कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

घ्रात

ghrātaवि · adj.

In 5 kośas: 3 synonym verses, 4 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.155
घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे ।
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.40 · p. 26
घ्राणं घ्रातं निष्कुषितं पुनर्निष्कुषितवत् समम् ।अवकीर्णं त्ववध्वस्तमपध्वस्तं विचूर्णितम् ॥ ४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1616 · p. 194
ग्रन्थितं ग्रथितं दृब्धं घ्राणं घ्रातं धृतं भृतम् ।रोमाञ्चितं तु हृषितं विस्तृतं विसृतं ततम् ॥ १६१६ ॥
अनुष्टुप्
genderविadj.

घ्रात as a meaning in nānārtha verses

  • कोषकल्पतरु घ्राणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
  • कोषकल्पतरु आघ्रातआपात उक्तः पतने तदात्वे संकीर्तितस्तद्वदहिंसिते च । आख्यातमुक्ते त्रिषु ल्युग्मु( ? )खेऽन्त्ये घ्राते तथाघ्रातमिदं हतेऽपि ॥ ७२ ॥ Koṣakalpataru 6.16.72
  • शब्दरत्नावली घ्राणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
  • त्रिकाण्डशेष घ्राणअङ्गुष्ठानामिकोन्माने गोकर्णोऽहौ मृगेऽपि च । नासिकाघ्रातयोर्घ्राणं चूर्णं गन्धयुतावपि ॥ १२६ ॥ Trikāṇḍaśeṣa 3.3.126