All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · विशेष्यनिघ्नकाण्डः (2/2)
गणनीयं गणेयं च संख्यातं गणितं पुनः ।सर्वविश्वसमाशेषसमस्तनिखिलानि च ॥ १२१ ॥
1.9.121 · p. 227
अनुष्टुप्
अनूनाखण्डसम्पूर्णसमग्रसकलानि च ।निःशेषाखिलकृत्स्नानि घनं सान्द्रं निरन्तरम् ॥ १२२ ॥
1.9.122 · p. 227
अनुष्टुप्
स्याच्चोपकण्ठमभ्यर्णं सदेशाभ्यग्रके पुनः ।अभ्यासमभ्याशमपि संसक्ते त्वपदान्तरम् ॥ १२४ ॥
1.9.124 · p. 227
अनुष्टुप्
नेदिष्ठमन्तिकतमं चाव्यवहितमित्यपि ।सुदूरेप्यायतं दीर्घं वृत्ते निस्तलवर्त्तुले ॥ १२५ ॥
1.9.125 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 व्य (wrong syllable)
विषमोन्नतं स्थपुटं बन्धुरं तून्नताननम् ।उच्चे प्रांशून्नतं तुङ्गमुदग्रमपि वाच्यवत् ॥ १२६ ॥
1.9.126 · p. 228
अनुष्टुप्metre not read in every line
स्यादुच्चैरुच्चकैर्नीचैर्नीचकैर्न्यक् च नीचकः ।वामनो ह्रस्वखर्वौ चावागग्रेऽवनतानते ॥ १२७ ॥
1.9.127 · p. 228
अनुष्टुप्
प्रेङ्खोलितस्तरलितो ललितः प्रेङ्खितः पुनः ।अरालं वृजिनं जिह्ममूर्मिमन्नतमित्यपि ॥ १२८ ॥
1.9.128 · p. 228
अनुष्टुप्
स्यादावनतमाविद्धं नम्रं बन्धूरबन्धुरे ।वक्रं वेकं च कुटिलं भुग्नं वेल्लितमित्यपि ॥ १२९ ॥
1.9.129 · p. 228
अनुष्टुप्
वक्रं चाथ प्राञ्जलं स्यात्सरलं पगुणं पुनः ।अजिह्ममाकुलं दु स्याद्व्यस्ते प्रगुणमित्यपि ॥ १३० ॥
1.9.130 · p. 228
अनुष्टुप्
अनाकुलं शाश्वतस्तु ध्रुवो नित्यः सनातनः ।सदातनश्च स्थास्नुस्तु स्थेयान् स्थिरतरोऽपि च ॥ १३१ ॥
1.9.131 · p. 228
अनुष्टुप्
एकरूपतया कालव्यापी कूटस्थ उच्यते ।स्थावरं स्थावरादन्यच्चरिष्णु जङ्गमञ्चरम् ॥ १३२ ॥
1.9.132 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्णु (wrong syllable)
चराचरं त्रसं द्रङ्गं कम्प्रं चरनकम्पने ।चटुलं चपलं लोलं चञ्चलं च चलाचलम् ॥ १३३ ॥
1.9.133 · p. 228
अनुष्टुप्
चलं स्यात्तरलं चाथ पारिप्लवपरिप्लवे ।अतिरिक्तः समधिको दृढसंधिस्तु संहतः ॥ १३४ ॥
1.9.134 · p. 229
अनुष्टुप्
क्रूरं करेरं जठरं जरठं दृढनिष्ठुरे ।मूर्त्तं निवातं निःसन्धि निर्भरं प्रौढमेधितम् ॥ १३५ ॥
1.9.135 · p. 229
अनुष्टुप्
प्रवृद्धं प्रतनं प्रत्नं पुराणं च पुरातनम् ।प्राणं चिरन्तनं चापि स्त्रीपुराणा पुराण्यपि ॥ १३६ ॥
1.9.136 · p. 229
अनुष्टुप्
नवीनो नूतनो नव्यः प्रत्यग्रो नूतनो नवः ।अथ स्यात्सुकुमारं तु कोमलं मृदुलं मृदु ॥ १३७ ॥
1.9.137 · p. 229
