कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānaratnamālā (Halāyudha)

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha)

889 verses · 7,659 words tagged · 1,100 marked doubtful (dashed)

भूमिकाण्डम् (3/4)

अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनः कुलम् ।चरित्रं चरितं शीलं चारित्रं च समं स्मृतम् ॥ ३९६ ॥
2.396 · p. 46
अनुष्टुप्
वृत्ताध्ययनसम्पत्तिरिष्यते ब्रह्मवर्चसम् ।ब्रह्मचर्यं बुधाः प्राहुः समस्तेन्द्रियसंयमम् ॥ ३९७ ॥
2.397 · p. 46
अनुष्टुप्
संज्ञेय उपसङ्ग्राह्यो योऽभिवाद्यो यथाविधि ।उपसङ्ग्रहणं चापि प्राहुः सन्तोऽभिवादनम् ॥ ३९८ ॥
2.398 · p. 46
अनुष्टुप्
निवृत्तेन्द्रियलौल्यस्तु श्रान्तः शान्तश्च कथ्यते ।तपःक्लेशसहो दान्तो ह्यन्तर्वाणिश्च शास्त्रवित् ॥ ३९९ ॥
2.399 · p. 46
अनुष्टुप्
अध्यापक उपाध्यायो व्याख्या विवरणं स्मृतम् ।शिष्यान्तेवासिनौ छात्रः शैक्षः प्राथमकल्पिकः ॥ ४०० ॥
2.400 · p. 46
अनुष्टुप्
विघ्नोऽन्तरायः प्रत्यूहो व्यवायश्च प्रकीर्तितः ।साकल्यवचनं प्राज्ञैः पारायणमुदाहृतम् ॥ ४०१ ॥
2.401 · p. 46
अनुष्टुप्
आम्नायः सम्प्रदायः स्यात्पारम्पर्यं गुरुक्रमः ।प्रयतः स्यादनुच्छिष्टः संशितश्च सुनिश्चितः ॥ ४०२ ॥
2.402 · p. 47
अनुष्टुप्
सांवत्सरो ज्योतिषिको ज्ञानी मौहूर्तिकस्तथा ।कार्तान्तिकस्तु दैवज्ञ आदेशी गणकः स्मृतः ॥ ४०३ ॥
2.403 · p. 47
अनुष्टुप्
व्रात्यः संस्कारहीनः स्यादवकीर्णी क्षतव्रतः ।शिश्विदानो दुराचारस्त्यक्ताग्निर्वीरहा द्विजः ॥ ४०४ ॥
2.404 · p. 47
अनुष्टुप्
धर्मध्वजो लिङ्गवृत्तिरस्वाध्यायो निराकृतिः ॥
2.250 · p. 47
शस्त्राजीवः काण्डस्पृष्टो ब्रह्मबन्धुर्द्विजोऽधमः ॥ ४०५ ॥
2.405 · p. 47
जातिमात्रोपजीवी च कथ्यते ब्राह्मणब्रुवः ।अब्रह्मण्यमवध्यं स्याद् ब्रह्मण्यं ब्रह्मणे हितम् ॥ ४०६ ॥
2.406 · p. 47
अनुष्टुप्
उपवीतं ब्रह्मसूत्रं प्रक्षिप्तं दक्षिणे करे ।प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ ४०७ ॥
2.407 · p. 47
अनुष्टुप्
आचमनमुपस्पर्शनमाप्लवनं स्नानमिष्यते सवनम् ।निर्णिक्तं प्रक्षालितमाहुर्धौतं च तुल्यार्थम् ॥ ४०८ ॥
2.408 · p. 47
आर्या
पाराशरी व्रती भिक्षुर्मस्करी पारिरक्षिकः ।परिव्राजकस्तपस्वी कर्मन्दी तापसः स्मृतः ॥ ४०९ ॥
2.409 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
वैकक्षमुत्तरासङ्गः प्रोक्ता वृहतिका तथा ।पर्यस्तिका परिकरः पर्यङ्कश्चेति कथ्यते ॥ ४१० ॥
2.410 · p. 47
