कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गोरस

gorasaपुं · masc.

In 13 kośas: 20 synonym verses, 1 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.404 · p. 20
गुड इक्षुरसक्वाथः शर्करा तु सितोपला ॥ ४०२ ॥सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः ।मत्स्यण्डी फाणितं चापि रसालायां तु भार्जिता ॥ ४०३ ॥शिखरिण्यथ यूर्यूषो रसो दुग्धं तु सोमजम् ।गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ४०४ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.406 · p. 20
पायसं परमान्नं च क्षैरेयी क्षीरजं दधि ।गोरसश्च तदघनं द्रप्सं पत्त्रलमित्यपि ॥ ४०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.94
दण्डाहतं कालशेयमरिष्टमपि गोरसः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.235 · p. 158
मार्जिता सा रसाला स्याच्छिखरिण्यथ गोरसः ।सरसं निर्जलं घोलं मथितं रसवर्जितम् ॥ २३५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.17 · p. 283
स्तन्यं पुंसवनं दुग्धं गोरसोऽभिनवं तु तत् ।पेयुषोऽस्त्री स सप्ताहान्मोरणो मोलिकश्च सः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 283
शार्क्वको दुग्धतालीयं दुग्धफेनश्च सम्मतः ।शृतं पक्वे घृतक्षीरे शीनं तु स्त्यानमित्यपि ॥उष्णीकृतं विलीनं स्याद्धृतं स्त्यानादयोऽन्यवत् ।गोरसो दधिदुग्धोत्थं द्रप्सं स्यात्प[134b]त्तलं दधि ॥अजातं दधि मन्दं स्यान्मस्त्वन्त्ये दधिमण्डकः ।दध्युत्तरो दधिसरो दध्यग्र्यः कट्वरोऽपि सः ॥दधिस्नेहो घृतं त्वस्त्री हविः सर्पिर्हविष्यवत् ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 283
दधिसारः शरोत्थं चाथार्घाम्बूदश्विदन्तिमे ।निर्जलं मथितं घोलो गोरसोऽरिष्टमित्यपि ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.229 · p. 37
बोलं तराग्रं मोरट्टं गोरसं तक्रमित्यपि ।शूद्रो जघन्यजोऽप्यन्त्यवर्णः संकरसंभवः ॥ २२९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.73 · p. 110
ऊधस्यं गोरसः स्तन्यं पेयूषं तन्नवं मतम् ।पयस्यं घृतदध्यादि विकारौ पयसो यथा ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.75 · p. 110
हविष्यं हविराघारमाज्यं क्षीरोद्भवं दधि ।गोरसोऽथाघने तत्र क्लीवे द्वे द्रप्सपत्रले ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.77 · p. 111
रसायनं गोरसश्चोदश्वित्तक्रे समोदकम् ।श्वेतं पादजलं चैवार्धनीरं तद्भिदा यथा ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.50 · p. 39
गोकुलं तु व्रजो घोषो गोष्ठं गोपास्तु बल्लवाः ।दुग्धं पयोऽमृतं क्षीरं गोरसः क्षीरजं दधि ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.603 · p. 78
दुग्धं च गोरसः क्षीरं पुसवनं च सोमजम् ॥ ६०३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.607 · p. 79
क्षीरजं गोरसश्चैव मङ्गल्यं श्रीघनं दधि ॥ ६०७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.610 · p. 79
अरिष्टं गोरसो घोलं कालशेयं रसायनम् ॥ ६१० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.112 · p. 145
घोलं दण्डाहतारिष्टकालशेषानि गोरसम् ।तक्रं पादाम्बुनिर्दिष्टमुदश्विदर्धनीरकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्वि (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.48 · p. 192
मर्जिता, मुद्गादिरसे यूर्यूषस्त्रिषु जुषयुक् ।दुग्धे गव्यं गोरसश्च रसोत्तमरसे समे ॥ ४८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्गा (syllables merged)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.50 · p. 192
द्रप्स-द्रप्स्ये दध्न्यघने, हविष्य-हविषी घृते ।रसायन-गोरसौ द्वौ घोले, तक्रे त्वरिष्टयुक् ॥ ५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.139 · p. 134
दधि विप्रप्रियं हृद्यं क्षीरजं श्रीघनं गुरु ।स्थूलं श्वेतं च मंगल्यं कट्वारः शण्डगोरसौ ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.149 · p. 135
मोरटं गोरसश्चाथ घोलः पादांबुसंयुते ।तक्रं कट्वरमर्शोघ्नं श्वेतच्छाणञ्च सारणम् ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.83 · p. 18
गवामधिकृते चाथ गोसर्जः सर्जने गवाम् ।प्रभाते गोरसन्तु स्यात् कालशेये च दध्नि च ॥ ८३ ॥
अनुष्टुप्

गोरस as a meaning in nānārtha verses