अनुष्टुप्
क्लीबेऽव्ययं त्वनुपदं वाच्यलिङ्गमिदं त्रयम् ।अन्वगन्वक्षमनुगमनध्यक्षमतीन्द्रियम् ॥ १३८ ॥
1.9.138 · p. 229
अनुष्टुप्
प्रत्यक्षं स्यादैन्द्रियकमेकाग्रस्त्वेकतानकः ।एकायनोनन्यवृत्तिः पुंस्यादिः पूर्व आदिमः ॥ १३९ ॥
1.9.139 · p. 229
अनुष्टुप्
पौरस्त्यः प्रथमोन्तोऽस्त्री जघन्यश्चरमोन्तिमः ।पाश्चात्यः पश्चिमोऽन्त्यश्च स्फुटं स्पष्टं निरर्थकम् ॥ १४० ॥
1.9.140 · p. 229
अनुष्टुप्
प्रव्यक्तमुल्वणं मोघं मध्यसीयं दिने पुनः ।अग्र्यं स्यादग्रिमं साधारणं सामान्यमित्यपि ॥ १४१ ॥
1.9.141 · p. 229
अनुष्टुप्
सर्वैर्गुणैरविकलं वस्तु सस्यकमुच्यते ।एकाकी त्वेककश्चैकोऽथान्योन्यतर इत्यपि ॥ १४२ ॥
1.9.142 · p. 229
अनुष्टुप्
इतरस्त्वस्त्वदेकः स्यादन्यार्थेऽन्यतरत्पुनः ।द्वन्द्वभिन्नेप्यथोच्चण्डमुत्तालमविलालितम् ॥ १४३ ॥
1.9.143 · p. 230
अनुष्टुप्
निरर्गलमबाधं स्यात्प्रसव्यं प्रतिकूलकम् ।अपसव्यमपष्ठु स्यादपष्ठुलमपि क्वचित् ॥ १४४ ॥
1.9.144 · p. 230
अनुष्टुप्
अपसव्यं शरीरस्य दक्षिणं चाथ संकटम् ।संबाधः पुंसि कलिलं गहनं चापि संकुले ॥ १४५ ॥
1.9.145 · p. 230
अनुष्टुप्
संकीर्णाकीर्णके चाथ तते विसृतविस्तृते ।अन्तर्गतं विस्मृतं स्यात् प्राप्तं प्रणिहितं च तत् ॥ १४६ ॥
1.9.146 · p. 230
अनुष्टुप्
वेल्लितप्रेङ्खिताधूतविधुतानि प्रकम्पितम् ।आधुतं चाथ निष्ठ्यूतं नुत्तं नुन्नं तथास्तवत् ॥ १४७ ॥
1.9.147 · p. 230
अनुष्टुप्
ईरितः क्षिप्त आविद्धः स्यात्परीष्टं तु वेष्टितम् ।परिविष्टं परिक्षिप्तं निवृत्तं परिखादिना ॥ १४८ ॥
1.9.148 · p. 230
अनुष्टुप्
वेष्टिते मुष्टितं तु स्यान्मुषितं च बलोद्धते ।अच्छिन्नमुद्धतं तु स्यादवबर्हितमित्यपि ॥ १४९ ॥
1.9.149 · p. 230
अनुष्टुप्
उत्पाटितं प्रवृद्धे तु प्रसृतं शाततेजिते ।न्यस्तं निसृष्टं निर्दिष्टं पूजितोपचिते समे ॥ १५० ॥
1.9.150 · p. 230
अनुष्टुप्
गूढं गुप्तं गुण्ठितं च मूषितं चाप्यथ द्रुतम् ।उदीर्णं स्यादथोद्गीर्ण उद्यते काचितं पुनः ॥ १५१ ॥
1.9.151 · p. 230
अनुष्टुप्
शिक्यिते लज्जिते ह्रीतो ह्रीणो रोमाञ्चितस्त्वसौ ।हृष्टरोमाथ पष्कः स्याद्विनाशोन्मुख इत्यपि ॥ १५२ ॥
1.9.152 · p. 231
अनुष्टुप्
व्यावृत्तस्तु वृतो वृत्तः संयोजित उपाहितः ।स्यान्मारितः संगमितः संस्थितो मृत इत्यपि ॥ १५३ ॥
1.9.153 · p. 231
अनुष्टुप्
प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् ।संगूढस्तु संकलितोवगीतः ख्यातोवगर्हणः ॥ १५४ ॥
