कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · शान्ताः

॥ इत्यन्तस्थान्तवर्गः ॥

एकशाः ।

शुभे शमुक्तं शयने तु शः स्या-न्निशाकरे शुः प्रथितो वधेऽपि ।
6.30.1 · p. 364
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 2, syllable 1 स्या (wrong syllable)

द्विशाः ।

इ[80b]च्छाप्रभुत्वे वशमामनन्तिस्यान्निघ्नतायां त्रिषु निघ्नमात्रे ॥ १ ॥
6.30.1 · p. 364
उपेन्द्रवज्राmetre not read in every line
स्त्रियां तु वन्ध्यासुतयोश्च नार्या-मिभ्यां सुरभ्यामपि संप्रदिष्टाद्वीपे तथा रामसुते च दर्भेयोक्त्रे कुशः स्याच्चरमे जले च ॥ २ ॥
6.30.2 · p. 364
उपजातिः
कुशी तु फालेऽथ कुशा च लाड्यां ( ? )वल्गाह्णयेऽन्यत्र तु पापमत्ते ।स्पशश्चरे स्यात्समरे शशस्तुस्याल्लोमकर्णे पुरुषान्तरे च ॥ ३ ॥
6.30.3 · p. 365
उपजातिः
लोध्रे तथा गन्धरसेऽथ दर्शःसूर्येन्दुसङ्गेऽप्यवलोकनेऽपि ।श्रौते च पक्षान्त विधौ तथाथस्पर्शो भवेत्स्पर्शनदानयोश्च ।त्वाचे गुणेऽर्तौ च नृवैश्ययोस्तुनास्त्री प्रवेशे विडिह प्रजायाम् ।मले न ना स्त्री तु खगादिबन्धेकचोत्तरस्थो निकरे च पाशः ।कर्णान्तगः शोभनवाचकः स्या-न्निन्दार्थकश्चात्र परस्थितोऽयम् ।नाशो विनाशानुपलम्भयोः स्यात्पलायनेऽथ क्षवथौ पुमान्स्यात् ॥ ६ ॥
6.30.6 · p. 365
इन्द्रवज्राtwo metres in one verse
काशस्तृणे योषिति[ नाथ ]वा[81a]रा-णस्यां स्त्रियां स्याद्वरुणे तु केशः ।ह्रीबेरबालासुरभित्सु कीशःशाखामृगे पुंसि दिगम्बरे च ॥ ७ ॥
6.30.7 · p. 365
इन्द्रवज्राmetre not read in every line
ईशो हरे चापरवत्प्रभौ स्या-त्स्त्रियां शिवालाङ्गलदण्डयोश्च ।वेशोऽस्त्रियां स्याद्गृहमात्रकेऽपिनेपथ्यवेश्यागृहयोस्तथैव ॥ ८ ॥
6.30.8 · p. 365
उपजातिः
पशुर्मृगादौ प्रमथे च मेषेतिर्यक्षु सर्वेष्वसुमत्सु पुंसि ।वेषोऽपि दुःखव्यवसाययोस्तुक्लेशोऽपि रागादिषु संप्रदिष्टः ।वंशस्तु पृष्ठावयवे च वेणौकुले च वर्गेऽप्यथ दंश आद्ये ॥ ९ ॥
6.30.9 · p. 366
उपजातिः
सर्पक्षते मर्मणि खण्डने चसंनाहदुध्यो( ? )र्वनमक्षिकायाम् ।स्त्री त्वल्पजातौ वनमक्षिकायांअंशुस्तु * * * * * * * * ॥ १० ॥
6.30.10 · p. 366
इन्द्रवज्राmetre not read in every line
* * * * * * * * * * ** * * * * * * * * * ** * * * * * * * * * *[पांशुस्तु]ना पांसुसमो रजःसु ॥ ११ ॥
6.30.11 · p. 366
metre not recognised
सस्ये चिरं संचिते गोमयेऽथदृक् स्त्री मतौ दर्शननेत्रयोश्च ।दशा त्ववस्थास्वपि दीपवर्त्यांवस्त्रांशके योषिति भूम्नि दिष्टा ॥ १२ ॥
6.30.12 · p. 366
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 7 ते (wrong syllable)
निशा हरिद्राह्वययामिनीगा-नीह्वा(?)तितृष्णाककुभोस्तु चाशा ।राशिस्तु मेषादिषु पुंसि पुञ्जेपेशी स्त्रियां खड्गपिधानमांस्योः[81b] ॥ १३ ॥
6.30.13 · p. 366
उपजातिः
मांसस्य पिण्ड्यां कलिकेऽतिपक्वे
6.30.13 · p. 366
इन्द्रवज्रा

