कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सिंहिका

siṃhikāस्त्री · fem.

In 9 kośas: 8 synonym verses, 4 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.454 · p. 299
महती सिंहिकाऽक्रान्ता सुण्डाकी राष्ट्रिका कुली ।कण्टाली कट्फला कण्टतनुः कण्टालुरित्यपि ॥ ४५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.11 · p. 440
अदितिश्च दितिश्चापि दनुः कालादनायुषा ।सिंहिका च मुनिः क्रोधा वरिष्ठा सुरभिर्वशा ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.27 · p. 161
वाशको मातृका वाशा सिंहिका सिंहपर्ण्यपि ।शीतवल्ली भिषङ्मा[42a]ता वृषः स्त्रीपुंसयोरपि ॥ २७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.160 · p. 87
भिषग्माता सिंहमुखः सिंहिका सिंहपर्णका ।तुम्बरौ सानुजः सौरः सारसो वनजोऽग्निकः ॥ १६० ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.194 · p. 14
बृहती सिंहिका व्याघ्री वार्त्ताकी क्षुद्रकण्टिका ।महाबला रङ्गपत्री नीली व्यञ्जनकेशिनी ॥ १९४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.190 · p. 72
वैद्यसिंही मातृसिंही सिंहिकाटरुषोऽपि च ।विष्णुक्रान्ता तथा स्फोता गिरिकर्ण्यपराजिता ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1235 · p. 151
स्विद्यत्पाणिपदा वर्षकारी कुब्जा तु कारिका ।कारीकन्या प्रसूजाता नतजानुस्तु सिंहिका ॥ १२३५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.47 · p. 86
विस्तीर्णजानुर्विकटा नतजानुस्तु सिंहिका ।दूषिका क्रोधविवशा पृषता श्वेतबिन्दुका ॥ ४७ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.104 · p. 10
सिकतावति देशे च तथैव ब्रुवते परे ।सिंहिका तु जनन्यां स्याद् राहो किञ्च महार्णवम् ॥ १०४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.105 · p. 10
लङ्घयन्तं हनूमन्तं याप्यगच्छज्जिघांसया ।तस्यामपि च राक्षस्यां कन्याभेदेऽस्य लक्षणम् ॥ १०५ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.106 · p. 10
अविवाह्यासु कन्यासु नतजातुरिति स्मृतम् ।एतत् त्वदृष्टपूर्वं च द्वेष्यं च रभसोदितम् ॥ १०६ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.53 · p. 6
सर्जिका स्वर्जिका क्षारे सर्जकोऽसनशालयोः ।अजकर्णे सिंहिका तु चन्द्रपुष्पाटरूषयोः ॥ ५३ ॥
अनुष्टुप्