All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
प्रथमः काण्डः · ऋष्यध्यायः
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे ग्रहाध्यायस्तृतीयः ।
ऋष्यध्यायः
सप्तर्षयो मरीच्याद्यास्ते तु चित्रशिखण्डिनः ।अगस्त्यः कुम्भजोऽगास्तिर्मैत्रावरुणिरस्य तु ॥ २०१ ॥
1.5.201 · p. 27
अनुष्टुप्
लोपामुद्रा वधूर्देवमुनयो नारदादयः ।स्याद्गौतमो दीर्घतपा अहल्या तत्सधर्मिणी ॥ २०२ ॥
1.5.202 · p. 27
अनुष्टुप्
दित्यदिती दनुकद्रू विनताताम्राक्षराजरारिष्टाः ।सुरभिः क्रोधवशामुनिसुरसाः स्युः कश्यपगृहिण्यः ॥ २०३ ॥
1.5.203 · p. 27
आर्या
भृग्वङ्गिरोऽत्रिजमदग्निवसिष्ठवत्स-वत्सारकाश्यपबृहस्पतिकण्वगर्गाः ।और्वाजगृत्समदगौतमवीतिहव्य-वाधूलकुण्डिनपराशरदेवराताः ॥ २०४ ॥
1.5.204 · p. 27
वसन्ततिलका
अक्षीलशण्डिलधनंजयवामदेव-कुत्सर्ष्टिषेणकुशिकच्यवनाप्नवानाः ।शक्त्यष्टकौ हरितमुद्गलपूतिमाष-शालावता अतिथिदेवलसोमवाहाः ॥ २०५ ॥
1.5.205 · p. 27
वसन्ततिलका
पुरुकुत्सयज्ञवल्कौ विश्वामित्राघमर्षणोचत्थ्याः ।सालङ्कायनसंकृतिशठमर्षणागस्तितण्डिबृहदुक्थाः ॥ २०६ ॥
1.5.206 · p. 28
गीतिःmetre not read in every line
शैवगवबादरायणवभ्रुभरद्वाजमन्त्रणानूपाः ।शुङ्गशुनकौ सवेदा इत्याद्या गोत्रहेतवो मुनयः ॥ २०७ ॥
1.5.207 · p. 28
गीतिः
अन्येऽजीगर्तदुर्वासःकपिलश्वेतकेतवः ।पैङ्गैतरेयमाण्डव्यकौषीतककलापिनः ॥ २०८ ॥
1.5.208 · p. 28
अनुष्टुप्
शङ्खमेखलसौजामिभर्गबाहविबाष्कलाः ।चण्डभार्गवसंवर्तपुण्डरीकविभण्डकाः ॥ २०९ ॥
1.5.209 · p. 28
अनुष्टुप्
ऋश्यशृङ्गशुनःशेफमार्काण्डेयमृकण्डवः ।महाकौषीतकोद्दालकण्डुरोमशदत्तिलाः ॥ २१० ॥
1.5.210 · p. 28
अनुष्टुप्
महापैङ्गरुरुव्यालिकहोलकमठांशवः ।दाल्भ्यः सत्यतपाः पैलो जाबालिश्च सनातनः ॥ २११ ॥
1.5.211 · p. 28
अनुष्टुप्