अनुष्टुप्
कक्षापटः स्यात्कौपीनं कुण्डिका च कमण्डलुः ।आषाढो व्रतिनां दण्डो व्रतिनामासनं वृषी ॥ ४११ ॥
2.411 · p. 47
अनुष्टुप्
ऋषिस्त्रिकालदर्शी स्यान्मुनिर्वाचंयमो मतः ।प्राचेतसस्तु वाल्मीकिर्मैत्रावरुण उच्यते ॥ ४१२ ॥
2.412 · p. 48
अनुष्टुप्
उक्तोऽगस्तिरगस्त्यो लोपामुद्रापतिश्च घटयोनिः ।सात्यवतेयः पाराशर्यो द्वैपायनो व्यासः ॥ ४१३ ॥
2.413 · p. 48
आर्या
यागो यज्ञः क्रतुः स्तोमः सप्ततन्तुर्मखोऽध्वरः ।वितानं संस्तरो बर्हिः सवः सत्त्रं च कथ्यते ॥ ४१४ ॥
2.414 · p. 48
अनुष्टुप्
निर्मन्थकाष्ठमरणिः प्रणीतोऽग्निश्च संस्कृतः ।वेदी परिष्कृता भूमिः पात्रमुक्तं स्रुगादिकम् ॥ ४१५ ॥
2.415 · p. 48
अनुष्टुप्
हव्यपाकश्चरुः प्रोक्तः सान्नाय्यं हविरुच्यते ।शृते क्षीरे दधिक्षिप्तमामिक्षा कथ्यते बुधैः ॥ ४१६ ॥
2.416 · p. 48
अनुष्टुप्
उपाकृतस्तु विज्ञेयो मन्त्रेण प्रोक्षितः पशुः ।हुतं वषट्कृतं ज्ञेयं यज्ञान्तोऽवभृथः स्मृतः ॥ ४१७ ॥
2.417 · p. 48
अनुष्टुप्
बृहस्पतिसवेनेष्टं येनासौ स्थपतिर्भवेत् ।सर्ववेदास्तु विज्ञेयो दत्तसर्वस्वदक्षिणः ॥ ४१८ ॥
2.418 · p. 48
अनुष्टुप्
विश्राणनं विहापितमंहतिरपवर्जनं वितरणं च ।निर्वपणं च स्पर्शनमुत्सर्गः स्यात्प्रदेशनं दानम् ॥ ४१९ ॥
2.419 · p. 48
गीतिः
यष्टा च यजमानः स्यादादेष्टा दीक्षितो व्रती ।इज्याशीलो यायजूको यज्वा स्यादासुतीवलः ॥ ४२० ॥
2.420 · p. 48
अनुष्टुप्
राजा राजन्यो राट् प्रजापतिः क्षत्रियो नृपः क्षत्त्रम् ।मूर्धाभिषिक्तभूपतिपार्थिवनरदेवलोकपालाः स्युः ॥ ४२१ ॥
2.421 · p. 48
गीतिः
येनेष्टं राजसूयेन स सम्राट् परिकीर्तितः ।चक्रवर्ती सार्वभौमो मध्यमो मण्डलेश्वरः ॥ ४२२ ॥
2.422 · p. 49
अनुष्टुप्
आतपत्रं भवेच्छत्रं चामरं तु प्रकीर्णकम् ।हैमं सिहासनं राज्ञां स्मृतं भद्रासनं बुधैः ॥ ४२३ ॥
2.423 · p. 49
अनुष्टुप्
द्वास्थो दौवारिकः क्षत्ता दण्डी वेत्रधरस्तथा ।उत्सारको द्वारपालः प्रतिहारो बुधैः स्मृतः ॥ ४२४ ॥
2.424 · p. 49
अनुष्टुप्
अपसर्पश्चरश्चारः प्रणिधिर्गूढपूरुषः ।यथार्थवर्णो मन्त्रज्ञः स्पशो हेरक उच्यते ॥ ४२५ ॥
2.425 · p. 49
अनुष्टुप्
मन्त्री बुद्धिसहायः स्यादमात्यः सचिवस्तथा ।सौवस्तिक इति प्रोक्तः पुरोधाश्च पुरोहितः ॥ ४२६ ॥
2.426 · p. 49
अनुष्टुप्
महामात्रः प्रधानं स्यादध्यक्षोऽधिकृतः स्मृतः ।सौविदः सौविदल्लश्च स्थापत्यः कञ्चुकी मतः ॥ ४२७ ॥
2.427 · p. 49
अनुष्टुप्
मित्रं सखा वयस्यश्च सुहृत्स्निग्धश्च कथ्यते ।अनुजीवी सहायः स्यात्सेवकोऽनुचरोऽनुगः ॥ ४२८ ॥
