कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

तृतीयं सामान्यकाण्डम् · नानार्थवर्गः (4/5)

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः ।
3.3.361
अनुष्टुप्
चूडा किरीटं केशाश्च संयता मौलयस्त्रयः ॥ १९३ ॥
3.3.193
अनुष्टुप्
द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ।
3.3.363
अनुष्टुप्
कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः ॥ १९४ ॥
3.3.194
अनुष्टुप्
स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः ।
3.3.365
अनुष्टुप्
करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् ॥ १९५ ॥
3.3.195
अनुष्टुप्
स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः ।
3.3.367
अनुष्टुप्
वातूलः पुंसि वात्यायामपि वातासहे त्रिषु ॥ १९६ ॥
3.3.196
अनुष्टुप्
भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः ।
3.3.369
अनुष्टुप्
मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् ॥ १९७ ॥
3.3.197
अनुष्टुप्
शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु ।
3.3.371
अनुष्टुप्
कला शिल्पे कालभेदेप्याली सख्यावली अपि ॥ १९८ ॥
3.3.198
अनुष्टुप्
अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ।
3.3.373
अनुष्टुप्
बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु ॥ १९९ ॥
3.3.199
अनुष्टुप्
लीला विलासक्रिययोरुपला शर्करापि च ।
3.3.375
अनुष्टुप्
शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः ॥ २०० ॥
3.3.200
अनुष्टुप्
जालं समूह आनायगवाक्षक्षारकेष्वपि ।
3.3.377
अनुष्टुप्
शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् ॥ २०१ ॥
3.3.201
अनुष्टुप्
छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना ।
3.3.379
अनुष्टुप्
अधः स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् ॥ २०२ ॥
3.3.202
अनुष्टुप्
और्वानलेऽपि पातालं चेलं वस्त्रेऽधमे त्रिषु ।
3.3.381
अनुष्टुप्
कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले ॥ २०३ ॥
3.3.203
अनुष्टुप्
निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः ।
3.3.383
अनुष्टुप्
पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥ २०४ ॥
3.3.204
अनुष्टुप्
प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च ।
3.3.385
अनुष्टुप्
करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः ॥ २०५ ॥
3.3.205
अनुष्टुप्
मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः ।
3.3.387
अनुष्टुप्
कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः ॥
3.3.388
अनुष्टुप्
स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः ।
3.3.389
अनुष्टुप्
हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम् ॥
3.3.390
अनुष्टुप्
तूलिश्चित्रोपकरणशलाकातूलशय्ययोः ।
3.3.391
अनुष्टुप्
तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि ॥
3.3.392
अनुष्टुप्
दवदावौ वनारण्यवह्नी जन्महरौ भवौ ॥ २०६ ॥
3.3.206
मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः ।
3.3.394
अनुष्टुप्
अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः ॥ २०७ ॥
3.3.207
अनुष्टुप्
भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ।
3.3.396
अनुष्टुप्
स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने ॥ २०८ ॥
3.3.208
अनुष्टुप्
अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः ।
3.3.398
अनुष्टुप्
उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः ॥ २०९ ॥
3.3.209
अनुष्टुप्
अनुभावः प्रभावे च सतां च मतिनिश्चये ।
3.3.400
अनुष्टुप्
स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये ॥ २१० ॥
3.3.210
अनुष्टुप्
शूद्रायां विप्रतनये शस्त्रे पारशवो मतः ।
3.3.402
अनुष्टुप्
ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु ॥ २११ ॥
3.3.211
अनुष्टुप्
स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने ।
3.3.404
अनुष्टुप्
स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ॥ २१२ ॥
3.3.212
अनुष्टुप्
शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः ।
3.3.406
अनुष्टुप्
द्रव्यासुव्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु ॥ २१३ ॥
3.3.213
अनुष्टुप्
क्लीबं नपुंसके षण्डे वाच्यलिङ्गमविक्रमे ।
3.3.408
अनुष्टुप्
द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ ॥ २१४ ॥
3.3.214
अनुष्टुप्
द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ ।
3.3.410
अनुष्टुप्
रहःप्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः ॥ २१५ ॥
3.3.215
अनुष्टुप्
कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ।
3.3.412
अनुष्टुप्
पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च ॥ २१६ ॥
3.3.216
अनुष्टुप्
दशावस्थानेकविधाप्याशा तृष्णापि चायता ।
3.3.414
अनुष्टुप्
वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु ॥ २१७ ॥
3.3.217
अनुष्टुप्
स्यात्कर्कशः साहसिकः कठोरामसृणावपि ।
3.3.416
अनुष्टुप्
प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः ॥ २१८ ॥
3.3.218
अनुष्टुप्
कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः ।
3.3.418
अनुष्टुप्
नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे ॥
3.3.419
अनुष्टुप्
नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः ।
3.3.420
अनुष्टुप्
आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः ॥