त्रिशाः ।

ना सिल्हके स्यात्कपिशोऽन्यवत्तु ।स्याच्छ्यावयुक्तेऽथ कणागतः स्त्रीवज्रेऽस्त्रियां स्यात्कुलिशश्च मत्स्ये ॥ १४ ॥
6.30.14 · p. 366
इन्द्रवज्रा
स्याद्दुष्टबुद्धौ विवशोऽप्यरिष्टे-ऽवश्यात्मके निर्दयखड्गयोस्तु ।निस्त्रिंश उक्तः सदृशं तु तुल्या-र्हयोः परस्मिन्नथ बालिशः स्यात् ॥ १५ ॥
6.30.15 · p. 367
उपजातिः
बाले च मूर्खेऽथ मुनौ सलोम्निस्याल्लोमशो मद्रकवाचकश्च ।कासीसकेऽन्त्ये जटिलाशृगाल्योःस्त्री शूकशिम्ब्यामपि मर्कटीषु ॥ १६ ॥
6.30.16 · p. 367
इन्द्रवज्रा
स्यात्काकजङ्घातिबलातिमोदौ-षधे तथा शाकिनिकाविशेषे ।व्यक्तौ विकाशो विजने प्रकाशःस्फुटप्रहासातपगः प्रसिद्धौ ॥ १७ ॥
6.30.17 · p. 367
उपजातिः
संकाश उक्तः सदृशेऽन्तिकेऽथनीकाश उक्तः समनिर्णयार्थः ।हुताश उक्तो दहने त्रयेऽथकीनाश उक्तो यमकर्षकार्थः ॥ १८ ॥
6.30.18 · p. 367
उपजातिः
उपांशुघातिन्यपि ना वराकेपरोपमो ना वरुणे सुखाशः ।स्याच्छोभनाशे तिनिशे च राज्ञःपिङ्गाश उक्तो झषपल्लि[82a]भर्त्रोः ॥
6.30.19 · p. 367
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 स्या (wrong syllable); pāda 2, syllable 1 पि (wrong syllable)
स्त्री नीलिकायां चरमे सुहेम्निपलाश उक्तो रजनीचरेऽपि ।शट्यां त्रिपर्णे हरितेऽन्तिमे तुपर्णे निवेशः शिबिरे विवाहे ॥ २० ॥
6.30.20 · p. 367
उपजातिः
विन्यासके वेतनमूर्छयोस्तुनिर्वेश उक्तः प्रगमे च भोगे ।अङ्गुष्ठतर्जन्युभयप्रमाणेदेशे च कुड्येऽपि नरि प्रदेशः ॥ २१ ॥
6.30.21 · p. 367
इन्द्रवज्रा
संदेश उक्तो निकटे च देशेस्याच्छासनोपांशुगिरोर्निर्देशः ।आदर्श उक्तो नरि दर्पणेऽपिस्याट्टिप्पणे च प्रतिपुस्तकेऽपि ॥ २२ ॥
6.30.22 · p. 368
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 9 र्नि (wrong syllable)
स्यात्कर्कशोऽस्त्री कठिने दयोनेक्रूरे दृढे च त्रिषु पुंसि चेक्षौ ।कम्पिल्लके कासकमर्दकेऽथगिरीश उक्तो धिषणे शिवे च ॥ २३ ॥
6.30.23 · p. 368
उपजातिः
हिमाचलेऽथ स्मरवैरिणि स्या-दुड्डीश उक्तोऽपि निबन्धभेदे ।तुङ्गांश इन्दौ च शिवे प्रदिष्टःपक्षीश उक्तो गरुडे च कृष्णे ॥ २४ ॥
6.30.24 · p. 368
उपजातिः
उपांशुरुक्तो जपभेदकेऽथा-व्ययं विविक्तेऽथ यवासके स्यात् ।स्यात्कण्टकार्यां परवत्कठोरेस्पर्शे विपाशा तु नदीविभेदे ॥ २५ ॥
6.30.25 · p. 368
उपजातिः
उन्मुक्तपाशे परवद्विकेशीपटस्य वर्तौ( ? )विकच[82b]स्त्रियां स्यात् ।भूकेश उक्तो वटशैवलार्थो-
6.30.26 · p. 368
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 8 च (wrong syllable)