1.9.154 · p. 231
अनुष्टुप्metre not read in every line
अथापि चैवं सर्वस्तु विश्वः समसिमावपि ।इदं प्रत्यक्षनिर्देश्यमेतन्नेदिष्ठवर्त्ति तत् ॥ १५५ ॥
1.9.155 · p. 231
अनुष्टुप्
विप्रकृष्टं च तददः परोक्षे तत्त्यदित्यपि ।तदर्थप्रतियोगी यः स्वात्माहं त्वं परात्मनि ॥ १५६ ॥
1.9.156 · p. 231
अनुष्टुप्
पूज्ये भवान् किं जिज्ञास्ये कतरस्त्वन्तरे द्वयोः ।कतमो भूयसामित्थं ज्ञेया अन्यतरादयः ॥ १५७ ॥
1.9.157 · p. 231
अनुष्टुप्
प्रत्यनन्तरपार्श्वस्थानन्तरं चापदान्तरम् ।स्याद्विविधो बहुविधो नानारूपः पृथग्विधः ॥ १५८ ॥
1.9.158 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
अधरीणो धिक्कृतः स्यादवध्वस्तोवचूर्णितः ।अनायासकृतं फाण्टमबद्धोच्छृङ्खले समे ॥ १५९ ॥
1.9.159 · p. 231
अनुष्टुप्
स्यादसंबद्धमुद्दामं निष्पक्वं क्वथितं समे ।क्षीराज्यपयसां पाके श्रितं निर्वाणमित्यपि ॥ १६० ॥
1.9.160 · p. 231
अनुष्टुप्
मुनिवह्न्यादिके चाथ निर्वातो विगतानिले ।गूतं गूनं हत्तं हन्नं मूत्रिते मीढमित्यपि ॥ १६१ ॥
1.9.161 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह (wrong syllable)
पुष्टे तु पुषितं सान्त्वे क्षान्त उद्भ्रान्त उद्धते ।दान्तस्तु दमिते शान्तः शमिते प्राथितेर्दितः ॥ १६२ ॥
1.9.162 · p. 232
अनुष्टुप्
ज्ञप्तस्तु ज्ञापितेच्छन्नश्छादिते पूजितेऽर्चितः ।पूरिते भरितः पूर्णः क्लिष्टस्तु क्लेशिते पुनः ॥ १६३ ॥
1.9.163 · p. 232
अनुष्टुप्
सितस्त्ववसिते दग्धे प्रुष्टः प्लुष्टस्तथोषितः ।वेधितश्छेदितो विद्धे विन्नो वित्तो विचारितः ॥ १६४ ॥
1.9.164 · p. 232
अनुष्टुप्
निष्प्रभे विगतारोकस्तक्षुप्रक्षू तनूकृते ।सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ १६५ ॥
1.9.165 · p. 232
अनुष्टुप्
ऊतं स्यूतमुतं तद्वत्प्रोतं स्यात्रं तु संतते ।नमस्यितं नमसितं तथा स्यादपचायितम् ॥ १६६ ॥
1.9.166 · p. 232
अनुष्टुप्
अचितोपचिते चाथ वरिवस्यितमित्यपि ।वरिवसितोपचरिते स्यादुपासितमित्यपि ॥ १६७ ॥
1.9.167 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वसि (syllable split)
संतापितस्तु संतप्तो दूनो धूपायितोऽपि च ।धूपितोथ प्रमुदितः प्रह्लन्नस्तृप्त इत्यपि ॥ १६८ ॥
1.9.168 · p. 232
अनुष्टुप्
प्रोतो हृष्टश्च मत्तोथ दातं छिन्नं दितं छितम् ।वृक्तं छातं च लूनं च कृत्तमप्यथ विच्युतम् ॥ १६९ ॥
1.9.169 · p. 232
अनुष्टुप्
