कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

सामान्यविभागः (3/4)

* शीघ्रनामानि *

शीघ्रं क्षिप्रं द्रुतं तूर्णं त्वरितं सत्वरं लघु ।आशुमङ्क्षु तथाऽह्नायश्चपलमविलम्बितम् ॥ २६७२ ॥
7.2672 · p. 431
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 प (wrong syllable)
अञ्जसा झटिति स्राक् च सपदि द्रागरं पुनः ।अष्टादशैव नामानि शीघ्रार्थे सभवन्ति वै ॥ २६७३ ॥
7.2673 · p. 432
अनुष्टुप्

* झम्पानामानि *

झम्पा झम्पश्च सम्पातपाटवं कूर्दने भवेत् ।
7.243 · p. 432
अनुष्टुप्

* नित्यनामानि *

असक्तमनिशं नित्यं संसक्तं सततं पुनः ॥ २६७४ ॥
7.2674 · p. 432
अनुष्टुप्
अनवरतमाश्रान्तमऽविरतमऽनारतम् ।अजस्रं सन्ततं चेति नित्यनामानि सन्ति वै ॥ २६७५ ॥
7.2675 · p. 432
अनुष्टुप्metre not read in every line

* सामान्यनाम *

साधारणं प्रसिद्धं वै सामान्यमपि मन्यते ।
7.246 · p. 432
अनुष्टुप्

* संहतनाम *

नामद्वयं बुधैर्ज्ञेयं संहतं दृढसन्धि च ॥ २६७६ ॥
7.2676 · p. 432
अनुष्टुप्

* गहननाम *

कलिलं गहनं नाम दुःखैः प्रवेष्टुमर्हति ।
7.248 · p. 432
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable); pāda 4, syllable 3 र्ण (wrong syllable)

* सङ्कीर्णनामानि *

सङ्कीर्णं सङ्कुलं कीर्णमाकीर्णमाकुलं पुनः ॥ २६७७ ॥
7.2677 · p. 432
metre not recognised

* पूर्णनामानि *

पूर्णञ्च पूरितं व्याप्तं छन्नञ्च छादितं तथा ।आचितं निचितं चैव भरितं चापि कथ्यते ॥ २६७८ ॥
7.2678 · p. 433
अनुष्टुप्

* निरस्तनामानि *

अपविद्धं प्रतिक्षिप्तं प्रत्यादिष्टं निराकृतम् ।प्रत्याख्यातं निरस्तञ्च षड्नामानि हि सन्ति वै ॥ २६७९ ॥
7.2679 · p. 433
अनुष्टुप्

* परिवेष्टितनामानि *

परिष्कृतं परिक्षिप्तं परीतं परिवेष्टितम् ।निवृतं वलयितञ्च सर्वत आवृते भवेत् ॥ २६८० ॥
7.2680 · p. 433
अनुष्टुप्metre not read in every line

* व्यक्तनामानि *

त्यक्तमुज्झितमुत्सृष्टं धूतं विधूतमित्यपि ।हीनं चेत्यभिधेयानि त्यक्तस्य संभवन्ति वै ॥ २६८१ ॥
7.2681 · p. 433
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable); pāda 4, syllable 3 स्य (wrong syllable)

* विचारितनामानि *

वित्तं विचारितं विन्नं नामत्रयं निगद्यते ।
7.254 · p. 433
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्र (wrong syllable)

* अवध्वस्तनामानि *

अवकीर्णमवध्वस्तं पतिते यत्र तत्र हि ॥ २६८२ ॥
7.2682 · p. 433
अनुष्टुप्metre not read in every line

* संवृतनामानि *

संवीतं संवृतं रुद्धं स्थगितमपवारितम् ।आवृतं पिहितं छन्नमपिहितञ्च छादितम् ॥ २६८३ ॥
7.2683 · p. 434
metre not recognised
अन्तर्हितं तिरोहितं द्वादशैतानि सन्ति वै ।
7.257 · p. 434
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 हि (wrong syllable)

