मन्द
mandaपुं · masc.In 22 kośas: 62 synonym verses, 9 as a nānārtha head word, 35 as a meaning of another word.
शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ११९ ॥षोडशार्चिर्दैत्यगुरुर्धिष्ण्यः शनैश्चरः शनिः ।छायासुतोऽसितः सौरिः सप्तार्ची रेवतीभवः ॥ १२० ॥मन्दः क्रोडो नीलवासाः स्वर्भाणुस्तु विधुंतुदः ।तमो राहुः सैंहिकेयो भरणीभूरथाहिकः ॥ १२१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
दानशीलः स वदान्यो वदन्योऽप्यथ बालिशः ॥ ३५१ ॥मूढो मन्दो यथाजातो बालो मातृमुखो जडः ।मूर्खोऽमेधो विवर्णाज्ञौ वैधेयो मातृशासितः ॥ ३५२ ॥देवानांप्रियजाल्मौ च दीर्घसूत्रश्चिरक्रियः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
यद्भविष्यो दैवपरोऽथालस्यः शीतकोऽलसः ॥ ३८३ ॥मन्दस्तुन्दपरिमृजोऽनुष्णो दक्षस्तु पेशलः ।पटूष्णोष्णकसूत्थानचतुराश्चाथ तत्परः ॥ ३८४ ॥आसक्तः प्रवणः प्रह्वः प्रसितश्च परायणः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द (wrong syllable)
genderविadj.
भद्रो मन्द मृगो मिश्रश्चतस्रो गजजातयः ॥ १२१८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ॥ १८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः ।वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
वैधेयो बालिशो बालो जडो जाल्मो यथोद्गतः ।मूढो मन्दो विवर्णश्च मूर्खः स्यान्मातृशासितः ॥ ३३६ ॥
अनुष्टुप्
genderविadj.
उत्क उत्कण्ठितः प्रोक्तो विक्लवो विह्वलः स्मृतः ।अलसः शीतको मन्दो जडो जिह्मश्च मन्थरः ॥ ३८७ ॥
अनुष्टुप्
genderविadj.
शुक्रो दितो दिवाचारः पूर्वदेवगुरुः कविः ।मन्दः खोडोऽसितक्रोडः छायापुत्रः शनैश्चरः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
अयोमणिप्रियो मन्दो मङ्गलो ऋणमोचकः ।बुधः पितामहद्वेषी केतुश्चक्राङ्ग इत्यपि ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
पङ्गुर्मन्दो रवेः सूनुर्मार्तंडस्तनयो शनिः ।सूर्यजो सूर्यतनयः छायातनयसंज्ञकः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
मंदार्किजीवा स्वगृहे क्रमान्मेषादि संस्थितः ।
genderपुंmasc.doubtful
लोहलोस्फुटवाचि स्याज्जडे नामविवर्जितः ।मूर्खो मन्दोऽपि तुन्दस्य पर्यायपरिमार्जकः ॥ ११९ ॥
अनुष्टुप्
genderविadj.
अभ्यान्तः सामयो मन्द आतुरो ग्लास्नुरित्यपि ।तद्विशेषाः समुन्नेयास्तत्तन्मत्वर्थगोचराः ॥ ३५८ ॥
अनुष्टुप्
genderविadj.
भृत्यः कडारो मन्दस्तु तुन्दोनुष्णोलसोपि च ।आलस्यः स्यात्परिमृजः शीतो दक्षस्तु पेलवः ॥ ३३ ॥
अनुष्टुप्
genderविadj.
नीलो मन्दः शनिः शौरिः शौरी सौरोऽव्ययं शनैः ।सौरिः क्रोडो रेवतीजो राहुस्तु सिंहिकासुतः ॥ २०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderपुंmasc.
मन्दश्-छायातनयः पातंगि-क्रूरदृक्-शनयः ।असित-शनैश्चर-नीलाम्बर-यम-सप्तार्च्चिषः कोणः ॥ ५४ ॥
उपगीतिः
genderपुंmasc.
