पेशी
peśīस्त्री · fem.In 19 kośas: 27 synonym verses, 4 as a nānārtha head word, 8 as a meaning of another word.
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
अनुष्टुप्
genderस्त्रीfem.
पेशीकोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् ।मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ १३१९ ॥शुक्लापाङ्गोऽस्य वाक्केका पिच्छं बर्हं शिखण्डकः ।प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ ॥ १३२० ॥
अनुष्टुप्
genderस्त्रीfem.
पादुकायां पादरथी पादजङ्गुः पदत्वरा ॥ १५२ ॥पादवीथी च पेशी च पादपीठी पदायता ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
पेशीकोशः स्मृतोऽण्डश्च कुलायो नीड उच्यते ।चञ्चुश्चञ्चूस्तथा त्रोटिर्डयनं गगने गतिः ॥ २४० ॥
अनुष्टुप्
genderस्त्रीfem.
त्रोटिस्त्रोटी च पेशिः स्यात् पेशी शावश्च शावकः ।उर्णनाभोऽप्यूर्णनाभिर्मूषली मुसली भवेत् ॥ १५८ ॥
अनुष्टुप्
genderस्त्रीfem.
वासिष्ठं रक्ततेजोजं कीनं मेदस्कृदित्यथ ।पृक्का तु तल्लता पेशी हृदयं सुरसं च हृत् ॥ २२७ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिषु नीडं पक्षिगृहं स्यात् क्लीबेऽथाण्डमस्त्रियाम् ।कोशोऽस्त्रियां स्त्रियां पेशिः पेशी कोषोऽपि वा स्त्रियाम् ॥ १९७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderस्त्रीfem.
वाहा स्वाहा गुहा भङ्गी वसतिर्विपणी द्युतिः ।पेश्यायनी त्रोटिनाभ्यौ नालिर्वासिश्च वर्वरिः ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
पेशी कर्कटकी च स्त्री पक्वं तत्तु पचेलिमम् ।निर्यासोऽस्त्री वृक्षरसो बीजं त्वङ्कुरकारणम् ।परु-ग्रन्थी ग्रन्थव(गु ?)ल्माः स्तः पर्व-परुषी समे ।* * * * * * * * बीजकोशी शमी शिमिः ।शिम्बिः शिम्बा चाथ सर्वं मूले पुष्पे फले भवेत् ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
मांसी तपस्विनी मत्तो जटी च जटिला मिसी ।;l[3865}क्रव्यादा पिशिनी पेशी लोमशा नलदं न ना ॥ ९८ ॥
अनुष्टुप्Latin letters: l
genderस्त्रीfem.
वर्तरूकं काकनीडं पेशी कोषस्तु पेशिका ।कोषोऽण्डमन्तिमे डीनं डयनं च नभोगतौ ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
अपि सा मिथुने वृक्का - बुक्कानौ बुक्कमग्रिमे ।सुरसं चाथ तद्वल्ल्यः पेश्यो नारीभगादिजाः ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवा शिवा-दिवौ विश्वा वशेशा दृक्कशा कुशा ।कुशी पशुर्लोमशाशा पादपाशी च पेशियुक् ॥ ७५ ॥
अनुष्टुप्
genderस्त्रीfem.
बल्वजादयः शब्दाः पुंसि भवन्ति । बहुत्वं चैषां सदैव । इमे बल्वजाः शष्पाः । इमे लाजा भ्रष्टधान्यानि । असवः प्राणाः । एते शब्दाः नपुंसके भवन्ति । इदं स्थलमरण्यप्रदेशः । शाद्वलं हरिततृणम् । शिबिरं शकटस्थानम् । पृतनाशब्दः स्त्रियां भवति । इयं पृतना सेना ।ईर्ष्या रुचिः स्फुलिङ्गाः शय्या निःश्रेणी कोटिः कुटी वाणी ।पेशी वरूथिनी च स्त्रियां कुथा नाडिका कन्था ॥ ६१ ॥
metre not recognised
genderस्त्रीfem.
कन्दपत्री त्वचं पत्री तलपत्रकमुन्दुरा ।मांस्यां पेशी कृष्णजटा नलदा जटेिला जटा ॥ २८० ॥
अनुष्टुप्metre not read in every lineimpossible sign sequence: टा नलदा जटेिला जटाnearly अनुष्टुप्
genderस्त्रीfem.
जाङ्गलं पिशितं मांसं पलं पेशी च तत्प्रियः ।यातुधानस्तथा रक्षो रात्र्यादिचर इष्यते ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
कुलायो नीडमस्त्री स्यात्पेशीकोशोऽण्डके पुनः ।मयूरः सर्पभुक्केकी स्मृतो मेघसुहृच्च सः ॥ २२१ ॥
अनुष्टुप्
genderस्त्रीfem.
पिशितं पलकीने च पेशी मांसस्य वल्लरी ।अग्रिमे सुरसं वृक्का बुक्का स्याद्धृदयं हृदा ॥ २८० ॥
अनुष्टुप्
genderस्त्रीfem.