2.428 · p. 49
अनुष्टुप्
प्राड्विवाकोऽक्षदृक् स्थेयो न्यायोऽक्ष इति कथ्यते ।अन्तःपुरेष्वधिकृतः स्मृतोऽन्तर्वंशिको नरः ॥ ४२९ ॥
2.429 · p. 49
अनुष्टुप्
क्लीवो वर्षधरः षण्ढः षण्डकश्च नपुंसकः ।उभयव्यञ्जनं पोटा तृतीयाप्रकृतिः स्मृताः ॥ ४३० ॥
2.430 · p. 49
अनुष्टुप्
आरालिकः सूपकारः सूदः स्याद्वल्लवस्तथा ।पौरोगवस्तु विज्ञेयः सूदाध्यक्षो मनीषिभिः ॥ ४३१ ॥
2.431 · p. 49
अनुष्टुप्
वैहासिकः केलिकिलो बुधैर्वासन्तिको मतः ।परिहासो द्रवो नर्म केलिः क्रीडा च खेलनम् ॥ ४३२ ॥
2.432 · p. 50
अनुष्टुप्
रक्षिवर्गो ह्यनीकस्थः सेनानीर्वाहिनीपतिः ।अर्थागमो भवेदायो भागधेयो बलिः करः ॥ ४३३ ॥
2.433 · p. 50
अनुष्टुप्
उपदा प्राभृतं प्रोक्तमुपग्राह्यमुपायनम् ।लञ्चोत्कोचमुपादानमुपचारस्तथामिषम् ॥ ४३४ ॥
2.434 · p. 50
अनुष्टुप्
प्रबोधका मागधवन्दिसूता,वैतालिका मङ्गलपाठकाश्च ।अच्छोटनं स्यान्मृगया मृगव्यं,पापर्द्धिराखेटक इत्यभिन्नम् ॥ ४३५ ॥
2.435 · p. 50
उपजातिः
अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः ।तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥
2.436 · p. 50
गीतिः
गुणदेशकृतास्तेषां संज्ञाः स्युरनेकधा लोके ।कर्कः श्वेतः शोणो रक्तो हेमश्च कृष्णवर्णोऽश्वः ॥ ४३७ ॥
2.437 · p. 50
metre not recognised
मल्लिकाक्षः सितैर्नेत्रैः कृष्णैरिन्द्रायुधो मतः ।श्रीवृक्षकी स विज्ञेयः श्रीवृक्षो यस्य लाञ्छनम् ॥ ४३८ ॥
2.438 · p. 50
अनुष्टुप्
आजानेयाः कुलीनाः स्युः पारसीका वनायुजाः ।काम्बोजा वाह्लिकाः प्रोक्ताः सैन्धवाः सिन्धुपारजाः ॥ ४३९ ॥
2.439 · p. 50
अनुष्टुप्
शूलको दुर्विनीतोऽश्वः पोतः प्रोक्तः किशोरकः ।अर्वती वडवा वामी प्रसूता वाजिनी स्मृता ॥ ४४० ॥
2.440 · p. 50
अनुष्टुप्
लूनं पुच्छं तु लाङ्गूलं वालहस्तश्च वालधिः ।प्रोथ इत्युच्यते घोणा मध्यं कश्यं खुरः शफः ॥ ४४१ ॥
2.441 · p. 51
अनुष्टुप्
पर्याणं स्यात्पल्ययनं खलीनं कविकं स्मृतम् ।चर्मदण्डः कशा प्रोक्ता वल्गारश्मिकुशाः स्मृताः ॥ ४४२ ॥
2.442 · p. 51
अनुष्टुप्
रंहस्तरः स्यदः स्यात्प्रसरो वेगो रयो जवो वाजः ।पांशुः क्षोदो रेणुश्चूर्णं धूली रजश्च तुल्यार्थाः ॥ ४४३ ॥
2.443 · p. 51
गीतिः
अनः शताङ्गः शकटः स्यन्दनः कथ्यते रथः ।गन्त्री कम्बलिवाह्यस्तु कूवरी च निगद्यते ॥ ४४४ ॥
2.444 · p. 51
अनुष्टुप्
योग्यारथो वैनयिको ह्यध्वन्यः पारियानिकः ।कर्णीरथः प्रवहणं डयनं चेति कथ्यते ॥ ४४५ ॥
2.445 · p. 51
अनुष्टुप्