चतुःशाः ।

ऽप्यथापदेशः स्मरणे च लक्षे ॥ २६ ॥
6.30.26 · p. 368
उपजातिःmetre not read in every line
व्याजे निमित्तेऽप्यथ जीवितेशोजीवातुजीवाधिपयोः कृतान्ते ।कान्तेऽथ शंभौ हरिसारथौ चभवेद्गुडाकेश इहानले तु ॥ २७ ॥
6.30.27 · p. 368
उपजातिः
स्यादाश्रयाशस्त्रिषु चाश्रयघ्ने-ऽथो नागपाशः करणे वधूनाम् ।पत्युर्जलानां गदितश्च पाशेहोम्ये पुरोडाशमुशन्ति पुंसि ॥ २८ ॥
6.30.28 · p. 369
इन्द्रवज्रा
स्यात्पिष्टवर्त्याह्वयभक्ष्यभेदेस्यात्सोमवल्लीरसहोमशेषे ।प्रतिष्कशः पुंसि सहायवार्ता-हराग्रगार्थे परिधौ तु पुंसि ॥ २९ ॥
6.30.29 · p. 369
उपजातिः
स्याद्वेष्टनेऽथाचमनाप्लवार्थःस्यात्स्पर्शमात्रेऽथ नरे च वैश्ये ।भूमिस्पृगुक्तोऽथ खलेऽन्यवत्स्या-च्छनैश्चरे क्रूरदृगादिलिङ्गः ॥ ३० ॥
6.30.30 · p. 369
उपजातिः
भाषाविभेदेऽप्यवपातकेऽप-भ्रंशोऽपशब्देऽथ किलोपदंशः ।मेढ्रामये पुंस्यवदंशकेऽथस्यात्खण्डपर्शुर्नरि पर्शुरामे ॥ ३१ ॥
6.30.31 · p. 369
इन्द्रवज्रा
शंभौ तथा चूर्णविलेपिनि स्या-द्राहौ च खण्डामलकौषधे च ।स्थाच्छृङ्खलायां[83a]कटके च पादु-कायां तथा योषिति पादपाशी ॥ ३६ ॥
6.30.36 · p. 369
इन्द्रवज्राmetre not read in every line
स्यात्पौर्णमास्यां च कुहूतिथौ चप्रकीर्तिता पश्चदशी प्रवीणैः ।
6.30.34 · p. 369
उपजातिः

॥ इति शान्ताः ॥

श्रेष्ठे तु षः स्त्रीसहिते च शस्तः ।षूर्गर्भमुक्तौ कथितश्च कृच्छ्रे ॥ ३३ ॥
6.30.33 · p. 369
उपजातिः
क्षः क्षेत्र उक्तः क्षिपि तूदिता क्षाक्षिः स्यात्क्षितौ च क्षयवाचिका च ।
6.30.36 · p. 370
इन्द्रवज्राtwo metres in one verse

