्वभिधेयवत् ।स्वल्पकायेऽथ रभसो भूनिम्बे पुंस्यधीतवान् ॥ ४७६ ॥
4.476 · p. 88
अनुष्टुप्
स्त्रियां चामरवाहिन्यां मर्त्यजात्यन्तरे द्वयोः ।शबरात् पर्णशबरी निष्ट्यपूर्वासविष्ट यम् ॥ ४७७ ॥
4.477 · p. 88
अनुष्टुप्
तत्र द्वे तु किराटः स्यान्म्लेच्छे वणिजि चाप्यथ ।किम्मीरः स्यात् पुमान् रक्षोविशेषे चित्रवर्णके ॥ ४७८ ॥
4.478 · p. 88
अनुष्टुप्
त्रि तु तद्वर्णयुक्ते स्याद् विष्ठायां तु नपुंसकम् ।किल्बिषं क्ली पापरुजोर्वेश्यायां किल्बिषी स्त्रियाम् ॥ ४७९ ॥
4.479 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
कितवः पुंसि धुर्धूरे क्ली तु तत्प्रसवे त्रि तु ।द्यूतकारेऽथ रभसो मत्तवञ्चकयोरपि ॥ ४८० ॥
4.480 · p. 88
अनुष्टुप्