सर्पिस्
sarpisक्ली · neut.In 19 kośas: 18 synonym verses, 3 as a nānārtha head word, 11 as a meaning of another word.
genderक्लीneut.
genderक्लीneut.
तक्रमरिष्टमुदश्विद्दण्डाहतकालशेयमथितानि ।द्रप्सं दध्यघनं स्यात्सर्पिर्घृतमाज्यमाघारः ॥ २७५ ॥
आर्या
genderक्लीneut.
सर्पिरायुस्तैजसं स्यात् म्रक्षणं स्नेहनं पुनः ।अमृताह्वं जीवनीयं पवित्रं नवनीतजम् ॥ २२५ ॥
अनुष्टुप्
genderक्लीneut.
शार्क्वको दुग्धतालीयं दुग्धफेनश्च सम्मतः ।शृतं पक्वे घृतक्षीरे शीनं तु स्त्यानमित्यपि ॥उष्णीकृतं विलीनं स्याद्धृतं स्त्यानादयोऽन्यवत् ।गोरसो दधिदुग्धोत्थं द्रप्सं स्यात्प[134b]त्तलं दधि ॥अजातं दधि मन्दं स्यान्मस्त्वन्त्ये दधिमण्डकः ।दध्युत्तरो दधिसरो दध्यग्र्यः कट्वरोऽपि सः ॥दधिस्नेहो घृतं त्वस्त्री हविः सर्पिर्हविष्यवत् ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderक्लीneut.
स्नेहो तिलानां तैलं स्यादन्येषां नामपूर्वकम् ।घृतमाज्यं हविः सर्पिः कौम्भं त्वाज्यं दशाब्दकम् ॥ २२५ ॥
अनुष्टुप्
genderक्लीneut.
सक्तोऽक्षद्यूतपानेषु विचित्रा शब्दपद्धतिः ।सर्पिर्हैयङ्गवीनाज्यं दुग्धं क्षीराऽमृतं पयः ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
कूर्चिका च किलाटी च परमान्नं तु पायसम् ।क्षैरेयी घृतनामानि तुल्ये द्वे घृतसर्पिषी ॥ ७४ ॥
अनुष्टुप्
genderक्लीneut.
घृते तु द्रव्यसं सर्पिः स्यातं स्यात्सेचनं हविः ।हैयङ्गवीनं पूर्वेद्युर्दुग्धगोघृतमात्रके ॥ ४७७ ॥
अनुष्टुप्
genderक्लीneut.
घृतमाज्यं हविः सर्पिः नवनीतं तु म्रक्षणम् ।उदश्विन्मथितं तक्रमारनालं तु काञ्जिकम् ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
genderक्लीneut.
घृतमाज्यं हविः सर्पिः तथाऽऽधारो हविष्यकम् ॥ ६०८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैरमी ।समुद्राः सप्त विख्याताः सप्तद्वीपसमावृताः ॥
अनुष्टुप्
genderक्लीneut.
घृतं हविः सर्पिराज्यं नवनीतं नवोद्धृतम् ।ह्यो गोदोहोद्भवं घृतं हैयङ्गवीनमुच्यते ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
genderपुंmasc.
दुग्धं तु क्षीरमूधस्यं पयः स्तन्यं नवं तु तत् ।पीयूषोऽथ हविः सर्पिर्घृतमाज्यं समार्थकम् ॥ ७६९ ॥
अनुष्टुप्
genderक्लीneut.
द्वीपाः सप्ताथ सप्तैव समुद्रा अपि कीर्तिताः ।लवणेक्षुसुरासर्पदधिदुग्धपयोमयाः ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
घृतमाज्यं हविः सर्पिः कौंभं त्वाज्यं दशाब्दिकम् ।हैयंगवीनं पीथं च नवनीतं च तक्रजम् ॥ १३८ ॥
अनुष्टुप्
genderक्लीneut.