द्विषाः ।

वृषस्तु धर्मे नरि सौरभेयेपुंराशिभेदे वनिताप्रसङ्गे( ? ) ।स्यान्मूषके श्रेष्ठगतोऽन्यवत्स्यात्स्याद्वासके द्वंद्वगतो वृषा तु ॥ ३४ ॥
6.30.34 · p. 370
इन्द्रवज्राtwo metres in one verse
स्याच्छूकशिम्ब्यां व्रतशीलिनां तुवृष्यासनेऽस्त्री तु विषं जले स्यात् ।स्यात्कालकूटेऽतिविषौषधे स्त्रीतुषस्तु धान्यत्वचि चाक्षवृक्षे ॥ ३५ ॥
6.30.35 · p. 370
उपजातिः
स्यात्स्पर्धनव्याजगतं मिषं चलिप्सापिपासासु पुमांश्च तर्षंः ।वर्षं तु न स्त्री किल वत्सरे स्या-द्वृष्टौ तथा स्याद्भरतादिखण्डे ॥ ३६ ॥
6.30.36 · p. 370
इन्द्रवज्राimpossible sign sequence: ांश्च तर्षंः ।
स्त्री भूम्नि मेघागमकालवाचिकर्षोऽस्त्रियां स्यात्पलतुर्यभागे ।ना कर्षणे स्त्री तु [स] धान्यभेदेत्वग्दोषमाने परवज्जडे स्यात्[83b] ॥ ३७ ॥
6.30.37 · p. 370
इन्द्रवज्रा
मेषोऽस्त्रियां स्यादुरणे च राशि-भेदे तथा भेषजभेदकेऽपि ।शेषस्तु संकर्षणकेऽप्यनन्तेवधे पुमान्स्यादथ न स्त्रियां स्यात् ॥ ३८ ॥
6.30.38 · p. 370
उपजातिः
तथोपयुक्तेतरवाचकः स्त्रीनिर्माल्यदाने च तथा प्रसादे ।शोषस्तु यक्ष्मामयशोषयोः स्या-द्दोषः पुनर्दूषणपापयोर्ना ॥ ३९ ॥
6.30.39 · p. 370
उपजातिः
दोषा तु रात्रौ च भुजे स्त्रियां स्या-द्रात्र्यर्थिका स्यादियमव्ययं च ।कोषः पुमान्स्याच्चषके स्त्रियां तुस्याद्दीपपात्रेऽपि च जातिकोषे ।न स्त्री च भाण्डालयकुड्मलार्थ-समूहपेशीपदसंग्रहेषु ।लिङ्गत्रये खड्गपिधानवाचीतादृग्विधः स्यादपि शिम्बिकार्थः ॥ ४० ॥
6.30.40 · p. 371
इन्द्रवज्राtwo metres in one verse
ध्वाने च धामार्गवके च घोषो-ऽप्याभीरपल्ल्यामपि कांस्यके च ॥ ४१ ॥
6.30.41 · p. 371
इन्द्रवज्रा
मेघध्वनौ स्त्री शतपुष्पिकायांप्रैषो रुजि प्रेषण उन्मितौ च ।स्यान्मर्दने प्रेषमुशन्ति तद्व-त्पौषस्तु मासेऽथ रणे महेऽन्त्ये ॥ ४२ ॥
6.30.42 · p. 371
इन्द्रवज्रा
कान्तौ तथा त्विड्व्यवसायके चरुचौ जिगीषावचसोरपि स्त्री ।स्त्री व्यापने विट् श[84a]मले न पुंसिशुषिस्तु शोषो विवरेऽपि च स्त्री ॥ ४३ ॥
6.30.43 · p. 371
उपजातिःmetre not read in every line
ऋषिर्वसिष्ठादिषु दीधितौ चवेदे च ना बाणसुतारजन्योः ।उषाथ कम्रे त्रिषु गुग्गुलौ नाझषस्तु वैसारिणि पुंसि दिष्टः ॥ ४४ ॥
6.30.44 · p. 371
उपजातिः