देवतार्थो देवरथो युद्धार्थः साम्परायिकः ।क्रीडारथः पुष्परथो जेता जैत्ररथः स्मृतः ॥ ४४६ ॥
2.446 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
चक्रं रथाङ्गमाख्यातं कूवरं च युगन्धरम् ।चक्रधारा प्रधिर्नेमिर्नाभिश्चक्रस्य पिण्डिका ॥ ४४७ ॥
2.447 · p. 51
अनुष्टुप्
अपस्करो रथाङ्गः स्यादणिरक्षाग्रकीलिका ।नियन्ता प्राजिता क्षत्ता दक्षिणस्थश्च सारथिः ॥ ४४८ ॥
2.448 · p. 51
अनुष्टुप्
सव्येष्ठः कथ्यते सूतो वरूथं रथगोपनम् ।वाहनं धोरणं युग्यं यानं पत्त्रमिति स्मृतम् ॥ ४४९ ॥
2.449 · p. 51
अनुष्टुप्
शिविका याप्ययानं स्याद्वेसरोऽश्वतरो मतः ।पदातपत्तिपादातपदातिकपदातयः ।पद्गश्च पदगश्चेति कथ्यन्ते पादचारिणः ॥ ४५० ॥
2.450 · p. 52
अनुष्टुप्
दूष्यं स्थुलं पटकुटी गुणलयनी केणिका च निर्दिष्टा ।ध्रुवकः शिवकः शङ्कुः पुष्पलकः कीलकः प्रोक्तः ॥ ४५१ ॥
2.451 · p. 52
आर्या
यात्रा प्रयाणं प्रस्थानं निवेशः शिविरं स्मृतम् ।अवस्कन्दः प्रपातश्च सौप्तिकं च निगद्यते ॥ ४५२ ॥
2.452 · p. 52
अनुष्टुप्
सङ्ग्रामः समितिः समिच्च समरं संख्यं समीकं रणं,युद्धं युत्प्रधनं मृधं समुदयः संयत्कलिः संयुगम् ।द्वन्द्वायोधनसम्प्रहारकलहाक्रन्दाहवाभ्यागमाः,संस्फोटप्रविदारणप्रहरणानीकाजयः सङ्गरः ॥ ४५३ ॥
2.453 · p. 52
शार्दूलविक्रीडितम्
सम्परायः समाघातः प्रघातश्च समाह्वयः ।जन्यं स्यादभिसम्पातः सम्मर्दो विग्रहस्तथा ॥ ४५४ ॥
2.454 · p. 52
अनुष्टुप्
अभियातिररातिरमित्ररिपू,प्रतिपक्षविपक्षविरोध्यरयः ।अहितोऽसहनश्च जिघांसुरिति,प्रथिताः परिपन्थिपरासुहृदः ॥ ४५५ ॥
2.455 · p. 52
तोटकम्
प्रत्यर्थी पर्यवस्थाता द्वेषी वैरी च शात्रवः ।शत्रुः सपत्नो भ्रातृव्यः प्रत्यनीको द्विषन्मतः ॥ ४५६ ॥
2.456 · p. 53
अनुष्टुप्
पृतना सेना ध्वजिनी पताकिनी वाहिनी बलं सैन्यम् ।चक्रं चमूर्वरूथिन्यनीकिनी स्यादनीकं च ॥ ४५७ ॥
2.457 · p. 53
आर्या
वैजयन्ती पताका च केतुः स्यात्केतनं ध्वजः ।अस्योच्चूलावचूलाख्यावूर्ध्वाधोमुखकूर्चकौ ॥ ४५८ ॥
2.458 · p. 53
अनुष्टुप्
सन्नाहः कवचं वर्म तनुत्राणमुरश्छदः ।जगरः कङ्कटो माठी दंशनं जालिका स्मृता ॥ ४५९ ॥
2.459 · p. 53
अनुष्टुप्
खेटकं फलकं चर्म प्रोक्तमावरणं बुधैः ।वर्मितः स्यात्कवचितः सन्नद्धो दंशितस्तथा ॥ ४६० ॥
2.460 · p. 53
अनुष्टुप्
सर्वाभिसारमिच्छन्ति सर्वसन्नहनं बुधाः ।यत्सेनयाभिनिर्याणं स्मृतं तदभिषेणनम् ॥ ४६१ ॥
2.461 · p. 53
अनुष्टुप्
हेतिः शस्त्रं प्रहरणमायुधमस्त्रं चतुर्विधं तच्च ।मुक्तामुक्तममुक्तं करमुक्तं यन्त्रमुक्तं च ॥ ४६२ ॥