* अन्तर्धाननामानि *

अन्तर्द्धा च तिरोधानमन्तर्द्धिश्च पिधानमिति ॥ २६८४ ॥
7.2684 · p. 434
metre not recognised
व्यवधा व्यवधानञ्च छदनमपवारणम् ।स्थगनं चेति नामानि ह्यन्तर्धानस्य सन्ति वै ॥ २६८५ ॥
7.2685 · p. 434
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द (wrong syllable)

* प्रकाशितनामानि *

आविष्कृतं दर्शितञ्च प्रादुष्कृतं प्रकाशितम् ।प्रकटितं भवेन्नाम प्रकाशितस्य वस्तुनः ॥ २६८६ ॥
7.2686 · p. 434
metre not recognised

* अवलम्बितनामानि *

अवलम्बितमुच्चण्डमविलम्बितमित्यपि ।एतन्नामानि मन्यन्ते सालम्बनवस्तुनि ॥ २६८७ ॥
7.2687 · p. 434
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* अनादृतनामानि *

अवमतमवज्ञातं परिभूतमनादृतम् ।अवगणितं भवेन्नामावमानितमित्यपि ॥ २६८८ ॥
7.2688 · p. 434
metre not recognised

* अनादरनामानि *

अवज्ञाऽनादरो रीढा ह्यसूक्षणमसूर्क्षणम् ।अवगणनाऽवमाननं तिरस्क्रिया च नाम स्यात् ॥ २६८९ ॥
7.2689 · p. 435
अनुष्टुप्metre not read in every line
परिभवः परीभावो दश नामानि सन्ति वै ।
7.264 · p. 435
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 भ (wrong syllable); pāda 3, syllable 4 त (wrong syllable)

* उन्मूलितनामानि *

उन्मूलितमुद्धृतञ्च भवेदुत्पाटितं खलु ॥ २६९० ॥
7.2690 · p. 435
metre not recognised
आवर्हितं तुर्य्यनाम समूलोत्पाटने स्मृतम् ।
7.266 · p. 435
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ल (wrong syllable)

* कम्पितनामानि *

कम्पितं चलितं धूतमान्दोलनञ्च वेल्लितम् ॥ २६९१ ॥
7.2691 · p. 435
metre not recognised
लुलितं प्रेङ्खितं प्रेङ्खोलितं तरलितं धुतम् ।नव नामानि मन्यन्ते कम्पितस्य हि कोविदैः ॥ २६९२ ॥
7.2692 · p. 435
अनुष्टुप्

* दोलानामानि *

प्रेङ्खा प्रेङ्खोलनं दोला दोली चाऽऽन्दोलनं पुनः ।प्रयत्नेन कृतं फाण्टे अधःक्षिप्तन्तु न्यञ्चितम् ॥ २६९३ ॥
7.2693 · p. 435
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न्तु (wrong syllable)
उर्ध्वक्षिप्तमुदस्तं स्यादुदञ्चितं तदेव हि ।
7.270 · p. 435
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्चि (wrong syllable)

* क्षिप्तनामानि *

आविद्धं चोदितं ह्यस्तं निष्ठूतः क्षिप्तमीरितम् ॥ २६९४ ॥
7.2694 · p. 435
अनुष्टुप्metre not read in every line
नुन्नं नुत्तञ्च निष्ठ्यूतं नव नामानि सन्ति वै ।
7.272 · p. 436
अनुष्टुप्

* लिप्तनाम *

दिग्धं लिप्तं द्वयं नाम लेपनस्य प्रयुज्यते ॥ २६९५ ॥
7.2695 · p. 436
अनुष्टुप्

* रुग्णनाम *

रुग्णं भुग्नं द्वयं नाम वक्रे भग्ने च पीडिते ।
7.274 · p. 436
अनुष्टुप्

* रूषितनाम *

रजोलिप्ते विजानीयाद् रूषितं गण्डितं द्वयम् ॥ २६९६ ॥
7.2696 · p. 436
अनुष्टुप्

* गुप्तनाम *

गूढं गुप्तं द्वयं नाम गुप्तार्थे कथ्यते बुधैः ।
7.276 · p. 436
अनुष्टुप्

* मुषितनाम *

मुषितं मूषितं नाम चोरितार्थे प्रयुज्यते ॥ २६९७ ॥
7.2697 · p. 436
अनुष्टुप्

* गुणितनाम *

आहतं गुणितं नाम गुणितार्थे निगद्यताम् ।
7.278 · p. 436
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्ष्णु (wrong syllable)

