कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शीन

śīnaवि · adj.

In 9 kośas: 10 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.154 · p. 56
शीने स्त्यानमुपनतस्तूपसन्न उपस्थितः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.276 · p. 33
शीनं स्त्यानं शृतं पक्वं विलीनं द्रुतमुच्यते ।मन्था मन्थश्च मन्थानो वैशाखः खजकस्तथा ॥ २७६ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.176 · p. 233
कृष्टं स्यादर्च्चितं श्यानं शीनं चापि सितेऽन्विते ।अन्वीतं स्यादथाख्यातं जल्पितं लपितं पुनः ॥ १७६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 283
शार्क्वको दुग्धतालीयं दुग्धफेनश्च सम्मतः ।शृतं पक्वे घृतक्षीरे शीनं तु स्त्यानमित्यपि ॥उष्णीकृतं विलीनं स्याद्धृतं स्त्यानादयोऽन्यवत् ।गोरसो दधिदुग्धोत्थं द्रप्सं स्यात्प[134b]त्तलं दधि ॥अजातं दधि मन्दं स्यान्मस्त्वन्त्ये दधिमण्डकः ।दध्युत्तरो दधिसरो दध्यग्र्यः कट्वरोऽपि सः ॥दधिस्नेहो घृतं त्वस्त्री हविः सर्पिर्हविष्यवत् ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.26 · p. 25
अभिश्यानं चाभिशीनं शीनं प्रस्तीममित्यपि ।प्रस्तीतं च द्रवद्रव्यकठिनीभाव ईरितम् ॥ २६ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.371 · p. 98
शीने स्त्यानं तथा प्रोक्तं निर्वातो गतमारुते ।निर्वाणः शीतवह्नौ च प्रौढवृद्धैधितान्यथ ॥ ३७१ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.312 · p. 441
शीनं स्त्यानं घृतादीनां स्थिरत्वे कथ्यते बुधैः ।
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.9 · p. 37
अथ वोड्रस्तिलित्सः स्यात् गोनासो गोनसोऽपि च ।वाहसः स्यादजगरः शीर-शीनौ शयुः शयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.79 · p. 256
शीने स्त्यानमन्तर्गते विस्मृतं प्रस्मृतं समे ।विदिते बुधितं बुद्धं, स्यन्ने स्नुतं स्रुतं स्मृतम् ॥ ७९ ॥
metre not recognised
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.95 · p. 166
सार्पिष्कदाधिकाद्यं स्यात् सर्पिर्दध्यादिसंस्कृते ।शीनं स्त्यानं शृतं पक्वं विलीनं विद्रुतं द्रुतम् ॥ ९५ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.90 · p. 245
शीनस्तु मूर्खेऽजगरेऽन्यवत्तुस्त्यानेऽथ चीनो मृगवस्त्रभेदे ।व्रीहिप्रभेदेऽपि च तन्तुभेदेवेनो विरिञ्चावपि राजभेदे ॥ ९० ॥
इन्द्रवज्रा