दन्तावलानां संनाहे गुडा स्त्रीपुंसयोर्मता ।कल्पना सज्जना चाथ कुमारा गजपालकाः ॥भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ।बृंहितं गर्जितं क्लीबे गजस्यान्नं विधा स्त्रियाम् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
शार्क्वको दुग्धतालीयं दुग्धफेनश्च सम्मतः ।शृतं पक्वे घृतक्षीरे शीनं तु स्त्यानमित्यपि ॥उष्णीकृतं विलीनं स्याद्धृतं स्त्यानादयोऽन्यवत् ।गोरसो दधिदुग्धोत्थं द्रप्सं स्यात्प[134b]त्तलं दधि ॥अजातं दधि मन्दं स्यान्मस्त्वन्त्ये दधिमण्डकः ।दध्युत्तरो दधिसरो दध्यग्र्यः कट्वरोऽपि सः ॥दधिस्नेहो घृतं त्वस्त्री हविः सर्पिर्हविष्यवत् ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
स तीक्ष्णः शीघ्रपाकी स्यान्मन्दस्तु चिरपाचकः ।अथानियतपाकोऽग्निर्विषमः परिकीर्तितः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
मन्दो लिगुरमेधाश्च मुहिरो वठरो जडः ।बालो मातृमुखो मातृशासितो मुग्ध-हस्तकौ ॥ १६ ॥
अनुष्टुप्
genderविadj.
मन्दस्तु तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ।दक्षे तु चतुर-पेशल-पटूष्णकोष्णा धृषुश्च सूत्थानः ॥ ३३ ॥
गीतिःmetre not read in every line
genderविadj.
मुग्धो मूढो जडो नेडो मूको मूर्खश्च कद्वदः ।स देवानां प्रियोऽप्राज्ञो मन्दः धीनामवर्जितः ॥ १६६ ॥
अनुष्टुप्
genderविadj.
उल्बणं दारुणं तिग्मं घोरं तीव्रोग्रमुत्कटम् ।शीतलं तिमिरं याथं मन्दं विद्धि विलम्बितम् ॥ १८४ ॥
अनुष्टुप्
genderविadj.
स्वराणामपि सप्तानां स्वरे षष्ठेऽथ स त्रिषु ।गम्भीरशब्दे मन्द्रा तु वाचि स्त्री मन्दवाक् तु ना ॥ ९२८ ॥
अनुष्टुप्
genderपुंmasc.
धिष्ण्यश्छायासुतः सौरिरसितो रेवतीभवः ।नीलवासाः शनिर्मन्दः क्रोडसप्तार्चिषौ तथा ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
मिश्रो मन्दो मृगो भद्रश्चतुर्धा गज उच्यते ।बालः स्यात्पञ्चवर्षोऽसौ स्यात्पोतो दशहायनः ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
वैधेयो मूढमन्दौ च यथाजातोऽपि बालिशः ।देवानां वल्लभो जाल्मः क्रियाकुण्ठेऽथ कथ्यते ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
मन्दश्चिरक्रिये तु स्याद्दीर्घसूत्रोऽन्यलिङ्गवत् ।कर्मोद्यतः क्रियावान्स्यात्कर्मठः कर्मतत्परः ॥ १९ ॥
अनुष्टुप्
genderविadj.
स्तेयं चौर्यं चौरिकं तु लोप्त्रं चौर्याहृतं धनम् ।आलसः शीतकालस्यौ मन्दोऽनुष्णोदरस्पृशौ ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
पङ्गुमन्दौ शनेर्नाम्नि छायेयोऽसित इत्यपि ।तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
प्रेष्यो भुजिष्यश्चेतालो नियोज्यो दारकोऽपि च ।अलसे मन्दतुन्दौ च परः परिमृजोऽपि च ॥ ५८८ ॥
अनुष्टुप्
genderपुंmasc.
