कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · शान्ताः

इति वान्तवर्गः ॥

शः शस्त्र ईश्वरेऽपि स्यान्मङ्गले तु नपुंसकम् ।शान्तौ च शयने शी स्याद्धियांशा शूर्निगद्यते ॥
7.30.1 · p. 288
अनुष्टुप्
अंशुः प्रभायां किरणे आशा तृष्णादिशोः स्त्रियाम् ।आशीर्हिताशंसवे स्त्री सर्पदत्ते विषान्तरे ॥आशुर्धान्यान्तरे पुंसि शीघ्रेऽपि च नपुंसकम् ।ईशः प्रभौ महादेवे ईशा लाङ्गलदण्डके ॥काशः कासे क्षते पुंसि वाराणस्यामपि स्त्रियाम् ।अस्त्रियां तृणभेदेऽपि कण्ठकण्डूयणेऽपि च ॥
7.30.2 · p. 288
अनुष्टुप्
कीशो दिगम्बरे सूर्ये शाखामृगविहङ्गयोः ॥
7.30.3 · p. 288
कुशा रज्वां कुशं नीरे कुशी फाले कुथेऽस्त्रियाम् ।पुमान् रायसुते द्वीपे त्रिषु पापिष्ठमत्तयोः ।केशः सुगन्धिबालायां वरुणे कुन्तले हरौ ॥
7.30.4 · p. 288
अनुष्टुप्
क्लेशो दुःखे च कोपे च व्यवसाये भवेत्पुमान् ॥
7.30.5 · p. 289
कोशः पाने जातिकोषखड्गपिधानकुट्मले ।पेश्यां दिव्येऽर्थसंघाते शब्दादिसंग्रहेऽपि च ॥
7.30.6 · p. 289
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 4, syllable 3 दि (wrong syllable)
दर्शोऽवलोकने यागभेदाभावास्ययोरपि ।दंशः कीटविशेषे स्यात्कवचे भुजगक्षते ॥दशाऽवस्था दीपवर्त्योरंशुकाग्रे तु भूम्नि च ।दृग्दृष्ट्यां दर्शने ज्ञाने स्त्रियां ज्ञातरि च त्रिषु ॥
7.30.7 · p. 289
अनुष्टुप्
नाशः पलायने पुंसि निधनानुपलम्भयोः ।निशा दारुहरिद्रायां स्त्री त्रियामाहरिद्रयोः ॥
7.30.8 · p. 289
अनुष्टुप्
पांशुर्धूलिषु शय्यासु चिरसञ्चितगोमये ।पशुर्मृगादौ प्रमथे देवे च प्राणिमात्रके ॥पशुसन्दर्शनेऽपि स्यादव्ययं पश्वेति स्मृतम् ।पशो ना बन्धने शस्त्रे छात्राद्यन्तश्च निन्दिते ॥कर्णान्तः शोभनार्थे च केशान्तः संहतार्थके ।पेशी स्त्री मांसपिण्ड्याञ्च मांसीखड्गपिधानयोः ॥अण्डभेदे नदीभेदे पिशाचीराक्षसीभिदोः ।वंशः कुले च पृष्ठांशे वर्गतेजनयोरपि ॥
7.30.9 · p. 289
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 श्वे (wrong syllable)
वशा योषासुतावन्ध्यास्त्रीगवोहस्तिनीषु च ।त्रिष्वायत्ते क्लीबमिच्छाप्रभुत्वायत्ततासु च ॥
7.30.10 · p. 289
अनुष्टुप्
वेशो गृहे च नेपथ्ये भवेद्वेश्यागृहेऽपि च ।शशः पशुविशेषे स्याद्वोले लोघे नृपान्तरे ॥
7.30.11 · p. 289
अनुष्टुप्
स्पर्शो दाने स्पर्शने च रोगस्पर्शकयोरपि ।स्पशश्चरे सम्पराये बन्धभेदे च कामिनाम् ॥
7.30.12 · p. 289
अनुष्टुप्
आदर्शः पुंसि टीकायां दर्पणे प्रतिपुस्तके ।कपिशः सिह्लके पिङ्गे माधव्यां कपिशी स्त्रियाम् ॥
7.30.13 · p. 289
अनुष्टुप्
कर्कशो निर्दये क्रूरे काम्पिल्येऽमसृणेऽपि च ।काशमर्दे साहसिके दृढे हिमकरे पुमान् ॥
7.30.14 · p. 289
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
कीनाशः शमने क्षुद्रे कर्षकोपांशुधातिनोः ।कुलिशोऽस्त्री वज्रे स्यान्मीनभेदे भवेत्पुमान् ॥