* निशातनामानि *

निशातं निशितं शातं शीतं क्ष्णुतञ्च तेजितम् ॥ २६९८ ॥
7.2698 · p. 436
अनुष्टुप्metre not read in every line

* व्यावृत्तनामानि *

वृतो वृत्तश्च वावृत्तो व्यावृत्तोऽपि प्रयुज्यते ।
7.280 · p. 437
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्र (wrong syllable)

* लज्जितनामानि *

ह्रीणो ह्रीतो लज्जितश्च नाम त्रयं निगद्यते ॥ २६९९ ॥
7.2699 · p. 437
अनुष्टुप्metre not read in every line

* संकलितनाम *

सङ्कलितश्च संगूढो द्वयं नाम प्रसिद्ध्यति ।
7.282 · p. 437
metre not recognised

* संयोजितनामानि *

संयोजित उपाहितः संयोगितश्च ज्ञायताम् ॥ २७०० ॥
7.2700 · p. 437
metre not recognised

* परिणतनाम *

पक्वं परिणतं नाम परिणतस्य मन्यते ।क्षीराज्यहविषां पाके शृतमित्यभिधीयते ॥ २७०१ ॥
7.2701 · p. 437
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)

* क्वथितनाम *

निष्पक्वं क्वथितं ख्यातं बहुकालसुपाचिते ।
7.285 · p. 437
अनुष्टुप्

* दग्धनामानि *

दग्धः स्यादुषितः प्लुष्टः प्रुष्ट इत्यपि मन्यते ॥ २७०२ ॥
7.2702 · p. 437
अनुष्टुप्

* त्वष्टनामानि *

तनूकृतस्तथा तष्टः त्वाष्टोऽपि कथ्यते पुनः ।
7.287 · p. 438
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 4, syllable 3 पि (wrong syllable)

* छिद्रितनामानि *

छिद्रितो वेधितश्चैव विद्धोऽपि मन्यते बुधैः ॥ २७०३ ॥
7.2703 · p. 438
metre not recognised

* निष्पन्ननामानि *

निष्पन्नमथ निर्वृत्तं सिद्धं नामापि कथ्यते ।
7.289 · p. 438
अनुष्टुप्

* विलीननामानि *

विलीनो विद्रुतश्चैव द्रुतो नामापि मन्यते ॥ २७०४ ॥
7.2704 · p. 438
अनुष्टुप्

* प्रोतनाम *

उतं प्रोतं द्वयं नाम कथ्यते कोविदैः सदा ।
7.291 · p. 438
अनुष्टुप्

* स्यूतनामानि *

स्यूतमूतमुतं चैव प्रख्यातं तन्तुसन्ततम् ॥ २७०५ ॥
7.2705 · p. 438
अनुष्टुप्

* दारितनामानि *

दारितं पाटितं भिन्नमिति नामत्रयं भवेत् ।
7.293 · p. 438
अनुष्टुप्

* विदरनामानि *

विदरः स्फुटनं भिद्वै भिदा नाम चतुर्थकम् ॥ २७०६ ॥
7.2706 · p. 438
अनुष्टुप्

* स्वीकृतनामानि *

अङ्गीकृतं प्रतिज्ञातं स्वीकृतंमुररीकृतम् ।ऊरीकृतमुरीकृतं कक्षीकृतं तथाऽऽश्रुतम् ॥ २७०७ ॥
7.2707 · p. 439
अनुष्टुप्metre not read in every line
उपगतमुपश्रुतं प्रतिश्रुतञ्च संश्रुतम् ।विदितं चैव सङ्कीर्णं तथाऽभ्युपगतं खलु ॥ २७०८ ॥
7.2708 · p. 439
अनुष्टुप्metre not read in every line
पञ्चदशेति नामानि मन्यन्ते पण्डितैर्जनैः ।
7.297 · p. 439
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)