कलाभिदि स्त्री गदिता तु कर्षू-र्नद्यां करीषज्वलने तु पुंसि ॥ ४५ ॥
6.30.45 · p. 371
उपजातिः
अक्षस्तु कर्षे शकटे च चक्रेकलिद्रुमे च व्यवहारके च ।आत्माभिविज्ञे नरि पाशके चस्पादिन्द्रियेऽन्त्ये रुचके च तुत्थे ॥ ४६ ॥
6.30.46 · p. 372
उपजातिः
ऋक्षोऽद्रिभेदे कृतवेधने चतथाच्छभल्ले नरि शोणके च ।भे तु स्त्रियामेष न गुह्यके स्यात्यक्षः कुबेरेऽथ मुनिप्रभेदे ।दक्षो विधौ नन्दिनि ताम्रचूडेद्रुमेऽनले भेद्यसमः पटौ सः ।भुवि स्त्रियां पक्ष इहार्धमासेपार्श्वे ग्रहे साध्यविरोधयो[85a]श्च ॥ ४८ ॥
6.30.48 · p. 372
उपजातिःmetre not read in every line
देहाङ्गचुल्लीविलयोः पतत्रेनृपद्विपे मित्रसहाययोश्च ।बलेऽथ केशादिपरः स वृन्देलक्षं शरव्ये षणि(?)कैतवेऽस्त्री ॥ ४९ ॥
6.30.49 · p. 372
उपजातिः
न पुंसि संख्याभिदि गर्दभाण्डेप्लक्षो भवेद्द्वीपविशेषके च ।बोधिद्रुमे स्यात्प्रतिहारपार्श्वेज्ञैः पर्कटीनामसु संप्रदिष्टः ॥ ५० ॥
6.30.50 · p. 372
उपजातिः
न्यक्षं तु का[र्त्स्न्ये]त्रितये निकृष्टोना पर्शुरामेऽथ शुचौ परस्मिन् ।तीक्ष्णे मनोज्ञे च पुमांस्तु गीतेचोक्षोऽथ काके च बके च भिक्षौ ॥ ५१ ॥
6.30.51 · p. 372
इन्द्रवज्रा
ध्वाङ्क्षो भवेत्तर्कुकके गृहे चकाकोलिकावाचक एष योषित् ।द्वयोस्तु दोर्मूलगतश्च कक्षःपुमांस्तु कच्छे महिषे वने च ॥ ५२ ॥
6.30.52 · p. 374
उपजातिः
शुष्के तृणे वीरुधि च प्रकोष्ठेपाश्चात्त्यवस्त्राञ्चलपल्लवे स्त्री ।काञ्च्यां तथोद्ग्राहणिकारथाङ्ग-स्पर्धापदे स द्विपरज्जुगश्च ॥ ५३ ॥
6.30.53 · p. 374
इन्द्रवज्रा
वस्त्रे च भित्तावथ वीक्षमीक्ष्ये-द्भुतेऽथ मोक्षो नरि मुष्ककद्रौ ।निःश्रेयसे मोचनवाचकोऽथरूक्षस्तु वृक्षे त्रिषु हार्दही[85b]ने ॥ ५४ ॥
6.30.54 · p. 374
उपजातिःmetre not read in every line
अचिक्कणेऽथो भृतियाच्ञयोः स्या-द्भिक्षा तथा भिक्षितसेवयोश्च ।प्रेक्षा वितर्के धियि संप्रदिष्टाप्लीक्षा( ? )तु रक्षा किल रक्षणेऽपि ।कुक्षिर्द्वयोः स्याज्जठराह्वये चगौडादयस्तूदरमात्र आहुः ॥ ५५ ॥
6.30.55 · p. 374
उपजातिःtwo metres in one verse
श्रीभवानीशंकरो जयति ।(cont. from विश्ले in line 9427)
6.30.58 · p. 374
इन्द्रवज्राtwo metres in one verseLatin letters: contLatin letters: fromLatin letters: inLatin letters: line

