कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गोपायित

gopāyitaवि · adj.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.159 · p. 56
गुप्तगोपायितत्रातावितत्राणानि रक्षिते ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.187
त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च ।
गीतिःmetre not read in every line
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.173 · p. 233
समुन्नमुत्तं त्रातं तु गुप्तं गोपायितं पुनः ।अवितं रक्षितं त्राणमथावगणितं पुनः ॥ १७३ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.373 · p. 98
विदितं बुधितं तुल्ये मनितं ज्ञातनामनि ।गुप्तं गोपायितं त्रातं रक्षितं कार्मणं त्वथ ॥ ३७३ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2724 · p. 442
गुप्तं गोपायितं त्रातं त्राणं तथाऽवितं खलु ॥ २७२४ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.75 · p. 168
सार्द्रास्तिमिता क्लिन्नतिमितोत्तसमुन्नवत् ।त्राणो गोपायितस्त्रातो गुप्तश्चारितरक्षितौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 सा (syllables merged)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.80 · p. 256
रक्षिते तु त्राणं त्रातं गुप्तं गोपायितं तथा ।वशक्रिया संवननं संवदनं, स्थितौ पुनः ॥ ८० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्रा (wrong syllable); pāda 4, syllable 3 द (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1606 · p. 193
ऊरीकृतमुररीकृतमाश्रुतमङ्गीकृतं प्रतिज्ञातम् ।रक्षितमवितं त्रातं त्राणं गोपायितं गुप्तम् ॥ १६०६ ॥
आर्या
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.100 · p. 209
आबर्हिते तूद्वृहितोन्मूलितोत्पाटितोद्धृताः ।ऊतगोपायितत्रातत्राणगुप्तास्तु रक्षिते ॥ १०० ॥
अनुष्टुप्
genderविadj.