* छिन्ननामानि *

छितं छातं तथा छिन्नं छेदितं खण्डितं पुनः ॥ २७०९ ॥
7.2709 · p. 439
अनुष्टुप्metre not read in every line
कृत्तं वृक्ण दितं दातं लूनमित्यपि मन्यते ।
7.299 · p. 439
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)

* प्राप्तनामानि *

प्राप्तं लब्धं भूतविन्ने आसादितञ्च भावितम् ।प्राप्तार्थकानि नामानि कथ्यन्ते विबुधैरिह ॥ २७१० ॥
7.2710 · p. 439
अनुष्टुप्metre not read in every line

* पतितनामानि *

पतितं गलितं ध्वस्तं स्कन्नस्रस्ततथा च्युतम् ।पन्नं भ्रष्टं च नामानि कथयन्ति हि पण्डिताः ॥ २७११ ॥
7.2711 · p. 439
अनुष्टुप्

* सुनिश्चितनाम *

सुनिश्चितं संशितञ्च कृतोऽस्ति यत्र निश्चयः ।
7.302 · p. 439
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्ति (wrong syllable)

* गवेषितनामानि *

अन्वेषितं तथाऽन्विष्टं मार्गितं मृगितं पुनः ॥ २७१२ ॥
7.2712 · p. 440
अनुष्टुप्metre not read in every line
गवेषितञ्च नामानि पञ्चैव प्रथयन्ति वै ।
7.304 · p. 440
अनुष्टुप्

* आर्द्रनामानि *

आर्द्रः सार्द्रः समुत्तश्च तिमितः स्तिमितस्तथा ॥ २७१३ ॥
7.2713 · p. 440
अनुष्टुप्
उन्नः क्लिन्नः समुन्नश्च नामान्यष्टौ भवन्ति ।
7.306 · p. 440
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* प्रेषितनामानि *

प्रहितं प्रेषितं चैव ख्यातं प्रस्थापितं तथा ॥ २७१४ ॥
7.2714 · p. 440
अनुष्टुप्metre not read in every line
प्रतिशिष्टं भवेन्नाम चतुर्थं प्रेषितार्थके ।
7.308 · p. 440
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)

* प्रसिद्धनामानि *

प्रतीतः प्रथितः ख्यातः वित्तश्च विश्रुतः पुनः ॥ २७१५ ॥
7.2715 · p. 440
अनुष्टुप्metre not read in every line
विज्ञातश्चैव प्रज्ञातः प्रसिद्धोऽपि प्रसिद्धकः ।एतन्नामानि मन्यन्ते प्रथितस्य बुधैरिह ॥ २७१६ ॥
7.2716 · p. 440
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)

* सन्तापितनामानि *

सन्तापितश्च सन्तप्तं धूपायितश्च धूपितः ।दूनस्तप्तश्च नामानि सन्तप्तस्य भवन्ति वै ॥ २७१७ ॥
7.2717 · p. 440
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)

* स्त्याननाम *

शीनं स्त्यानं घृतादीनां स्थिरत्वे कथ्यते बुधैः ।
7.312 · p. 441
अनुष्टुप्metre not read in every line

* उपस्थितनामानि *

भवेदुपनत उपसन्न उपस्थितस्तथा ॥ २७१८ ॥
7.2718 · p. 441
अनुष्टुप्metre not read in every line

