All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
तृतीयः परिच्छेदः (4/4)
दोला प्रेङ्खा तथा प्रेङ्खोलनं फाण्टमयत्नजः ।न्यञ्चितं स्यादधःक्षिप्ते [ऊर्ध्व?]मुक्तमुदञ्चितम् ॥ ३६१ ॥
3.361 · p. 96
अनुष्टुप्
अस्तनुत्ते तथा नुन्नं तेजितं निशितं शितम् ।क्ष्णुतं शातनिशाते चोतस्यूतोतानि सीविते ॥ ३६२ ॥
3.362 · p. 97
अनुष्टुप्
जातलक्षे मतौ ह्रीतह्रीणावथ तनूकृते ।त्वष्टं तष्टं समं पक्वं स्मृतं परिणतं त्रिषु ॥ ३६३ ॥
3.363 · p. 97
अनुष्टुप्
प्लुष्टदग्धोषिताश्चैव निष्पक्वक्वथिते समे ।निष्पन्नसिद्धनिर्वृत्ता विलीनविद्रुतद्रुताः ॥ ३६४ ॥
3.364 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
दारितं पाटितं भिन्नं प्रतिज्ञातोरुरीकृते ।संश्रुताङ्गीकृते चाप्यूरीकृतं तूररीकृतम् ॥ ३६५ ॥
3.365 · p. 97
अनुष्टुप्
प्रतिश्रुताश्रुते तुल्ये संगीर्णमपि दृश्यते ।लूनं दितं छितं छिन्ने खण्डिते छेदितं पुनः ॥ ३६६ ॥
3.366 · p. 97
अनुष्टुप्
प्राप्तमासादितं लब्धं गलितं पतितं च्युतम् ।स्कन्नं पन्नं तथा स्रस्तं भ्रष्टं चान्वेषिते मतम् ॥ ३६७ ॥
3.367 · p. 97
अनुष्टुप्
गवेषितं मार्गितं चान्विष्टं मृगितमित्यपि ।क्लिन्नं स्तिमितमार्द्रं च समुन्नोन्नावपि स्मृतौ ॥ ३६८ ॥
3.368 · p. 97
अनुष्टुप्
तिमितोद्रौ प्रहिते च ------------------- ।प्रेषितं स्थापितं प्रेतः ------------------- ॥ ३६९ ॥
3.369 · p. 97
metre not recognised
प्रथिते विश्रुतः ख्यातः प्रज्ञाते वित्त इत्यपि ।तप्तधूपायितौ दूनो धूपितस्तापितः स[54]मः ॥ ३७० ॥
3.370 · p. 98
अनुष्टुप्
शीने स्त्यानं तथा प्रोक्तं निर्वातो गतमारुते ।निर्वाणः शीतवह्नौ च प्रौढवृद्धैधितान्यथ ॥ ३७१ ॥
3.371 · p. 98
अनुष्टुप्
हन्ने गूनं तथा प्रोक्तं मूत्रिते मीढमित्यपि ।ज्ञातं बुद्धं मतं चैवावगतावसिते अपि ॥ ३७२ ॥
3.372 · p. 98
अनुष्टुप्
विदितं बुधितं तुल्ये मनितं ज्ञातनामनि ।गुप्तं गोपायितं त्रातं रक्षितं कार्मणं त्वथ ॥ ३७३ ॥
3.373 · p. 98
अनुष्टुप्
मूलकर्म वशीकर्म तथा संवननं स्मृतम् ।आटोपाडम्बरे चैव संरम्भोऽपि विभाव्यते ॥ ३७४ ॥
3.374 · p. 98
अनुष्टुप्
रचनायां निवेशोऽथ गतवीर्या तु विहृतिः ।व्रज्या चर्या विहारोऽपि वीङ्खा पर्यटनं पुनः ॥ ३७५ ॥
3.375 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 वि (wrong syllable)
अटाट्या परिसर्पोऽपि तथा प्रोक्तः परिक्रमः ।व्यत्यासे च विपर्यासो व्यत्यये तु विपर्ययः ॥ ३७६ ॥