2.462 · p. 53
आर्या
शक्त्यादि पाणिमुक्तं स्यादमुक्तं क्षुरादिकम् ।मुक्तामुक्तं तु यष्ट्यादि यन्त्रमुक्तं शरादिकम् ॥ ४६३ ॥
2.463 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अस्त्रं धनुरिष्वासं कोदण्डं धन्व कार्मुकं चापम् ।बाणासनं द्रुणा स्यान्मौर्वी ज्या सिञ्जिनी गुणो जीवा ॥ ४६४ ॥
2.464 · p. 53
metre not recognised
तूणीरमुपासङ्गस्तूणं तूणी निषङ्ग इषुधिश्च ।बाणाश्रयः कलापः कार्मुककोटिर्भवेदटनिः ॥ ४६५ ॥
2.465 · p. 53
आर्या
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
2.466 · p. 53
स्वागता
सर्वायसस्तु बाणः प्रक्ष्वेडन एषणश्च नाराचः ।तीरीतद्बलदण्डासनादयः काण्डभेदाः स्युः ॥ ४६७ ॥
2.467 · p. 54
आर्याmetre not read in every line
पत्त्रपाली भवेद्वाजः कर्तरी पुङ्ख उच्यते ।वेध्यं लक्ष्यं शरव्यं च निमित्तं च समं विदुः ॥ ४६८ ॥
2.468 · p. 54
अनुष्टुप्
अर्धचन्द्रक्षुरप्रादि धाराग्रं मुखमुच्यते ।आराग्रं तु मुखं तेषां पुष्पपत्त्रादिभेदतः ॥ ४६९ ॥
2.469 · p. 54
अनुष्टुप्
बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता ।अभ्यासः कथ्यते योग्या श्रमस्थानं खलूरिका ॥ ४७० ॥
2.470 · p. 54
अनुष्टुप्
लघुहस्तः शीघ्रवेधी कृतपुङ्खस्तु शिक्षितः ।स भवेदपराद्धेषुर्यस्य लक्ष्याच्च्युतः खगः ॥ ४७१ ॥
2.471 · p. 54
अनुष्टुप्
निस्त्रिंशः करबालः खड्गः कौक्षेयकः कृपाणः स्यात् ।रिष्टिरसिचन्द्रहासौ तरवारिर्मण्डलाग्रं च ॥ ४७२ ॥
2.472 · p. 54
metre not recognised
कोशः प्रत्याकारः खड्गपिधानं त्सरुर्भवेन्मुष्टिः ।असिपुत्रिकासिधेनुः क्षुरिका पत्त्रं च शस्त्रिका ज्ञेया ॥ ४७३ ॥
2.473 · p. 54
गीतिः
परश्वधः कुठारः स्यात्परशुः स्वधितिस्तथा ।निशातं निशितं धौतं तेजितं च समं स्मृतम् ॥ ४७४ ॥
2.474 · p. 54
अनुष्टुप्
प्रासो निगदितः कुन्तो मुद्गरो द्रुघणः स्मृतः ।क्रकचं करपत्त्रं स्यात्परिघः परिघातनः ॥ ४७५ ॥
2.475 · p. 54
अनुष्टुप्
यष्टिपट्टिसदुःस्फोटमुखण्डीशङ्कुशक्तयः ।भिन्दिपालगदादण्डचक्राद्याः शस्त्रजातयः ॥ ४७६ ॥
2.476 · p. 54
अनुष्टुप्
मारणं निशरणं निवर्हणं,सूदनं निरसनं निशुम्भनम् ।घातनं प्रशमनं प्रमापणं,वर्जनं विशसनं प्रवासनम् ॥ ४७७ ॥
2.477 · p. 55
रथोद्धता
निर्वापणनिर्वासनकदनव्यापादनानि तुल्यानि ।निर्ग्रन्थनमालम्भः प्रमया हिंसा च संज्ञपनम् ॥ ४७८ ॥
2.478 · p. 55
आर्या
नष्टो गृहीतदिक् प्रोक्तः कान्दिशीको भयद्रुतः ।प्रस्कन्नः पतितो ज्ञेयो जितकाशी जिताहवः ॥ ४७९ ॥