पृथवः पृथुदेहाश्च मन्दाः संचारवर्जिताः ।जन्तुसर्वस्वगिरकाः खण्डकाश्च सजीविनः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
काव्यो दैत्यगुरुः शुक्रः षोडशार्चिर्मघाभवः ।मन्दः शनैश्चरः क्रोडः पातङ्गिः क्रूरलोचनः ॥ ३२१ ॥
अनुष्टुप्
genderपुंmasc.
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः ।शनिः शनैश्चरः शौरिर्मन्दश्छायासुतोऽसितः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
मूर्खो मन्दो जडो मूढो बालोऽज्ञो जाल्मबालिशौ ।शठः कुण्ठश्च वठरो निर्बुद्धिश्च निरक्षरः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
त्वरितं सत्वरं शीघ्रं तूर्णं क्षिप्रं द्रुतं लघु ।जवो वेगो रयो रंहस्तरो मन्दे तु मन्थरः ॥ १०६ ॥
अनुष्टुप्
genderविadj.
छायासुतोऽसितो मन्दः क्रूरात्मा च यम स्थिरः ।पङ्गुः क्रोडस्तथा कालः नीलवासा महाग्रहः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
मधुर्मन्दो मुरः केशी हिरण्यकशिपुः बलिः ।अरिष्टः शिशुपालश्च द्विविदो यमलार्जुनौ ॥ २९८ ॥
अनुष्टुप्
genderपुंmasc.
मातृमुखश्च मूढोऽज्ञो मन्दश्च नामवर्जितः ।बालोऽमेधाः विवर्णश्च वैधेयश्च यथोद्गतः ॥ ५२१ ॥
अनुष्टुप्metre not read in every line
genderविadj.
देवानांप्रियजाल्मौ वै जडोऽनेडश्च कथ्यते ।मन्दः क्रियासु कुष्ठः स्याद् दीर्घसूत्री चिरक्रियः ॥ ५२२ ॥
अनुष्टुप्
genderविadj.
अथाऽऽलस्योऽलसोऽनुष्णः तुन्दपरिमृजस्तथा ।शीतकश्चापि मन्दः स्याद्
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 न्द (wrong syllable); pāda 4, syllable 3 स्तु (wrong syllable)
genderपुंmasc.
भद्रो मन्दो मृगो मिश्रश्चेति चतस्रो जातयः ।महाकायस्य मन्यन्ते विश्वे च वर्त्तयन्ति ताः ॥ २२०४ ॥
metre not recognised
genderपुंmasc.
च्छायासुतो भास्करिश्च मन्दो नीलाम्बरोऽपि च ।राहुरभ्रपिशाचः स्याद् ग्रहकल्लोल-सैंहिकौ ॥
अनुष्टुप्
genderपुंmasc.
नासीरं नायकस्याग्रेसरिका चह्रिकेत्यपि (?) ।मन्दगामी स्वैरगामी मन्थरो मन्द इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
मन्दस्तुन्दपरिमृजः शीतलः शीतकोऽलसः ।आलस्यानुष्णकुण्टाश्च भवेन्मुखनिरीक्षकः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द (wrong syllable)
genderविadj.
उशना भार्गवः शुक्रः काव्यो दैत्यगुरुः कविः ।शनिश्छायात्मजो मन्दः सौरिः पङ्गुः शनैश्चरः ॥ १८६ ॥
अनुष्टुप्
genderपुंmasc.
सर्वस्वभूतः पञ्चेषोः शृङ्गारः शुचिरुज्वलः ।स्निग्धं निष्पन्दमन्दस्तिमितविहसितन्यञ्चिताकुञ्चितानिस्मेरानन्दिप्रसन्नस्थिरमसृणमहीत्यश्रुविष्फारितानि ।प्रेङ्खोलोल्लासिलोलप्रणयिविलुलितप्रेमगर्भत्रिभङ्गि-व्यासङ्गिस्फीतकान्तीन्यलसमदनकह्लादिरूक्षाञ्चितानि ॥ ९६४ ॥
अनुष्टुप्two metres in one verse
genderविadj.