स्रस्तं ध्वस्तं स्कन्नभृष्टे गलितं निचिताचिते ।अपवाहितं स्थगितं पिहितान्तर्हिते समे ॥ १७० ॥
1.9.170 · p. 233
metre not recognised
लब्धमासादितं प्राप्तं भूतं विन्नं च भावितम् ।अन्वेषितं तु मृगितं मार्गितं च गवेषितम् ॥ १७१ ॥
1.9.171 · p. 233
अनुष्टुप्
असंयुक्ते त्वमिलितमन्तर्गडु निरर्थके ।सान्द्रमार्द्रं तथा क्लिन्नं तिमितं स्तिमितं समम् ॥ १७२ ॥
1.9.172 · p. 233
अनुष्टुप्
समुन्नमुत्तं त्रातं तु गुप्तं गोपायितं पुनः ।अवितं रक्षितं त्राणमथावगणितं पुनः ॥ १७३ ॥
1.9.173 · p. 233
अनुष्टुप्
अवज्ञातं चावमतं परिभूतेऽवमानितम् ।उत्सृष्टं विधुतं धूतं त्यक्तं हीनं समुज्झितम् ॥ १७४ ॥
1.9.174 · p. 233
अनुष्टुप्
अवकीर्णमधःक्षिप्ते न्यञ्चितं स्यादुदञ्चितम् ।ऊर्ध्वक्षिप्तेऽथ क्षुरितं रचितं दत्तमर्पिते ॥ १७५ ॥
1.9.175 · p. 233
अनुष्टुप्
कृष्टं स्यादर्च्चितं श्यानं शीनं चापि सितेऽन्विते ।अन्वीतं स्यादथाख्यातं जल्पितं लपितं पुनः ॥ १७६ ॥
1.9.176 · p. 233
अनुष्टुप्
भाषिताभिहिते चोक्तमुदितं चाथ बुद्धिते ।बुद्धं च मनितं चाथ विदितं प्रतिपन्नकम् ॥ १७७ ॥
1.9.177 · p. 233
अनुष्टुप्
अवगतं चाथसितमूरीकृतमुरीकृतम् ।अङ्गीकृतं प्रतिज्ञातमाश्रुतं चोररीकृतम् ॥ १७८ ॥
1.9.178 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 व (wrong syllable)
स्यात्संगीर्णं त्वविदितं संश्रुतं च समाहितम् ।उपश्रुतं चोपगतं प्रकाशे प्रकटं पुनः ॥ १७९ ॥
1.9.179 · p. 234
अनुष्टुप्
विशदं चाथ शस्तं स्यादीडितं च पणायितम् ।पनायितं च पणितं पनितं प्रणुतं पुनः ॥ १८० ॥
1.9.180 · p. 234
अनुष्टुप्
स्तुतं स्यादीडितं गीर्णं वर्णितं चाप्यभिष्टुतम् ।भक्षितं चर्वितं भुक्तमाशितं ग्रस्तखादिते ॥ १८१ ॥
1.9.181 · p. 234
अनुष्टुप्
गिलितं प्रत्यवसितं लिप्तं प्सातं तथा पुनः ।जग्धं चैवाभ्यवहृतमन्नं क्षेपिष्ठ इत्यपि ॥ १८२ ॥
1.9.182 · p. 234
अनुष्टुप्
प्रेष्ठो वरिष्ठः क्षोदिष्ठो वंहिष्ठश्च स्थविष्ठकः ।स्फेष्ठो द्राधिष्ठसाधिष्ठौ गरिष्ठोऽपि तथा पुनः ॥ १८३ ॥
1.9.183 · p. 234
अनुष्टुप्
ह्रसिष्ठश्च वसिष्ठश्च प्रकर्षार्था अमी पुनः ।पीवरोऽभीप्सितः क्षुद्रः पृथुः क्षिप्रो बहुस्तथा ॥ १८४ ॥
1.9.184 · p. 234
अनुष्टुप्
वृन्दारको वामनस्तु गुरुर्वड्रो गुरुस्तथा ।बाढश्च व्यायतश्चैतेऽतिशयार्थाः स्मृता इति ॥ १८५ ॥
1.9.185 · p. 234
अनुष्टुप्
कल्पद्रौ केशवकृते फलिते नाम सत्फलैः ।विशेष्यायत्तकाण्डोऽयमष्टमः पूर्णतामगात् ॥ १८६ ॥
1.9.186 · p. 234
अनुष्टुप्