त्सरु
tsaruपुं · masc.In 12 kośas: 11 synonym verses, 3 as a meaning of another word.
तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥ ७८१ ॥शरधिः कलापोऽप्यथ चन्द्रहासः करवालनिस्त्रिंशकृपाणखड्गाः ।तरवारिकौक्षेयकमण्डलाग्रा असिरृष्टिरिष्टी त्सरुरस्य मुष्टिः ॥ ७८२ ॥
metre not recognised
genderपुंmasc.
genderपुंmasc.
कोशः प्रत्याकारः खड्गपिधानं त्सरुर्भवेन्मुष्टिः ।असिपुत्रिकासिधेनुः क्षुरिका पत्त्रं च शस्त्रिका ज्ञेया ॥ ४७३ ॥
गीतिः
genderपुंmasc.
करवाल्यथ मुष्टी स्त्री द्वयोर्मुष्टिर्ग्रहस्थले ।त्सरुश्च पुंसि ग्राहोऽपि प्रत्याकारस्तु पुंसि च ॥ ३०५ ॥
अनुष्टुप्
genderपुंmasc.
श्रीगर्भ-चन्द्रभासौ शस्त्र-कृपाणौ द्वयो रिष्टिः ।वारङ्गः त्सरुरेतन्मुष्टिः स्यान्मेखलाबन्धः ॥ ३० ॥
metre not recognised
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderपुंmasc.
निस्त्रिंशमण्डलाग्रौ चासिः कौक्षेयकसंज्ञकः ।करवालश्चन्द्रहास ऋष्टिरिष्टी त्सरुः पुनः ॥ ३८७ ॥
अनुष्टुप्
genderपुंmasc.
शाता विशसनश्चेति नामानि विलसन्त्यसेः ।खड्गमुष्टिस्त्सरुः ख्यातः कोशस्तु खण्डधारकः ॥ १२८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderपुंmasc.
कटीतलोऽनुच्चखड्गो वक्रखड्गो निगद्यते ।खड्गादिशस्त्रमुष्ट्यान्तु द्वयोर्मुष्टित्सरुः पुमान् ॥
अनुष्टुप्
genderपुंmasc.
दन्तत्सरू द्वौ खड्गादेर्मुष्टौ बन्धस्तु मेखला ।हस्तिचारो जगत्त्रासहेतुः शरभसंनिभः ॥ १३४६ ॥
अनुष्टुप्
genderपुंmasc.
हुलं द्विफलपत्राग्रं मुनयोऽस्त्र्यस्य शेखरम् ।प्रत्याकारपरीवारौ कोशो मुष्टौ त्सरुः पुमान् ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
त्सरु as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप कम्बूकम्बूस्तु कुरुविन्दे स्याद् भूषणे च त्सरावपि । ककुबुष्णिग्विशेषे स्याद् भूभृतः शिखरे दिशि ॥ २२ ॥ Nānārthārṇavasaṃkṣepa 2.1.22
- शब्दरत्नावली मुष्टिम्लिष्टस्त्रिष्वपि चाव्यक्तवाचि म्लाने चिरन्तने । मुष्टिः पले बद्धपाणौ त्सरौ मानभिदि द्वयोः ॥ Śabdaratnāvalī 7.11.24
- वैजयन्ती पालिपालिरश्रिः प्रदेशोंऽकः सश्मश्रुः स्त्री त्सरुश्छदः । छन्दः संख्यावली पङ्क्तिः पक्तिर्गौरवपाकयोः ॥ २२ ॥ Vaijayantī 6.2.22