दनु
danuस्त्री · fem.In 4 kośas: 5 synonym verses.
दितिरदितिर्दनुकद्रूनिकषाविनताश्च मातरः प्रोक्ताः ।दैत्यसुरदानवोरगपिशिताशनपक्षिराजानाम् ॥ ११९ ॥
आर्या
genderस्त्रीfem.
अदितिश्च दितिश्चापि दनुः कालादनायुषा ।सिंहिका च मुनिः क्रोधा वरिष्ठा सुरभिर्वशा ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
दितिरदितिर्दनुकद्रूविनतानिकषाश्च मातरः क्रमतः ।दैतेयदेवदानवफणधरपतगेन्द्रयातुधानानाम् ॥ ९५ ॥
गीतिः
genderस्त्रीfem.
दित्यदिती दनुकद्रू विनताताम्राक्षराजरारिष्टाः ।सुरभिः क्रोधवशामुनिसुरसाः स्युः कश्यपगृहिण्यः ॥ २०३ ॥
आर्या
genderस्त्रीfem.
कव्यवालादयस्ते च दैत्यास्तु प्रघसाः खराः ।क्रतुद्विषश्चेष्टिमुषो दैत्यमाता दितिर्दनुः ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.