कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विस्तृत

vistṛtaवि · adj.

In 10 kośas: 9 synonym verses, 10 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.147
ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम् ।
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.146 · p. 230
संकीर्णाकीर्णके चाथ तते विसृतविस्तृते ।अन्तर्गतं विस्मृतं स्यात् प्राप्तं प्रणिहितं च तत् ॥ १४६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.169 · p. 73
ऊर्ध्वाधो मत उत्क्षेपो विस्तृतो वीजने ततः ॥ १६९ ॥
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.28 · p. 25
ग्रन्थितं ग्रथितं दृब्धं गुम्फितं संदितं च तत् ।संगूढं स्यात्संकलितं विसृतं विस्तृतं ततम् ॥ २८ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.655 · p. 111
विसृत्वरो विसृमरो विस्तृतोऽपि प्रसारके ।क्षमायुक्ते तितिक्षः(क्षुः?) स्यात्क्षन्ता च क्षमिता क्षमी ॥ ६५५ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.663 · p. 112
व्याकुले त्व(तू?)परक्तः स्याद्विह(स्तो?) विसृ(स्तृ?)तोऽपि च ।विह्वले विक्लवः स्यात्तु विवशो विकलोऽपि च ॥ ६६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.doubtful
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.689 · p. 116
विस्तीर्णे विकटं व्यूढं विकरालं च विस्तृतम् ।विशङ्कटं विशालं च वद्रं स्थूलं बृहत्पृथु ॥ ६८९ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1616 · p. 194
ग्रन्थितं ग्रथितं दृब्धं घ्राणं घ्रातं धृतं भृतम् ।रोमाञ्चितं तु हृषितं विस्तृतं विसृतं ततम् ॥ १६१६ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.110 · p. 210
अवरीणो धिक्कृतः स्याद्दृब्धे ग्रथितमुद्रितौ ।संकीर्णे संकुलाकीर्णौ विस्तृते विसृतं ततम् ॥ ११० ॥
अनुष्टुप्
genderविadj.

विस्तृत as a meaning in nānārtha verses

  • धरणिकोश चिपिटविकटो वि[22]कराले स्याद्विशाले दन्तुरेऽपि च । चिपिटः खाद्यभेदे स्यात्तथा पिट्टिकविस्तृते ॥ Dharaṇikośa 10.2.14
  • कोषकल्पतरु ततततोऽनिले ना जनके च वीणा- दिकेऽन्तिमेऽथ त्रिषु विस्तृते स्यात् । व्याप्तेऽथ भावक्तयुता द्विहीना मेद्येऽन्यथा स्युः सुरते तु गुह्ये ॥ २ ॥ Koṣakalpataru 6.16.2
  • नानार्थार्णवसंक्षेप ततवीणादिवाद्ये क्ली ना तु पितरि त्रि तु विस्तृते । व्याप्ते त्रयं तु त्रितये त्रिस्त्रिवेद्यां त्रयी स्त्रियाम् ॥ ५०५ ॥ Nānārthārṇavasaṃkṣepa 2.5.505
  • नानार्थार्णवसंक्षेप चिपिटपृथुकाह्वयभक्षे स्यात् त्रि तु पिच्छितविस्तृते । चित्रकृत् तु पुमानुक्तस्तिमिशाह्वयपादपे ॥ ७४९ ॥ Nānārthārṇavasaṃkṣepa 4.749
  • नानार्थार्णवसंक्षेप प्रसृतद्विमुष्टिकेऽर्धकुडुंबमाने स्याद्वेणुपर्पटे । निकुब्जपाणौ च त्रिस्तु वेगिते विस्तृतेऽपि च ॥ ११०७ ॥ Nānārthārṇavasaṃkṣepa 4.1107
  • शब्दरत्नावली चिपिटचक्राटो धूर्तदीनारविषवैद्यखलेषु च । चिपिटो विस्तृते खाद्यभेदे ना त्रिषु पिष्टिते । चिरिन्टी स्यात्तरुण्यान्तु स्ववासिन्यामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.11.43
  • शब्दरत्नावली ततजातीफले च मालत्यां छन्दस्यश्मन्तिकासु च । ज्ञातिस्ताते सगोत्रे च पुमानप्रसवेऽपि च ॥ ततं वाद्यव्याप्तयोर्ना मारुते विस्तृते त्रिषु । तातः पितरि पूज्ये स्यादनुकम्प्ये च पुंस्ययम् ॥ तिक्तः सुगन्धरसयोः पर्पटे तु नपुंसकम् । तिक्ता च कटुरोहिण्यां वचनादौ तु वाच्यवत् ॥ Śabdaratnāvalī 7.16.14
  • शब्दरत्नावली विवृताविवृता क्षुद्ररोगे स्याद् वाच्यलिङ्गन्तु विस्तृते । विनेता देष्टृनृपयोर्विधाता कामवेधसोः ॥ Śabdaratnāvalī 7.16.137
  • शब्दरत्नावली पल्लवितनिराकृतिरनध्याये इनाकारे वारणे स्त्रियाम् । भवेत्परिगतः प्राप्तज्ञातविस्मृतवेष्टिते ॥ अथ प्रणिहितं प्राप्ते न्यस्तेऽपि च समाहिते । पल्लवितं विस्तृते स्याल्लाक्षारक्ते सपल्लवे ॥ अथ प्रतिहतं रुद्धे द्विष्टस्खलितयोस्त्रिषु ॥ Śabdaratnāvalī 7.16.166
  • त्रिकाण्डशेष ततव्याप्तविस्तृतवाद्येषु ततं तिक्तं सुगन्ध्यपि । चापे तृणत्वे तृणता तातः पित्रनुकम्पयोः ॥ १५८ ॥ Trikāṇḍaśeṣa 3.3.158