3.3.421
अनुष्टुप्
सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ॥ २१९ ॥
3.3.219
काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ ।
3.3.423
अनुष्टुप्
अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने ॥ २२० ॥
3.3.220
अनुष्टुप्
पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः ।
3.3.425
अनुष्टुप्
शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ॥ २२१ ॥
3.3.221
अनुष्टुप्
कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः ।
3.3.427
अनुष्टुप्
द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ॥ २२२ ॥ना द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे ।
3.3.428
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
कर्षूर्वार्त्ता करीषाग्निः कर्षूः कुल्याभिधायिनी ॥ २२३ ॥
3.3.223
अनुष्टुप्metre not read in every line
पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च ।
3.3.430
अनुष्टुप्
उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् ॥ २२४ ॥
3.3.224
अनुष्टुप्
स्याद्वृष्टौ लोकधात्र्यंशे वत्सरे वर्षमस्त्रियाम् ।
3.3.432
अनुष्टुप्
प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ २२५ ॥
3.3.225
अनुष्टुप्
त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः ।
3.3.434
अनुष्टुप्
प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥
3.3.435
अनुष्टुप्
व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ ।
3.3.436
अनुष्टुप्
कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा ॥
3.3.437
अनुष्टुप्
दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे ।
3.3.438
अनुष्टुप्
शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे ॥ २२६ ॥
3.3.226
अनुष्टुप्
रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू ।
3.3.440
अनुष्टुप्
वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः ॥ २२७ ॥
3.3.227
अनुष्टुप्
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः ।
3.3.442
अनुष्टुप्
पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे ॥ २२८ ॥
3.3.228
अनुष्टुप्
देवभेदेऽनले रश्मौ वसू रत्ने धने वसु ।
3.3.444
अनुष्टुप्
विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः ॥ २२९ ॥
3.3.229
अनुष्टुप्
लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च ।
3.3.446
अनुष्टुप्
प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥ २३० ॥
3.3.230
अनुष्टुप्
ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु ।
3.3.448
अनुष्टुप्
पापापराधयोरागः खगबाल्यादिनोर्वयः ॥ २३१ ॥
3.3.231
अनुष्टुप्
तेजःपुरीषयोर्वर्चो महस्तूत्सवतेजसोः ।
3.3.450
अनुष्टुप्
रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः ॥ २३२ ॥
3.3.232
अनुष्टुप्
छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च ।
3.3.452
अनुष्टुप्
सहो बलं सहा मार्गो नभः खं श्रावणो नभाः ॥ २३३ ॥
3.3.233
अनुष्टुप्
ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयोम्बु च ।
3.3.454
अनुष्टुप्
ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये ॥ २३४ ॥
3.3.234
अनुष्टुप्
तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु ।
3.3.456
अनुष्टुप्
विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी ॥ २३५ ॥
3.3.235
अनुष्टुप्
वृद्धप्रशस्ययोर्ज्यायान्कनीयांस्तु युवाल्पयोः ।
3.3.458
अनुष्टुप्
वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः ॥ २३६ ॥
3.3.236
अनुष्टुप्
दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः ।
3.3.460
अनुष्टुप्
द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके ॥ २३७ ॥
3.3.237
अनुष्टुप्
तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च ।
3.3.462
अनुष्टुप्
पत्नीपरिजनादानमूलशापाः परिग्रहाः ॥ २३८ ॥
3.3.238
अनुष्टुप्
दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः ।
3.3.464
अनुष्टुप्
व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः ॥ २३९ ॥
3.3.239
अनुष्टुप्
परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे ।
3.3.466
अनुष्टुप्
आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ॥ २४० ॥
3.3.240
अनुष्टुप्
आ प्रगृह्यः स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः ।
3.3.468
अनुष्टुप्
पापकुत्सेषदर्थे कु धिङ्निर्भर्त्सननिन्दयोः ॥ २४१ ॥
3.3.241
अनुष्टुप्
चान्वाचयसमाहारेतरेतरसमुच्चये ।
3.3.470
अनुष्टुप्
स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ॥ २४२ ॥
3.3.242
अनुष्टुप्
स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे ।
3.3.472
अनुष्टुप्
सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः ॥ २४३ ॥
3.3.243
अनुष्टुप्
प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ।
3.3.474
अनुष्टुप्
पुनः सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः ॥ २४४ ॥
3.3.244
अनुष्टुप्
खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत ।
3.3.476
अनुष्टुप्
हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ २४५ ॥
3.3.245
अनुष्टुप्
प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ।
3.3.478
अनुष्टुप्
इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ॥ २४६ ॥
3.3.246
अनुष्टुप्
प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि ।
3.3.480
अनुष्टुप्