2.479 · p. 55
अनुष्टुप्
शुद्धान्तमवरोधश्च राज्ञोऽन्तःपुरमुच्यते ।कृताभिषेका महिषी भट्टिन्य इतराः स्मृताः ॥ ४८० ॥
2.480 · p. 55
अनुष्टुप्
कुमारी कथिता कन्या किञ्चित्प्रौढा सुवासिनी ।वर्या पतिंवरा प्रोक्ता नग्ना प्रोक्ता च कौटवी ॥ ४८३ ॥
2.483 · p. 55
अनुष्टुप्
अदृष्टरजसं नारीं नग्निकां ब्रुवते बुधाः ।वधूटी च चिरण्टी च द्वितीयवयसौ स्त्रियौ ॥ ४८४ ॥
2.484 · p. 55
अनुष्टुप्
अर्द्धवृद्धा तु या नारी सा कात्यायनिका स्मृता ।पुनर्भूर्दिधिषूः प्रोक्ता वृषस्यन्ती रतार्थिनी ॥ ४८५ ॥
2.485 · p. 55
अनुष्टुप्
पतिवत्नी जीवत्पतिर्जीवतोका च जीवसूः ।रहिता पतिपुत्राभ्यां निर्वीरेत्यभिधीयते ॥ ४८६ ॥
2.486 · p. 56
अनुष्टुप्metre not read in every line
विश्वस्ता विधवा प्रोक्ता पुष्पहीना च निष्कला ।श्रमणा भिक्षुकी मुण्डा वयस्याली सखी स्मृता ॥ ४८७ ॥
2.487 · p. 56
अनुष्टुप्
अवीरुदक्या च रजस्वला स्यात्,आत्रेयिका पुष्पवती च नारी ।राका भवेज्जातरजास्तु कन्या,नश्यत्प्रसूतिः कथिता च भिन्दुः ॥ ४८८ ॥
2.488 · p. 56
उपजातिः
मुख्या नारी वरारोहा वरस्त्री मत्तकाशिनी ।स्त्री विदग्धा च मत्ता च वाणिनीत्यभिधीयते ॥ ४८९ ॥
2.489 · p. 56
अनुष्टुप्
रूपाजीवा वेश्या गणिका पण्याङ्गना तथा क्षुद्रा ।राजकुलप्रतिबद्धा वारस्त्री वारमुख्या च ॥ ४९० ॥
2.490 · p. 56
metre not recognised
गाणिक्यं गणिकानां च समूहः कथ्यते बुधैः ।असिक्न्यन्तःपुरप्रेष्या दूती सञ्चारिका स्मृता ॥ ४९१ ॥
2.491 · p. 56
अनुष्टुप्
कुट्टिनी शम्भली चुन्दी सैरन्ध्री गन्धकारिका ।पोटा वोटा तथा चेटी दासी स्यात्कुट्टहारिका ॥ ४९२ ॥
2.492 · p. 56
अनुष्टुप्
पाञ्चालिका पुत्रिका स्यात्काष्ठदन्तादिनिर्मिता ।स्मृता लेप्यमयी स्त्री तु बुधैरञ्जलिकारिका ॥ ४९३ ॥
2.493 · p. 56
अनुष्टुप्
दाराः क्षेत्रं कलत्रं च भार्या सहचरी वधूः ।सधर्मचारिणी पत्नी जाया च गृहिणी गृहाः ॥ ४९४ ॥
2.494 · p. 56
अनुष्टुप्
उपयामः परिणयनं पाणिग्रहणं विवाह उद्वाहः ।कुलबालिका कुलस्त्री पतिव्रता सुचरिता सती साध्वी ॥ ४९५ ॥
2.495 · p. 57
गीतिः
पांशुला बन्धुकी स्वैरिण्यसती पुंश्चलीत्वरी ।धर्षिणी कुलटा प्रोक्ता त्वविनीताभिसारिका ॥ ४९६ ॥
2.496 · p. 57
अनुष्टुप्
कान्तः स्यात्कमिता पतिर्वरयिता भर्ता च भोक्ता धवो,रुच्याभीकवराभिकाश्च रमणः प्राणाधिनाथोऽनुगः ।सूनुः सन्ततिरात्मजश्च तनुजः पुत्रः प्रसूतिः सुतः,तुक् तोकं तनयश्च नन्दन इति प्राज्ञैरपत्यं स्मृतम् ॥ ४९७ ॥