अलसं वलितं वक्रं मधुरं मन्दमन्थरम् ।कूणितोत्कण्ठिते मन्दमभिलाषि विलासि च ॥ ९६५ ॥
अनुष्टुप्
genderविadj.
कच्छूः स्त्रियामथो पादवल्मीकः स्याद्विपादिका ।मन्दाभ्यान्ताभ्यमितव्याधितविकृतातुरापटुग्लानाः ॥ १०९८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कुण्ठः क्रियासु मन्दः स्यान्मन्दाभ्यन्तादयस्त्रिषु ।रोगहार्यगदंकारभिषग्वैद्यचिकित्सकाः ॥ ११११ ॥
अनुष्टुप्
genderविadj.
स्वप्नङ्निद्रालुनिद्राणशयालुशयिताः समाः ।मन्दस्तुन्दपरिमृजस्तन्द्रालुः शीतकोऽलसः ॥ १५९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द (wrong syllable)
genderविadj.
मन्दवैधेयविकला धर्महीनस्त्वधार्मिकः ।स्वनितध्वनितविरावितशब्दितसंघुष्टरसितमारणितम् ॥ १६३९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
भद्रा मन्दा मृगाश्चेति त्रिविधा गजजातयः ।अर्वती च प्रसूस्तुल्ये रक्तदृष्टिस्तु कोकिलः ॥ १८०७ ॥
अनुष्टुप्
genderपुंmasc.
शनैश्चरे मन्दः ॥ ३१ ॥
genderपुंmasc.
मन्दोऽस्य कान्ता धूमोर्णा चित्रगुप्तस्तु लेखकः ।भृत्यौ चण्डमहाचण्डौ कालीमी तु विचारभूः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
स्यात्पञ्चार्चिः श्रविष्ठाजः श्यामाङ्गैकाङ्गरोधनाः ।शनैश्चरो नीलवासा मन्दश्छायात्मजः शनिः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
यमराड्यमुनाभ्राता मन्दो वैवस्वतोऽन्तकः ।सावित्रेयः श्राद्धदेवः समवर्ती परेतराट् ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
मन्दः खोडोऽसितः क्रोडश्छायापुत्रः शनैश्चरः ।सौरिः स्थिरगतिः कोणो दीर्णांगो युगवर्तकः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
षट्त्रिंशन्मन्द उत्खातो द्विगुणत्रिगुणौ पुनः ।मध्यमश्चैवोत्तमश्च प्रथमो द्वादशैव वा ॥ २३० ॥
अनुष्टुप्
genderपुंmasc.
संजावने तूप्तमात्रे प्राङ्मन्दात् सर्जकं दधि ।मन्दन्तु मण्डजातं तद्बालजातं तु बालकम् ॥ १४० ॥
अनुष्टुप्
genderक्लीneut.
मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसः ।क्षेमंकरोऽरिष्टतातिः शिवतातिः शिवंकरः ॥ ५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 न्द (wrong syllable)
genderविadj.