त्रिषाः ।

स्याद्धेमले ना निकषः स्त्रियां तुरक्षोजनन्यां नहुषोऽहिराज्ञोः ।पापेऽन्तिमे स्यात्कलुषं परस्मिं-स्तदाविले कल्मषरोगयोस्तु ।तथापराधेऽपि च किल्बिषं स्या-त्स्पन्दे दृशोः स्यान्निमिषो निमेषः ॥ ४६ ॥
6.30.46 · p. 374
इन्द्रवज्राtwo metres in one verse
स्यात्सूक्ष्मकाले परुषं तु रूक्षेचित्रेऽन्यवन्निष्ठुरभाषके च ।स्यात्पूरुषाभः पुरुषो नरे चक्षेत्रज्ञपुंनागकवृक्षयोश्च ॥ ४७ ॥
6.30.47 · p. 374
इन्द्रवज्रा
स्यात्पौरुषं च त्रिषु पूरुषस्यभावे क्रियायां वचने च धाम्नि ।ऊर्ध्वं तथा विस्तृतबाहुपाणे-र्नरस्य मानेऽपि वदन्ति तद्वत् ॥ ४८ ॥
6.30.48 · p. 374
उपजातिः
कल्माष उक्तो रजनीचरे नाकृष्णेऽन्यवन्मेचकपाण्डुरेऽपि ।कुल्मा[84b]ष उक्तो नरि यावकेऽर्द्ध-स्विन्ने च धान्येऽप्यथ काञ्जिकेऽन्त्ये ॥ ४९ ॥
6.30.49 · p. 374
इन्द्रवज्राmetre not read in every line
उष्णीषमस्त्रीह किरीटमूर्ध-वेष्टाह्वये लक्षणभिद्यपि स्यात् ।तरीतरि(?) स्यात्त्रितये तरीषोरम्याकृतौ पुंसि तु भेलके स्यात् ॥ ५० ॥
6.30.50 · p. 374
उपजातिः
तथा पयोधेर्व्यवसायके चकरीषमस्त्रीह च गोमयाग्नौ ।स्याद्गोमये शुष्कतरेऽथ सोम-लतावशेषेऽपि ऋजीषमन्त्ये ॥ ५१ ॥
6.30.51 · p. 374
उपजातिः
स्यात्पिष्टपाकस्य च पात्रभेदेऽथो रौहिषो * * मृगान्तरे ना ।तृणान्तरेऽन्त्ये विधुरे वियोगेविश्ले ( to be followed by line 9470 )षमार्या निगदन्ति पुंसि ।प्रदोष उक्तो नरि कालभेदेदोषप्रकर्षे च तथैव दिष्टः ।अभीषुरुक्तः किरणे च रज्ज्वांप्रत्यूष उक्तश्च वसावथास्त्री ॥ ५३ ॥
6.30.53 · p. 373
उपजातिःmetre not read in every lineLatin letters: toLatin letters: beLatin letters: followedLatin letters: byLatin letters: linenearly उपजातिः
अह्नो मुखेऽथाननपूरणे स्या-द्गण्डूष उक्तो मिथुने तथैव ।हस्ताङ्गुलौ च द्विरदस्य तद्वत्बुधैः प्रदिष्टः प्रसृतोन्मिते च ॥ ५४ ॥
6.30.54 · p. 375
उपजातिः
स्यात्सप्तघस्रावधिदुग्धकेऽन्त्येपीयूषमुक्तं च तथा सुधायाम् ।पेयूषमस्त्री ह्यभिनव्यदुग्धे-ऽमृतेऽथ शैलूषमुशन्ति बिल्वे ॥ ५५ ॥
6.30.55 · p. 375
उपजातिः
नटे च पुंस्त्वेऽप्यथ मारिषः स्या-च्छाकप्रभेदे गदितस्तथार्ये ।दक्षाम्बिकायां तु स योषिति स्या-दथाविषो राजनि वारिराशौ ॥ ५६ ॥
6.30.56 · p. 375
उपजातिः
वाहद्विषि[86a]स्यान्महिषस्तथैवमहत्यसौ स्त्री नृपतेः स्त्रियां च ।स्यात्ताविषाभस्तविषः समुद्रेनाके च भेले व्यवसायकेऽपि ॥ ५७ ॥
6.30.57 · p. 375
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 4 षि (wrong syllable); pāda 2, syllable 1 म (wrong syllable)
स्वर्णे स्त्रियां स्यात्तविषी नदीभि-द्भूम्योर्बले स्यात्सुरकन्यकायाम् ।स्यात्ताविषी चन्द्रसुतार्थिका चस्यादामिषोऽस्त्री पलले च लोभे ॥ ५८ ॥
6.30.58 · p. 375
इन्द्रवज्रा
उत्कोचसंभोगमनोज्ञमूर्ति-रूपादिकेषु प्रथितः प्रवीणैः ।आकर्ष उक्तः फलके तु सारेद्यूते तथा पाशक इन्द्रिये च ॥ ५९ ॥
6.30.59 · p. 375
इन्द्रवज्रा
अभ्यासवस्तुन्यपि कार्मुकस्यवदन्ति सन्तः किल कर्षणेऽपि ।स्पर्धाप्रसङ्गप्रमदेषु पुंसिसंहर्षं उद्धर्ष इहातिहर्षे ॥ ६० ॥
6.30.60 · p. 375
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 3 र्षं (wrong syllable)
शुश्रूषा परिचर्याकथानयोः श्रोतुमिच्छायाम् ।व्यवसाये तु जिगीषा विजयेच्छायां प्रकर्षेऽपि ॥ ६१ ॥
6.30.61 · p. 376
metre not recognised
त्रिष्वध्यक्षोऽधिकृते प्रत्यक्षेऽन्त्ये च गोरक्षः ।स्यान्नागरङ्गवाची गवां तु रक्षाविधौ[ स ]योषित्तु ॥ ६२ ॥
6.30.62 · p. 376
metre not recognised
आरक्षं गजमौलेर्मर्मणि तद्वच्च रक्षणीयेऽपि ।पारापते चकोरे महि[86b]षे क्रूरे च रक्ताक्षः ॥ ६३ ॥
6.30.63 · p. 376
आर्या
तत्त्वमतिग्रन्थभिदोर्निभालने स्यात्समीक्षापि ।उत्प्रेक्षानवधाने काव्यालंकारभेदेऽपि ॥ ६४ ॥
6.30.64 · p. 376
metre not recognised
भवेन्मृगाक्षी मृगलोचनायांरात्रौ विशालौषधिभेदकेऽपि ।कपौ गवाक्षो नरि जालके चस्त्रियां भवेद्वासववारुणीगः ॥ ६५ ॥
6.30.65 · p. 376
उपजातिः