* निर्वातनाम *

गते वाते च निर्वातो वायुर्वहति नो यदा ।
7.314 · p. 441
अनुष्टुप्

* निर्वाणनाम *

पावकादिषु निर्वाणः प्रयोगः क्रियते बुधैः ॥ २७१९ ॥
7.2719 · p. 441
अनुष्टुप्

* प्रवृद्धनामानि *

प्रवृद्धमेधितं चैव प्रौढं नामापि कथ्यते ।
7.316 · p. 441
अनुष्टुप्

* विस्मृतनामानि *

विस्मृतं प्रस्मृतं चैव प्रोक्तमन्तर्गतं पुनः ॥ २७२० ॥
7.2720 · p. 441
अनुष्टुप्

* उद्वान्तनामानि *

उद्वातं स्यात् तथोद्वान्तमुद्गतं वमने सदा ।
7.318 · p. 441
अनुष्टुप्

* गूननाम *

गूनं हन्नं मलत्यागे कथ्यते पण्डितैर्द्वयम् ॥ २७२१ ॥
7.2721 · p. 441
अनुष्टुप्

* मूत्रितनाम *

मीढञ्च मूत्रितं नाम मूत्रितस्य हि मन्यते ।
7.320 · p. 442
अनुष्टुप्

* विदितनामानि *

बुद्धञ्च बुधितं ज्ञातं मनितं विदितं पुनः ॥ २७२२ ॥
7.2722 · p. 442
अनुष्टुप्
अवसितं प्रतिपन्नं तथाऽवगतमित्यपि ।नामान्येतानि सर्वाणि मन्यन्ते विदितस्य वै ॥ २७२३ ॥
7.2723 · p. 442
अनुष्टुप्metre not read in every line

* स्यन्ननाम *

स्यन्नं स्नुतं स्रुतं रीणं पतिते निर्झरे स्मृतम् ।
7.323 · p. 442
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)

* गुप्तनामानि *

गुप्तं गोपायितं त्रातं त्राणं तथाऽवितं खलु ॥ २७२४ ॥
7.2724 · p. 442
अनुष्टुप्metre not read in every line
रक्षितं चेति नामानि गुप्तस्य प्रथयन्ति वै ।
7.325 · p. 442
अनुष्टुप्

* कर्मनाम *

कर्म क्रिया विधा नाम त्रयमत्र निगद्यते ॥ २७२५ ॥
7.2725 · p. 442
अनुष्टुप्

* विलक्षणानाम *

हेतुशून्यं वस्तुजातमप्रतिपत्तिर्विलक्षणम् ।
7.327 · p. 442
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 प्रति (syllable split); pāda 3, syllable 7 र्म (wrong syllable)

* कार्मणनाम *

स्यान्मूलकर्म कार्मणं द्वयं कार्मणबोधकम् ॥ २७२६ ॥
7.2726 · p. 442
metre not recognised

* वशीकरणनाम *

स्याद्वशीकरणं नाम संवननं वशक्रिया ।
7.329 · p. 443
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)

* प्रतिबन्धनाम *

प्रख्यातः प्रतिबन्धश्च प्रतिष्टम्भोऽपि कथ्यते ॥ २७२७ ॥
7.2727 · p. 443
अनुष्टुप्metre not read in every line

* स्थितिनाम *

स्थितिरास्था भवेदास्या तथैवाऽसना किल ।
7.331 · p. 443
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* परस्परनाम *

परस्परं मिथोऽन्योन्यमितरेतरमित्यपि ॥ २७२८ ॥
7.2728 · p. 443
अनुष्टुप्metre not read in every line

* आवेशनाम *

आवेशस्तथाऽऽटोपः सारम्भः कथ्यते च सः ।
7.333 · p. 443
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 आ (syllables merged)

* रचनानाम *

निवेशो रचना चैव स्थितिर्नामापि मन्यते ॥ २७२९ ॥
7.2729 · p. 443
अनुष्टुप्metre not read in every line

* निर्बन्धनाम *

निर्बन्धोऽभिनिवेशश्च स्यादाग्रहक्रियाविधौ ।
7.335 · p. 443
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)

* प्रवेशनाम *

अन्तर्विगाहनं विज्ञैः प्रवेशः कथ्यते पुनः ॥ २७३० ॥
7.2730 · p. 443
अनुष्टुप्metre not read in every line

* विहारनाम *

इर्या वीङ्खा विहारश्च परिसर्पः परिक्रमः ।गतिश्चेति विहारस्य नामानि प्रथन्ति वै ॥ २७३१ ॥
7.2731 · p. 444
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* पर्यटननाम *

पर्यटनमटाट्या च व्रज्याऽटाटा भवेदटा ।अट्या नामास्ति षष्ठं तु पर्यटनस्य बोधकम् ॥ २७३२ ॥
7.2732 · p. 444
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ट (wrong syllable); pāda 4, syllable 3 ट (wrong syllable)