ऊरौ च शकटाङ्गे च कस्मिंश्चिदथ सद्मवाक् ।गृहे जले च रोदस्योः सद्मनी इत्यथो जले ॥ ७० ॥
अनुष्टुप्
meanings
doubtful
आज्ये च सर्पिः स्नानं तु स्नानीयाप्लवयोरथ ।साम प्रगीतमन्त्रेषु सान्त्वसामप्रभेदयोः ॥ ७१ ॥
अनुष्टुप्
meaningsआज्य
सर्पिस् as a meaning in nānārtha verses
- धरणिकोश हविस्वसुरश्वेऽश्चमेधाख्ये उषः सन्ध्याप्रभातयोः । हविः सर्पिषि होतव्ये वपुर्भव्याकृतौ तनौ ॥ Dharaṇikośa 31.1.5
- कोषकल्पतरु तोयदस्वरे निषादः श्वपचे प्रसाद- स्त्वनुग्रहे काव्यगुणे प्रसत्तौ । स्वाच्छ्ये नवे च प्रतिभेऽप्यधृष्टे पीते तु मुद्गे नरि शारदः स्यात् । स्त्री सप्तप[5b]र्णेऽम्बुकणागतश्च स्याद्दारदः पारदहिङ्गुलार्थः । विषेऽप्यथो सर्पिषि तोयदं स्या- न्ना मुस्तके वारिधरेऽपि तद्वत् ॥ ३४ ॥ Koṣakalpataru 6.19.34
- कोषकल्पतरु होमिकृष्यन्विते रासभवाचक[32b]श्च कामिस्तु खन्यां त्रिषु कामुके सा । होमिः पुमान्पावकसर्पिषोः स्यात् लक्ष्मीः स्त्रियां संपदि [वि]ष्णुनार्याम् ॥ ७४ ॥ Koṣakalpataru 6.25.74
- नानार्थार्णवसंक्षेप सृप्रभवेत् सर्पिषि तैले वा ना तु चन्द्रे स्त्रियां पुनः । सृपा ह्युज्जयिनीपार्श्ववाहिन्यां सरिति स्मृता ॥ १५४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1549
- नानार्थार्णवसंक्षेप दधिपाय्यअनिले चन्द्र इत्यन्ये दधिपाय्यस्तु सर्षिषि । पृषत्य?ति केषाञ्चिन्मतमेतन्न तच्छुभम् ॥ ६२ ॥ Nānārthārṇavasaṃkṣepa 6.62
- शिवकोष यज्ञाङ्गयवे सक्तुफलायां च बालपत्रेऽपि सर्पिषि । रक्ताङ्गो रञ्जने चित्रे रक्ताङ्गा विद्रुमेऽसृजि ॥ ९५ ॥ Śivakoṣa 3.2.95
- शिवकोष अमृतअमृतं त्वक्षदुग्धाम्बुसुधाकाकोलसर्पिषि ॥ १८७ ॥ Śivakoṣa 12.2.187
- शिवकोष रसायनवररसायनवरा धात्रीजीवन्तीत्रिफलासु च । पुनर्नवाकाकमाच्योः क्लीबं पयसि सर्पिषि ॥ ४३६ ॥ Śivakoṣa 22.6.436
- त्रिकाण्डशेष हविस्हविः सर्पिषि हव्ये च हंसस्तु खगसूर्ययोः । निर्लोभे नृपतौ विष्णान्तरात्मनि चेष्यते ॥ ४५५ ॥ Trikāṇḍaśeṣa 3.3.455
- वैजयन्ती आज्यमुष्के पक्ष्यादिकोशेऽण्डं दुःखैनोव्यसनेष्वघम् । अर्शसी व्याधिदुर्नाम्नी आज्ये श्रीवाससर्पिषी ॥ २ ॥ Vaijayantī 6.3.2
- वैजयन्ती घृतक्षेत्रं गृहे पुरे देहे केदारे योनिभार्ययोः । पुण्यस्थाने समूहे च घृतं त्वाज्येंऽबुसर्पिषोः ॥ ६ ॥ Vaijayantī 6.3.6