कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मुष्टि

muṣṭiपुं · masc.

In 13 kośas: 26 synonym verses, 5 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.331 · p. 26
संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तुर्मुचुट्यपि ।संग्राहश्चार्धमुष्टिः स्यात्खटकः कुब्जितः पुनः ॥ ५९७ ॥पाणिः प्रसृतः प्रसृतिस्तौ युतावञ्जलिः पुनः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सृ (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.473 · p. 54
कोशः प्रत्याकारः खड्गपिधानं त्सरुर्भवेन्मुष्टिः ।असिपुत्रिकासिधेनुः क्षुरिका पत्त्रं च शस्त्रिका ज्ञेया ॥ ४७३ ॥
गीतिः
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.523 · p. 60
मुष्कोऽण्डं वृषणः कोशः सङ्ग्राहो मुष्टिरुच्यते ।जत्रु वक्षोंऽसयोः सन्धिरूरुसन्धिश्च वङ्क्षणः ॥ ५२३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.537 · p. 61
सम्पिण्डिताङ्गुलिर्मुष्टिः प्रसृतिः कुञ्चिताङ्गुलिः ।प्रसारिताङ्गुलिः पाणिः कथ्यते प्रतलस्तलः ॥ ५३७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.178 · p. 40
कराग्रजः करशूकोनखोऽस्त्री नखरस्त्रिषु ।संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्ना मुचुटिः स्त्रियाम् ॥ १७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.305 · p. 122
करवाल्यथ मुष्टी स्त्री द्वयोर्मुष्टिर्ग्रहस्थले ।त्सरुश्च पुंसि ग्राहोऽपि प्रत्याकारस्तु पुंसि च ॥ ३०५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.519 · p. 190
अस्त्री हेम्नः सुवर्णं तच्चतुर्भिस्तैः पलं तु षण् ।द्वयोर्मुष्टिः स्त्रियां मुष्टी सृपाटं पुंसि वा स्त्रियाम् ॥ ५१९ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.125 · p. 475
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.28 · p. 154
कलिङ्गकः शक्रनामा स्यादथो मोक्ष-मुष्ककौ ।गोलीढो गोलिहो मुष्टिर्मुञ्चकः सूर्यकस्तथा ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.89 · p. 218
अर्द्धचन्द्रं कर्करेटं विदुरङ्गुलितोरणम् ।द्वौ संहतौ सिंहतलौ स्तः संहततलौ करौ ।प्रतलौ मुचुटी मुष्टिर्द्वयोः संग्राह-मुस्तुकौ ॥ ८९ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 292
सुवर्णको विस्तो[142a] हेम्नोक्षे कर्षाभ्यां शुक्तिरष्टमी ।शुक्तिद्वयं पलं मुष्टिश्चतुर्थी षोडशी वशा (?) ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
genderपुंस्त्रीm. f.
एते शब्दाः पुंसि स्त्रियां भवन्ति । अयं पाटलिः इयं पाटलिः वृक्षविशेषः । अयं गौः इयं गौः । अयं मुष्टिरियं मुष्टिः । अयमशनिरियमशनिः । अयं बाहुरियं बाहुः । अयं सिन्धुरियं सिन्धुः । अयं मणिरियं मणिः । एते शब्दाः स्त्रियां भवन्ति । इयमाशी इष्टाशं[सं]सा । इयं धूः भारः कीलश्च । इयं पूः पुरी । इयं क्षुद्बुभुक्षा । इयं तृट् पिपासा । इयं गीर्वाणी । इयं मुत् हर्षः । इयं रुट् रोषः ।
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1010 · p. 129
अगस्त्यसंज्ञवृक्षे च मण्डूके तु द्वयोस्त्रि तु ।वाचंयमेऽथ मुष्टिः स्त्रीपुंसयोः फलकादिनः ॥ १०१० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.389 · p. 150
संग्राहस्त्वस्य मुष्टिः स्याद्भिन्दिपा[82]लः सृगोऽपि सः ।प्रासकुन्तावथो दण्डो यष्टिः स्याल्लगुडोऽपि च ॥ ३८९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.114 · p. 225
genderपुंस्त्रीm. f.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.961 · p. 146
मुष्टिर्मुस्तुश्च सङ्ग्राहोऽर्द्धमुष्टिः खटकस्तु वै ।प्रसृतः प्रसृतिः पाणिः कुब्जितः कथ्यते किल ॥ ९६१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.303 · p. 102
कणिष्ठानामिकामध्यातर्जनीतलसंयुता ।तासामुपरिवृद्धा चेत् स च मुष्टिरिह द्वयोः ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.342 · p. 133
कटीतलोऽनुच्चखड्गो वक्रखड्गो निगद्यते ।खड्गादिशस्त्रमुष्ट्यान्तु द्वयोर्मुष्टित्सरुः पुमान् ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.170 · p. 149
पलं चतुष्कं स्यान्मुष्टिः… मृपाटिकेत्यपि ।हेम्नः कर्षे सुवर्णस्तु स एव विस्त इत्यपि ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1413 · p. 171
मुष्टिः स्यात् कटकं बन्धः खनित्रमवदारणम् ।व्रीहयः स्तम्बकरयः शालयः सिततण्डुलाः ॥ १४१३ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.15 · p. 279
genderपुंस्त्रीm. f.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.200 · p. 120
अड्डनं सैव वेत्राद्यैः संग्राहो मुष्टिरेषु या ।लोहाभिहार उद्योगे राज्ञां नीराजनाविधिः ॥ २०० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.79 · p. 179
पताकः कुंचितांगुष्ठे संश्लिष्टप्रसृतांगुलौ ।अक्लीबौ मुष्टिमुस्तू द्वौ संग्राहो मुचुटिः स्त्रियाम् ॥ ७९ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.51 · p. 190
ते द्वे चतुर्थिका वा क्ली निकुंच्याज्यपलानि च ।बिल्वः प्रकुंचं मुष्टिश्च हेम्नोऽक्षे विस्तवारटौ ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.63 · p. 191
माषशाणस्तलं मुष्टिरंजलिः प्रस्थ आढकः ।द्रोणो गोणी च खारी च क्रमादेतच्चतुर्गुणम् ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास टपादः Dharaṇikośa 10.1.2 · p. 35
पुष्टिः स्यात्पोषणे वृद्धौ दिष्टिरानन्दमानयोः ।मुष्टिर्बद्धकरे माने रिष्टिः समृद्धिखड्गयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ टान्ताः Koṣakalpataru 6.10.17 · p. 180
वृद्धौ तु पुष्टिः परिपोषणे चयष्टिर्द्वयोर्हारशरे च शस्त्रे ।ध्वजस्य दण्डे मधुके च भार्ङ्ग्यांमुष्टिः पले बद्धकरेऽपि युग्मे ॥ १७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1011 · p. 129
खड्गादिनश्च ग्रहणप्रदेशे पलसंज्ञके ।उन्मानभेदे सुदृढपिण्डिताङ्गुलिसंहतौ ॥ १०११ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1012 · p. 129
धानुष्कहस्तविन्यासभेदे ग्राह्ये च मुष्टिना ।द्रव्ये मूलं तु नप्यन्ये पुंस्यप्यादिसमीपयोः ॥ १०१२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश टान्ताः Śabdaratnāvalī 7.11.24 · p. 201
म्लिष्टस्त्रिष्वपि चाव्यक्तवाचि म्लाने चिरन्तने ।मुष्टिः पले बद्धपाणौ त्सरौ मानभिदि द्वयोः ॥
अनुष्टुप्

मुष्टि as a meaning in nānārtha verses