चतुःषाः ।

मत्स्येऽनिमिषो[देवे]ऽनुकर्ष उक्तोऽनुकृष्टौ च ।दारुणि रथस्य चाधःस्थितेऽनुतर्षः सुरापात्रे ॥ ६६ ॥
6.30.66 · p. 376
metre not recognised
तृष्णायामभिलाषेऽथ वातरूषस्तथोत्कोचे ।ऐन्द्रे चापे परवद्वातूलेऽथाम्बरीषोऽस्त्री ।भ्राष्ट्रे रणेऽथ पुंसि क्ष्मापतिभेदे रवौ बाले ॥ ६७ ॥
6.30.67 · p. 376
metre not recognised
नरकान्तरे तथाम्रातकेऽनुतापे च शंभौ वा ।परिघोष इहातिघोषे स्त्रियां भवेत्कर्कटशृङ्गिकायाम् ॥ ६० ॥
6.30.60 · p. 376
metre not recognised
स्यात्किंनरे किंपुरुषोऽपि लोके-ऽथालंबुषश्छर्दनरक्षसोर्ना ।गण्डीरिकास्वर्गवधूषु च स्त्रीपलंकषा गोक्षुररास्नयोश्च ॥ ७० ॥
6.30.70 · p. 376
उपजातिः
स्याद्गुग्गुलुद्रौ च पलाशलाक्षा-मुण्डीरिकासु स्त्र्यथ राक्षसे ना ।सूर्येऽम्बुधा[87a]वव्यथिषः पुमान्स्या-त्स्त्रियां रजन्यां गदितो धरण्याम् ।स्याद्वीरवृक्षः ककुभद्रुमे चभल्लातके स्यादथ राजवृक्षः ॥ ७१ ॥
6.30.71 · p. 376
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 त्स्त्रि (wrong syllable)
पियालके स्याच्चतुरङ्गुलेऽथस्याद्देववृक्षः किल सप्तपर्णे ।कल्पद्रुमे गुग्गुलुपादपेऽथशाखोटके स्यादरलूद्रुमेऽपि ॥ ७२ ॥
6.30.72 · p. 377
उपजातिः
स्याद्भूतवृक्षोऽथ हरे च तार्क्ष्येभवेद्विशालाक्ष इह स्त्रियां तु ।बराङ्गनायां धवपादपे तुकटाक्षयुक्ते सकटाक्ष उक्तः ॥ ७३ ॥
6.30.73 · p. 377
उपजातिः