भल्लिः पल्लिर्वसतिविपणी पेशिनाभ्यालिनालीस्थालीशुक्ती भ्रकुटिशकटीचच्चरीपालयश्च ।वासिः खाटिर्व्रततिवलभी नीविराज्याजयोऽपिभाटिः शाटिर्लिविवमिशढीश्रेणिरीतीतयश्च ॥ ५९ ॥
मन्दाक्रान्ता
भल्लिस्त्रीपल्लिस्त्रीवसतिस्त्रीविपणीस्त्रीपेशीस्त्रीनाभिस्त्रीआलिस्त्रीनालीस्त्रीस्थालीस्त्रीशुक्तिस्त्रीभ्रकुटिस्त्रीशकटीस्त्रीचच्चरीस्त्रीपालिस्त्रीवासिस्त्रीखाटिस्त्रीव्रततिस्त्रीवलभीस्त्रीनीविस्त्रीराजिस्त्रीआजिस्त्रीभाटिस्त्रीशाटिस्त्रीलिविस्त्रीवमिस्त्रीशढीस्त्रीश्रेणिस्त्रीरीतिस्त्रीईतिस्त्री
genderस्त्रीfem.
आवलिर्वीथिका पङ्क्तिः श्रेणी लेखा परम्परा ।कोशा[श]ण्डं पेशिका पेशी कुलायो नीडकोटरे ॥ ३८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
रक्ततेजश्च मेदस्कृत् मांसनामानि मन्यते ।पुनर्मांसलता नाम पेश्यः पेशी च कथ्यते ॥ १००४ ॥
अनुष्टुप्
genderस्त्रीfem.
पादरथी च पन्नद्धा पादुका पादरक्षणम् ।पेशी प्राणहिता पादूः पदायता पदायिका ॥ १५४४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 य (wrong syllable)
genderस्त्रीfem.
genderस्त्रीfem.
पीशीकोशः पेशी-कोशौ, नीडं त्रिषु कुलायके ।केकिनि मोर-मयूरौ मयूको मरुकस्तथा ॥ ३४८ ॥
metre not recognised
genderस्त्रीfem.
प्रडीनोड्डीनसंडीनान्येताः पक्षिगतिक्रियाः ।अण्डं कोशः स्त्रियां पेशी मिथुनं द्वन्द्वमित्युभे ॥ ८२५ ॥
अनुष्टुप्
genderस्त्रीfem.
पेशी कोशश्च डिंबोऽण्डं त्रोटिश्चंचुः सृपाटिका ।डयनं गतिरुड्डीनसंडीनादि विशेषकम् ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
पेशीमण्डे मांसपिण्ड्यां मांसकाख्यौषधिं विदुः ।कपिशः कपिले प्रोक्तः कपिशी मदिरा मता ॥
अनुष्टुप्
doubtful
पांशुर्धूलिषु शय्यासु चिरसञ्चितगोमये ।पशुर्मृगादौ प्रमथे देवे च प्राणिमात्रके ॥पशुसन्दर्शनेऽपि स्यादव्ययं पश्वेति स्मृतम् ।पशो ना बन्धने शस्त्रे छात्राद्यन्तश्च निन्दिते ॥कर्णान्तः शोभनार्थे च केशान्तः संहतार्थके ।पेशी स्त्री मांसपिण्ड्याञ्च मांसीखड्गपिधानयोः ॥अण्डभेदे नदीभेदे पिशाचीराक्षसीभिदोः ।वंशः कुले च पृष्ठांशे वर्गतेजनयोरपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 श्वे (wrong syllable)
पेशी as a meaning in nānārtha verses
- धरणिकोश अण्डअण्डं पेश्यां च मुष्के च खण्डौ काननगोपती । पण्डः क्लीबे मतिः पण्डा व्याडः पन्नगहिंस्रयोः ॥ Dharaṇikośa 12.1.1
- धरणिकोश कोषकोषो दिव्ये धने पेश्यां कुड्मलासिपिधानयोः । पनसादिफलस्यान्तः कोषः शब्दादिसंग्रहः ॥ Dharaṇikośa 30.3.3
- कोषकल्पतरु कोषदोषा तु रात्रौ च भुजे स्त्रियां स्या- द्रात्र्यर्थिका स्यादियमव्ययं च । कोषः पुमान्स्याच्चषके स्त्रियां तु स्याद्दीपपात्रेऽपि च जातिकोषे । न स्त्री च भाण्डालयकुड्मलार्थ- समूहपेशीपदसंग्रहेषु । लिङ्गत्रये खड्गपिधानवाची तादृग्विधः स्यादपि शिम्बिकार्थः ॥ ४० ॥ Koṣakalpataru 6.30.40
- नानार्थार्णवसंक्षेप कोशशास्त्रे प्रजनने पेश्यां वृषणेऽपि च केचन । कृमिभेदस्य नीडे चे कौशेयप्रकृतौ तथा ॥ २८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.286
- नानार्थार्णवसंक्षेप शुण्ठशुभ्रं दीप्तिमति स्याच्च शुक्ले शौक्ल्ये तु पुंस्ययम् । शुण्ठो ना तृणभेदे स्यात् पशौ पेश्यां च स त्रि तु ॥ १३९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1392
- परमानन्दीयनाममाला कोशकोशः पेश्यां वने दिव्ये धनागारे च कुड्मले । क्रिया कर्मणि चेष्टायामारम्भोपाययोरपि ॥ ९४ ॥ Paramānandīyanāmamālā 5.7.94
- शब्दरत्नावली कोशकोशः पाने जातिकोषखड्गपिधानकुट्मले । पेश्यां दिव्येऽर्थसंघाते शब्दादिसंग्रहेऽपि च ॥ Śabdaratnāvalī 7.30.6
- वैजयन्ती कोशगुह्येऽण्डे वेष्टके पेश्यां पुस्तकासिपिधानयोः । कोलं बदरतक्कोलशुण्ठीव्योषेऽर्धकर्षके ॥ १६ ॥ Vaijayantī 6.5.16