7.30.15 · p. 289
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्त्री (syllables merged)
गिरीशः पर्वतपतौ गीष्पतौ च महेश्वरे ।तुङ्गीशः शङ्करे कृष्णे सूर्ये हिमकरेऽपि च ॥
7.30.16 · p. 289
अनुष्टुप्
दुष्पर्शी धन्वयासे ना कण्टकार्यामपि स्त्रियाम् ।खरस्पर्शे तु न क्लीबं निस्त्रिंशः क्रूरखड्गयोः ॥
7.30.17 · p. 289
अनुष्टुप्
निर्वेशो वेतने भोगे मूर्च्छने च भवेत्पुमान् ।निवेशः शिबिरोद्वाहविन्यासेषु निवेशने ॥
7.30.18 · p. 290
अनुष्टुप्
निदेशः शासनोपान्तकथनेषु पुमानयम् ।पलाशन्तु दले ना तु हरित्किंशुकराक्षसे ॥
7.30.19 · p. 290
अनुष्टुप्
प्रकाशोऽतिप्रसिद्धे स्यात्प्रहासातपयोः स्फुटे ।प्रदेशी देशभेदे स्यात्तर्जन्यङ्गुष्ठसम्मिते ॥
7.30.20 · p. 290
अनुष्टुप्
पिङ्गाशी नीलिकायां स्त्री पुंसि स्याज्जात्यकाञ्चने ।पल्लीपतौ मत्स्यभेदे सर्पे च राक्षसान्तरे ॥
7.30.21 · p. 290
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
बालिशी बालके मूर्खे भूकेशः शैवले वटे ।भूकेशी वल्लजेऽपि स्याद्भुकेश राक्षसीभिदि ॥
7.30.22 · p. 290
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
लोमशी लोमयुक्ते स्यान्मेषे मुनिविशेषके ॥
7.30.23 · p. 290
लोमशा काकजङ्घायां काशीसवचयोरपि ॥
7.30.24 · p. 290
शूकशिम्पी महामेदा शाकिनीभित्स्वपि स्त्रियाम् ।विवशः स्यादवश्यात्मारिष्टदुष्टधियोस्त्रिषु ॥
7.30.25 · p. 290
अनुष्टुप्
विकाशो विजने दीप्तौ सदृशस्तुल्ययोग्ययोः ।संवेशः शयने स्त्रीणां रतबन्धेऽपि पुंस्ययम् ॥
7.30.26 · p. 290
अनुष्टुप्
सुखाशो राजतिनिशे वरुणे सुखभोजने ।हताशः पिशुने वन्ध्ये आशाहीने च निर्दये ॥
7.30.27 · p. 290
अनुष्टुप्
अपदेशो व्याजलक्ष्यनिमित्तसङ्कटेषु च ।अपभ्रंशोऽपशब्दे स्याद्भाषाभेदे च पतने ॥आश्रयाशः पुमानग्नौ त्रिषु चाश्रयनाशके ।उपस्यर्शस्त्वाचमने स्नानस्पर्शनयोरपि ॥
7.30.28 · p. 290
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त्त (wrong syllable); pāda 4, syllable 6 प (wrong syllable)
उपदंशोऽवदंशे स्याच्शिश्नरोगविशेषके ।क्रूरदृक्पिशुने मत्ते भौमे शनिग्रहेऽपि च ॥खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि ।खण्डामलकभैषज्ये राहौ भग्नरदद्विपे ॥
7.30.29 · p. 290
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
जीवितेशः प्राणनाथे यमे विधुविवस्वतोः ।नागपाशः स्त्रीकरणे दुर्बुद्धौ वरुणायुधि ॥पञ्चदशी पौर्णमास्यां अमावस्यातिथावपि ।प्रतिष्कशः पुरोगे स्याद्वार्ताहरसहाययोः ॥परिवेशः सूर्यपार्श्वमण्डले परिवेष्टने ।पादपाशी खुतुक्कायां शृङ्खलायामपि स्त्रियाम् ॥पुरोडाशो हविर्भेदे पिष्टके हुतशेषके ।भूमिस्पृक्मानुषे वैश्ये चौरभेदेऽन्धखञ्जयोः ॥
7.30.30 · p. 290
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 स्त्री (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)