* चर्यानाम *

ईर्या पथस्थितिश्चर्या स्यादीर्या साधुसङ्गतौ ।
7.339 · p. 444
अनुष्टुप्

* विपरीतनाम *

व्यत्यासो व्यत्ययश्चैव विपर्यायो विपर्ययः ॥ २७३३ ॥
7.2733 · p. 444
अनुष्टुप्
विपरीतं विपर्यासो वैपरीत्यं प्रसिद्ध्यति ।सप्त नामानि मन्यन्ते विपरीतार्थबोधने ॥ २७३४ ॥
7.2734 · p. 444
अनुष्टुप्

* वृद्धिनाम *

स्फातिर्भवति वृद्धिश्च यत्र कुत्रापि वर्द्धने ।
7.342 · p. 444
अनुष्टुप्

* तर्पणनाम *

अवनं तर्पणं चैव प्रीणनञ्च निगद्यते ॥ २७३५ ॥
7.2735 · p. 444
अनुष्टुप्

* परित्राणनाम *

पर्याप्तिश्च परित्राणं तृतीयं हस्तधारणम् ।चतुर्थं नाम विज्ञेयं हस्तस्थापनमित्यपि ॥ २७३६ ॥
7.2736 · p. 445
अनुष्टुप्

* प्रणिपातनाम *

प्रणतिः प्रणिपातश्च कथ्यतेऽनुनयः पुनः ।
7.345 · p. 445
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 म (wrong syllable)

* उपशायनाम *

उपशायो विशायश्च क्रमशयनमुच्यताम् ॥ २७३७ ॥
7.2737 · p. 445
अनुष्टुप्metre not read in every line

* अनुक्रमनाम *

अनुपूर्वी च पर्यायश्चाऽनुपूर्व्यमनुक्रमः ।परिपाटिस्तथाऽऽवृत्तिः परिपाटी पुनः क्रमः ॥ २७३८ ॥
7.2738 · p. 445
अनुष्टुप्
आवृत् च नवमं नाम मन्यतेऽनुक्रमस्य वै ।
7.348 · p. 445
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्र (wrong syllable)

* अतिक्रमनाम *

उपात्ययोऽतिपातः स्यादऽतिक्रमश्च पर्ययः ॥ २७३९ ॥
7.2739 · p. 445
अनुष्टुप्metre not read in every line

* संबाधनाम *

संबाधः सङ्कटश्चैव यत्र स्थानं न लभ्यते ।
7.350 · p. 445
अनुष्टुप्

* निकामनाम *

कामं तथा निकामञ्च प्रकामञ्च यथेप्सितम् ॥ २७४० ॥
7.2740 · p. 445
अनुष्टुप्
पर्याप्तमिष्ट मप्येवं कामनाम निगद्यते ।
7.352 · p. 446
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 रम (syllable split)

* अत्यर्थनाम *

अत्यर्थमऽतिमर्यादरमतिमात्रं दृढं तथा ॥ २७४१ ॥
7.2741 · p. 446
अनुष्टुप्metre not read in every line
उत्कर्षोऽतिशयस्तीव्रं नितान्तं निर्भरो भरः ।एकान्तमतिवेलञ्च गाढं बाढं भृशं पुनः ॥ २७४२ ॥
7.2742 · p. 446
अनुष्टुप्
उद्गाढं षोडशं नाम नितान्तस्यात्र मन्यन्ते ।
7.355 · p. 446
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 न्य (wrong syllable)

* जृम्भणनाम *

जृम्भणं स्यात्तथा जृम्भा मुखं व्यादाय वर्त्तने ॥ २७४३ ॥
7.2743 · p. 446
अनुष्टुप्metre not read in every line

* आलिङ्गननाम *

आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् ।परिरम्भः परीरम्भः ख्यातः क्रोडीकृतिस्तथा ॥ २७४४ ॥
7.2744 · p. 446
अनुष्टुप्
अङ्कपालिश्चाङ्कपाली नव नामानि सन्ति वै ।
7.358 · p. 446
अनुष्टुप्

* उत्सवनाम *

मह उद्धव उद्धर्षः क्षणः स्यादुत्सवे सदा ॥ २७४५ ॥
7.2745 · p. 446
अनुष्टुप्

* सङ्गमनाम *

मेलकः सङ्गमः सङ्गस्त्रयं नामात्र वर्त्तते ।
7.360 · p. 446
अनुष्टुप्