कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अवकीर्ण

avakīrṇaवि · adj.

In 7 kośas: 6 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1478 · p. 56
अवकीर्णे त्ववध्वस्तं संवीतं रुद्धमावृतम् ।संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ १४७६ ॥अन्तर्हितं तिरोहितमन्तर्धिस्त्वपवारणम् ।छदनं व्यवधान्तर्धापिधानस्थगनानि च ॥ १४७७ ॥व्यवधानं तिरोधानं दर्शितं तु प्रकाशितम् ।आविष्कृतं प्रकटितमुच्चण्डं त्ववलम्बितम् ॥ १४७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 हि (wrong syllable)
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.714 · p. 82
अवकीर्णमवध्वस्तं त्यक्तमुत्सृष्टमुज्झितम् ।अनादृतमवज्ञातमपहस्तितमिष्यते ॥ ७१४ ॥
अनुष्टुप्
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.332 · p. 96
त्यक्तात्मा त्यक्तसन्धानोऽवकीर्णस्तु क्षतव्रतः ।शाखारण्डोऽन्यशाखस्तु वधानी तु स्वशाखिकः ॥ ३३२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.175 · p. 233
अवकीर्णमधःक्षिप्ते न्यञ्चितं स्यादुदञ्चितम् ।ऊर्ध्वक्षिप्तेऽथ क्षुरितं रचितं दत्तमर्पिते ॥ १७५ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.40 · p. 26
घ्राणं घ्रातं निष्कुषितं पुनर्निष्कुषितवत् समम् ।अवकीर्णं त्ववध्वस्तमपध्वस्तं विचूर्णितम् ॥ ४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2682 · p. 433
अवकीर्णमवध्वस्तं पतिते यत्र तत्र हि ॥ २६८२ ॥
अनुष्टुप्metre not read in every line
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.12 · p. 24
अवज्ञातेऽप्यवाकीर्णेऽप्यथानूचान इत्ययम् ।विनयावनते साङ्गवेदाधीतिनि च द्विजे ॥ १२ ॥
अनुष्टुप्
doubtful