3.376 · p. 98
अनुष्टुप्
वैपरीत्यमथ स्फातिः वृद्धिः प्रीणनसंज्ञिका ।प्रणतिस्तु प्रणामोऽपि प्रणिपातस्तथोच्यते ॥ ३७७ ॥
3.377 · p. 98
अनुष्टुप्
पर्याप्तं [च?] प्रकामं च निकामं काममित्यपि ।यथेप्सितं तथेष्टं च अत्यर्थे गाढमुच्यते ॥ ३७८ ॥
3.378 · p. 99
अनुष्टुप्
भृशं बाढं तथा तीव्रं दृढोद्गाढे तथा समे ।नितान्तनिर्भरोत्कर्षातिमर्यादा भरे स्मृताः ॥ ३७९ ॥
3.379 · p. 99
अनुष्टुप्
जृम्भणं जृम्भया साकं परिष्वङ्गोऽङ्कपाल्यपि ।आलिङ्गनं च संश्लेषः परीरम्भोपगूहने ॥ ३८० ॥
3.380 · p. 99
अनुष्टुप्
उत्सवः क्षण उद्धर्षो महश्चोक्तस्तथोद्धवः ।मेलके संगमः सङ्गो निरोधो निग्रहो मतः ॥ ३८१ ॥
3.381 · p. 99
अनुष्टुप्
विघ्नो व्यवायसंज्ञोऽसौ प्रत्यूहश्चान्तरायवत् ।प्रस्तावोऽवसरो वेला वारो प्रक्रमनाम च ॥ ३८२ ॥
3.382 · p. 99
अनुष्टुप्
क्षणः समय इत्येवमुपोद्धातोऽप्युपक्रमः ।अभ्यादानमथारम्भः प्रयोगः प्रक्रमः समः ॥ ३८३ ॥
3.383 · p. 99
अनुष्टुप्
अभिक्रमस्तथारोह उत्क्रमो व्युत्क्रमः पुनः ।विरहो विप्रयोगोऽथ विप्रलम्भो वियोगकः ॥ ३८४ ॥
3.384 · p. 99
अनुष्टुप्
कान्तिर्लक्ष्मीरभिख्या श्रीर्विभूषाभा च विभ्रमः ।राढा शोभा तथा छाया सुषमातिशयोद्भवा ॥ ३८५ ॥
3.385 · p. 99
अनुष्टुप्
आकारस्त्विङ्गितं हेतुर्निमित्तं कारणं समम् ।निबन्धनं निदाने तु बीजं कार्यं तु तद्भवम् ॥ ३८६ ॥
3.386 · p. 100
अनुष्टुप्
प्रयोजनं कृत्यमर्थः सामान्यं जातिरुच्यते ।व्यक्तिर्विशेषसंज्ञा स्यात्सा पृथक्त्वनिबन्धनम् ॥ ३८७ ॥
3.387 · p. 100
अनुष्टुप्
गुणाः सत्त्वं रजश्चैव तमः सांख्यमतानुगाः ।स्पर्धा द्रोहस्तथा बन्ध्यं निष्फलं मोघमित्यपि ॥ ३८८ ॥
3.388 · p. 100
अनुष्टुप्
निरर्थकं मुधा चान्तर्गडु चाथ व्ययः क्षयः ।अर्थव्यपगमः प्रोक्तो भ्रेषो भ्रंशस्तथोचितात् ॥ ३८९ ॥
3.389 · p. 100
अनुष्टुप्
नाशोऽभावस्तथा संनिवेशः संस्थानमीक्ष्यते ।विस्रम्भोऽप्यथ विश्वासो विकारः परिणामतः ॥ ३९० ॥
3.390 · p. 100
अनुष्टुप्
भ्रमो भ्रान्तिर्भ्रमिश्चक्रावर्तो घूर्णौ तु घूर्णनम् ।ष्ठेवनं ष्ठीवनं ष्ठ्यूतं थूत्कृतं श्लेष्ममोचने ॥ ३९१ ॥
3.391 · p. 100
अनुष्टुप्
निवृत्तिर्विरतिश्चोपरमो विधुवनं पुनः ।विधूननं समं प्रोक्तं स्खलनं रिङ्खणं समे ॥ ३९२ ॥
3.392 · p. 100
अनुष्टुप्
समुच्चयोपहारौ तु समाहारोऽपि कथ्यते ।उपादानं तथा ग्राहो निष्क्रमो बुद्धिशक्तिजः ॥ ३९३ ॥
3.393 · p. 101
अनुष्टुप्