2.497 · p. 57
शार्दूलविक्रीडितम्
आपन्नसत्त्वा गुर्वी स्यादन्तर्वत्नी च गर्भिणी ।दोहदं दौहृदं श्रद्धा लालसा च समाः स्मृताः ॥ ४९८ ॥
2.498 · p. 57
अनुष्टुप्
सूतिमासो वैजननो गर्भो भ्रूण इति स्मृतः ।अरिष्टगृहमिच्छन्ति सूतिकाभवनं बुधाः ॥ ४९९ ॥
2.499 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
विजाता च प्रजाता च प्रसूता स्त्री निगद्यते ।गर्भाशयो जरायुः स्यादुल्वं च कललं स्मृतम् ॥ ५०० ॥
2.500 · p. 57
अनुष्टुप्
कन्यापुत्रस्तु कानीनो नाटेरः स्यान्नटीसुतः ।बन्धुको बन्धुकीपुत्रो गोप्यो दासीसुतः स्मृतः ॥ ५०१ ॥
2.501 · p. 57
अनुष्टुप्
बालः पाकोऽर्भको गर्भः पोतश्च पृथुकः शिशुः ।शावो डिम्भश्च विज्ञेयो वटुर्माणवको मतः ॥ ५०२ ॥
2.502 · p. 57
अनुष्टुप्
प्रवयाः स्थविरो वृद्धो यातयामश्च कथ्यते ।जरा तु विस्रसा प्रोक्ता दारकस्तरुणो युवा ॥ ५०३ ॥
2.503 · p. 57
अनुष्टुप्
अम्बा सवित्री जननी च माता,वप्ता च तातो जनकः पिता च ।स्नुषा जनी पुत्रवधूर्वधूः स्यात्,प्रजावती भ्रातृवधूः स्मृता च ॥ ५०४ ॥
2.504 · p. 58
उपजातिः
दुहिता तनया पुत्री जामाता दुहितुः पतिः ।दौहित्रस्तत्सुतो नप्ता स च पौत्रश्च कथ्यते ॥ ५०५ ॥
2.505 · p. 58
अनुष्टुप्
अग्रजः पूर्वजो ज्येष्ठः कनिष्ठोऽवरजोऽनुजः ।भ्रातृव्यो भ्रातृपुत्रः स्याद् भ्रात्रीयो भ्रातृजस्तथा ॥ ५०६ ॥
2.506 · p. 58
अनुष्टुप्
धात्री स्यादुपमाता भगिनी जामिः स्वसा च विज्ञेया ।तत्पुत्रः स्वस्रीयो जामेयो भागिनेयः स्यात् ॥ ५०७ ॥
2.507 · p. 58
आर्या
समानोदर्यसोदर्यसगर्भाः सोदराः समाः ।भ्रातृवर्गस्य या जाया यातरस्ताः परस्परम् ॥ ५०८ ॥
2.508 · p. 58
अनुष्टुप्
आत्मीयः स्वजनो बन्धुराप्तो ज्ञातिश्च बान्धवः ।सनाभयः सपिण्डाश्च सगोत्राश्च समाः स्मृताः ॥ ५०९ ॥
2.509 · p. 58
अनुष्टुप्
तनुस्तनूः संहननं शरीरं,कलेवरं विग्रहदेहकायाः ।अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
2.510 · p. 58
उपजातिः
अंह्रिः पादश्चरणः पाणिः शयपञ्चशाखकरहस्ताः ।कामाङ्कुशाः कररुहाः पुनर्नवाः पाणिजा नखा नखराः ॥ ५११ ॥
2.511 · p. 58
गीतिः
काञ्चीपदं कलत्रं जघनं श्रोणी ककुद्मती ज्ञेया ।आरोहश्च नितम्बः कटी कटीरं त्रिकस्थानम् ॥ ५१२ ॥
2.512 · p. 59
आर्या
गुदः पायुरपानं स्यात्कटिप्रोथौ स्फिजौ पुतौ ।कुकुन्दरौ समाचष्टे जनो जघनकूपकौ ॥ ५१३ ॥
2.513 · p. 59
अनुष्टुप्
भगो योनिरुपस्थश्च वराङ्गं स्मरमन्दिरम् ।शिश्नः शेफोऽथ मेढ्रश्च तुल्ये मेहनशेफसी ॥ ५१४ ॥
2.514 · p. 59
अनुष्टुप्