कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शृत

śṛtaवि · adj.

In 8 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1485 · p. 56
पक्वे परिणतं पाके क्षीराज्यहविषां शृतम् ॥ १४८५ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.95
निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम् ॥ ९५ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.276 · p. 33
शीनं स्त्यानं शृतं पक्वं विलीनं द्रुतमुच्यते ।मन्था मन्थश्च मन्थानो वैशाखः खजकस्तथा ॥ २७६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 283
शार्क्वको दुग्धतालीयं दुग्धफेनश्च सम्मतः ।शृतं पक्वे घृतक्षीरे शीनं तु स्त्यानमित्यपि ॥उष्णीकृतं विलीनं स्याद्धृतं स्त्यानादयोऽन्यवत् ।गोरसो दधिदुग्धोत्थं द्रप्सं स्यात्प[134b]त्तलं दधि ॥अजातं दधि मन्दं स्यान्मस्त्वन्त्ये दधिमण्डकः ।दध्युत्तरो दधिसरो दध्यग्र्यः कट्वरोऽपि सः ॥दधिस्नेहो घृतं त्वस्त्री हविः सर्पिर्हविष्यवत् ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.95 · p. 315
शृतः क्वाथः पादशेषोऽथानायासकृतो हि यः ।फाण्टोऽभिषुत*[पू]तो स्त्री गुटी तु वटिका द्वयोः ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.96 · p. 315
रसः कल्कः शृतः शीतः फाण्टश्चेति कषायकाः ॥ ९६ ॥
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.35 · p. 26
रुग्णं भुग्नं च वङ्क्यं च पक्वं नाशोन्मुखं समे ।निष्पक्वं क्वथितं पाके क्षीराज्यहविषी शृतम् ॥ ३५ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2701 · p. 437
पक्वं परिणतं नाम परिणतस्य मन्यते ।क्षीराज्यहविषां पाके शृतमित्यभिधीयते ॥ २७०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.62 · p. 167
निष्पक्वं क्वथितञ्चैव निःशेषपाकसंयुते ।क्षीराज्यपयसां पाके शृतमेव निगद्यते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1450 · p. 175
स स्याल्लवणखण्डोऽथ निष्पक्वक्वथिते समे ।शृतमांसे पिचण्डस्तु निष्कृत्तावयवः पशोः ॥ १४५० ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1689 · p. 203
प्रत्याख्यातो निरस्तः स्यान्निर्वातो वातवर्जिते ।पाके क्वथितनिष्पक्वे स्याद्दुग्धहविषोः शृतम् ॥ १६८९ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.95 · p. 166
सार्पिष्कदाधिकाद्यं स्यात् सर्पिर्दध्यादिसंस्कृते ।शीनं स्त्यानं शृतं पक्वं विलीनं विद्रुतं द्रुतम् ॥ ९५ ॥
अनुष्टुप्
genderविadj.