कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दुग्धफेन

dugdhaphenaपुं · masc.

In 2 kośas: 1 synonym verse, 3 as a meaning of another word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 283
शार्क्वको दुग्धतालीयं दुग्धफेनश्च सम्मतः ।शृतं पक्वे घृतक्षीरे शीनं तु स्त्यानमित्यपि ॥उष्णीकृतं विलीनं स्याद्धृतं स्त्यानादयोऽन्यवत् ।गोरसो दधिदुग्धोत्थं द्रप्सं स्यात्प[134b]त्तलं दधि ॥अजातं दधि मन्दं स्यान्मस्त्वन्त्ये दधिमण्डकः ।दध्युत्तरो दधिसरो दध्यग्र्यः कट्वरोऽपि सः ॥दधिस्नेहो घृतं त्वस्त्री हविः सर्पिर्हविष्यवत् ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.

दुग्धफेन as a meaning in nānārtha verses

  • कोषकल्पतरु शार्ककपिण्डे तु शर्करायाः शार्कक उक्तः स दुग्धफेनेऽपि । [251a]केकिनि लासक आद्ये भेद्याधीनस्तु नर्तके लसके ॥ ५१ ॥ Koṣakalpataru 6.1.51
  • कोषकल्पतरु प्रान्तरहिंस्रे वाच्यसमोऽन्तिमे तु विपिने स्याद्दूरशून्येऽध्वनि क्लीबे प्रान्तरमत्र कोटरगतं दुग्धस्य फेने तु ना । देशे शर्करयान्विते तु परवत्प्रोक्तो बुधैः शार्करो- ऽथोक्ष्णि स्यान्नरि शाक्वरो निगदितं छन्दोविशेषेऽन्तिमे ॥ ३७ ॥ Koṣakalpataru 6.27.37
  • शब्दरत्नावली शार्करशार्करो दुग्धफेणे स्याच्छर्करान्वितदेशके । शाक्करस्तु बलीवर्दे च्छन्दोभेदे भवेत्पुमान् ॥ Śabdaratnāvalī 7.27.103