सुरसा
surasāस्त्री · fem.In 13 kośas: 26 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.
नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली ॥ ११४ ॥नकुलेष्टा भुजङ्गाक्षी छत्राकी सुवहा च सा ।
अनुष्टुप्
genderस्त्रीfem.
ताम्बूलवल्ली सुरसा गजवल्लीति कथ्यते ।उर्वाका वर्षभीरुः स्यात्कूष्माण्डे नृपनन्दना ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुरेज्या सुरसा श्यामा कायस्था सुरदुन्दुभिः ।बहुनो मञ्जरी पत्रा भूतघ्नी स्थूलपत्र्यपि ॥ २८७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुगन्धा माधवी चाथ सुपुष्पा सुरसाऽपि च ।सुरसा तालपर्णी च निःश्रेया वनजाऽपि सा ॥ ४५० ॥
अनुष्टुप्
genderस्त्रीfem.
वृष्या दिव्या द्वीपिशत्रुर्द्वीपिका वरकण्टकी ।नारायणी सूक्ष्मपत्रा शतह्वा सुरसापि च ॥ ४९८ ॥
अनुष्टुप्
genderस्त्रीfem.
संजीविन्यथ मत्स्याक्षी सौम्या ब्राह्मी सुवर्चला ।महौषधी सुरश्रेष्ठा सुरेष्टा सुरसा पुनः ॥ ५५४ ॥
अनुष्टुप्
genderस्त्रीfem.
देवस्मृतिश्च पार्णाशा पीता चर्मण्वती कषूः ।कुन्त्यवन्ती वेणुमती विदर्भा सुरसा कुहूः ॥ ४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
genderस्त्रीfem.
सुव्रता च सुबाहुश्च सुबोधा सुवपुस्तथा ।पुण्डरीकानुदारा च सुदारा सुरसा तथा ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
नाकुली नकुलेष्टा स्यात्सुरसा सर्पगन्धिका ।सहदेवी महावीर्या सर्पाक्षी गन्धनाकुली ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
ऐन्द्रिरा[56a]छिक्कपत्रा चाप्यथ स्यात्तुलसी सिता ।सुरसा सुलभा ग्राम्या भूतघ्नी भूरिमञ्जरी ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
चक्रपर्णी शक्रपत्नी सुरसा हरिकामिनी ।कर्पूरतुलसी त्वन्या भूतेष्टा भूतनायका ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
शेफालिकायां सुवहा निर्गुण्डी नीलिका च सा ।सुरसा रक्तवृन्ता च श्वित्रघ्नी पुष्पवर्षिणी ॥ १८६ ॥
अनुष्टुप्
genderस्त्रीfem.
काकतालः कृष्णमल्ली मालुकः कृष्णमालुकः ।तुलस्यां सुरसाऽऽपीता राक्षसी बहुमञ्जरी ॥ २२३ ॥
अनुष्टुप्
genderस्त्रीfem.
भूतघ्नी राक्षसी गौरी सुरसा देवदुन्दुभिः ।वाकुची सोमवल्ली तु मदनः करघाटकः ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
तत्प्रासादो वैजयन्तो भास्वरं कामदं शिवम् ।तत्सभा सुरसा धर्मा सुधर्मा नाटकी झरा ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
मलापहारिणी माया पयोष्णा [च] कुमुद्वती ।शिप्रा प्रणीता सुरसा कौशिकी ताम्रपर्णिका ॥ ७७ ॥
अनुष्टुप्
genderस्त्रीfem.
निर्विन्ध्या वञ्जुला दैन्या---------- ।पिनाकिनी ब्रह्मनदी गोमती सुरसा नदी ॥ ७८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
तथेन्द्रसुरसस्त्विन्द्रसुरसः सिन्धुवारितः ।निर्गुण्डीन्द्रानिकेन्द्राणी सुरसा सिन्धुवारकः ॥
अनुष्टुप्
genderस्त्रीfem.
रास्ना सुगन्धा सुरसा च्छत्राकी गन्धनाकुली ।भुजङ्गाक्षी च सुवहा नकुलेष्टा च नाकुली ॥
अनुष्टुप्
genderस्त्रीfem.
दित्यदिती दनुकद्रू विनताताम्राक्षराजरारिष्टाः ।सुरभिः क्रोधवशामुनिसुरसाः स्युः कश्यपगृहिण्यः ॥ २०३ ॥
आर्या
genderस्त्रीfem.
सुरसा राजजम्ब्वां तु सुलभः सुरभिच्छदः ।काकजम्ब्वां तु मेघाभः शिवेष्टः शतपल्लवः ॥ ५१० ॥
अनुष्टुप्
genderस्त्रीfem.
पशुगन्धा बस्तगन्धा शृङ्गी परमसूरिका ।सुरसा नाकुली रास्ना छत्राकी गन्धनाकुली ॥ ५६९ ॥
अनुष्टुप्
genderस्त्रीfem.
अस्मिन् सुगन्धे स्याच्छ्वेतसुरसा सुरसापि च ।मण्डूकपर्णिका भण्डी भण्डीरी चाथ पालकम् ॥ ६११ ॥
अनुष्टुप्
genderस्त्रीfem.
शारद्वती पुण्डरीका सुरसा सुनृताऽपि च ।सुवाता कामला हंसपादी च सुमुखीति च ॥
अनुष्टुप्
genderस्त्रीfem.
सुरसाथो राजजंब्वां सुफलः सुरभिच्छदः ।काकजंब्वां तु मेघाभः शिवेष्टः शीतपल्लवः ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
क्रिमिघ्नस्तण्डुलो वेल्लममोघा चित्रतण्डुला ।विडंगोऽस्त्री सुगन्धा तु सुरसा गन्धनाकुला ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
विकासः स्फुटने व्यक्ते मानसं हृदयं सरः ।राक्षसी गन्धद्रव्येऽपि सुरसा चौषधावपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्ध (wrong syllable)
meaningsओषधि
नीवृद्भेदे तु पुंभूम्नि सुराष्ट्राः पश्चिमोदधेः ।समीपे सुरसा तु स्त्री महाजम्बूसमाख्यके ॥ १९८३ ॥
अनुष्टुप्
meaningsमहाजम्बू
सुरसा as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप रजःपूतासुरस्यां पूर्ववत् सादि रक्तदृष्टिः पुनर्द्वयोः । पारावते समासादि पूर्ववन्नृनपोः पुनः ॥ ५२३ ॥ Nānārthārṇavasaṃkṣepa 6.523