कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खड्गपिधान

khaḍgapidhānaक्ली · neut.

In 5 kośas: 2 synonym verses, 5 as a meaning of another word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.473 · p. 54
कोशः प्रत्याकारः खड्गपिधानं त्सरुर्भवेन्मुष्टिः ।असिपुत्रिकासिधेनुः क्षुरिका पत्त्रं च शस्त्रिका ज्ञेया ॥ ४७३ ॥
गीतिः
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1288 · p. 202
परिवारः परीवारः प्रत्याकारस्तथैव च ।खड्गपिधानकं खड्गपिधानमपि मन्यते ॥ १२८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 पि (wrong syllable)
genderक्लीneut.

खड्गपिधान as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् कोशकोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः । Amarakośa 3.3.418
  • नामलिङ्गानुशासनम् कोषकोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः । Amarakośa 3.3.427
  • कोषकल्पतरु पेशीनिशा हरिद्राह्वययामिनीगा- नीह्वा(?)तितृष्णाककुभोस्तु चाशा । राशिस्तु मेषादिषु पुंसि पुञ्जे पेशी स्त्रियां खड्गपिधानमांस्योः[81b] ॥ १३ ॥ Koṣakalpataru 6.30.13
  • कोषकल्पतरु कोषदोषा तु रात्रौ च भुजे स्त्रियां स्या- द्रात्र्यर्थिका स्यादियमव्ययं च । कोषः पुमान्स्याच्चषके स्त्रियां तु स्याद्दीपपात्रेऽपि च जातिकोषे । न स्त्री च भाण्डालयकुड्मलार्थ- समूहपेशीपदसंग्रहेषु । लिङ्गत्रये खड्गपिधानवाची तादृग्विधः स्यादपि शिम्बिकार्थः ॥ ४० ॥ Koṣakalpataru 6.30.40
  • शब्दरत्नावली पेशीपांशुर्धूलिषु शय्यासु चिरसञ्चितगोमये । पशुर्मृगादौ प्रमथे देवे च प्राणिमात्रके ॥ पशुसन्दर्शनेऽपि स्यादव्ययं पश्वेति स्मृतम् । पशो ना बन्धने शस्त्रे छात्राद्यन्तश्च निन्दिते ॥ कर्णान्तः शोभनार्थे च केशान्तः संहतार्थके । पेशी स्त्री मांसपिण्ड्याञ्च मांसीखड्गपिधानयोः ॥ अण्डभेदे नदीभेदे पिशाचीराक्षसीभिदोः । वंशः कुले च पृष्ठांशे वर्गतेजनयोरपि ॥ Śabdaratnāvalī 7.30.9