शनैश्चरे त्रि तु स्वल्पे तथाज्ञापटुरोगिषु ।निर्भाग्ये च कनिष्ठे च दधिभेदे तु नप्यदः ॥ ९२९ ॥
अनुष्टुप्
doubtful
भेदो विदारणे द्वैधे स्याद्विशेषोपजापयोः ।मदो गर्वे च कस्तूर्यां वीर्ये च हर्षदानयोः ॥मन्दः स्वैरे च तीक्ष्णे च मूर्खे चाभाग्यरोगिणोः ।अल्पे च त्रिषु पुंसि स्यात्कविजात्यान्तरे शतौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
मन्द as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वितानक्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३ ॥ मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे । Amarakośa 3.3.216
- नामलिङ्गानुशासनम् स्वैरमन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः । Amarakośa 3.3.361
- हलायुधकोशः (अभिधानरत्नमाला) स्वैरमन्दस्वच्छन्दयोः स्वैरं कक्षः स्यात्कच्छवीरुधोः । करेणुर्गजहस्तिन्योः पीलुश्च गजवृक्षयोः ॥ ८३३ ॥ Abhidhānaratnamālā (Halāyudha) 5.833
- धरणिकोश जिह्मशमी सक्तुफला शिम्बा चोमा दुर्गातसी स्मृता । सूक्ष्मोऽणुः सूक्ष्ममध्यात्मं जिह्मः कुटिलमन्दयोः ॥ Dharaṇikośa 24.1.1
- धरणिकोश स्वरस्वरुर्यूपपार्धके वज्रे स्वरः स्वच्छन्दमन्दयोः । मित्रो रविः सुहृन्मित्रं राष्ट्रमुत्पातदेशयोः ॥ Dharaṇikośa 26.1.5
- धरणिकोश मन्दरमन्दरो बहले मन्दे चाङ्गारोऽलातभौमयोः । कर्बुरः कनके शट्यां कुबेरः श्री[74]दमन्दयोः ॥ Dharaṇikośa 26.1.16
- धरणिकोश मनाक्घिङ् निर्भर्त्सनं निन्दा [च] मनाक् स्यात्स्तोकमन्दयोः । Dharaṇikośa 34.2.1
- कोषकल्पतरु मनाक्ईषदर्थे दुष्कृते च मनाङ्मन्देषदर्थयोः । धिग्भर्त्सने च निन्दायामृधक् शीघ्र-समीपयोः ॥ ८० ॥ Koṣakalpataru 5.1.80
- कोषकल्पतरु रङ्कभुवने जने च लोकः श्लोकः कींर्तौ च पद्ये च । रङ्को मन्दे कृपणे तङ्कस्त्वस्त्री कुजीवने रोगे ॥ १९ ॥ Koṣakalpataru 6.1.19
- कोषकल्पतरु किंपाककिंपाकस्त्रिषु मन्दे स फले क्लीबेऽथ लम्पाकः । त्रितये लम्पटवाची देशे पुंलिङ्ग उद्दिष्टः ॥ ६० ॥ Koṣakalpataru 6.1.60
- कोषकल्पतरु जिह्मवक्रे च मन्दे परवच्च सूक्ष्मं त्वध्यात्मके कैतवके च षण्ढे । अणौ पुमान्स्यात्त्रिषु चाल्पवाचि दस्मस्तु चौरानलयष्टृषु स्यात् ॥ ६९ ॥ Koṣakalpataru 6.25.69
- कोषकल्पतरु स्वैरस्वैरः स्वतन्त्रे परवच्च मन्दे जीरोऽस्त्रियां स्याज्जरणे कृपाणौ । क्षीरः समुद्रे च महीधरे च षण्ढे तु दुग्धे सलिले प्रदिष्टम् ॥ २० ॥ Koṣakalpataru 6.27.20
- कोषकल्पतरु मन्दरपुंस्यसौ पीतने वाजिभेदे तथा वर्णभेदे मतस्तद्वति स्यात्त्रिषु । मन्दरो मन्दमन्दारमन्थाचल- स्वर्गसान्द्रार्थकः कन्दरस्तु त्रिषु ॥ २६ ॥ Koṣakalpataru 6.27.26
- कोषकल्पतरु मन्थरमञ्जरीवाचकस्तु स्त्रियां सम्मतो मन्थरः सूचके कोशमन्थानयोः । स्यात्कुसुम्भे * * वाच्यलिङ्गः पृथौ तादृशः सम्मतो वक्रमन्दाह्वये ॥ २८ ॥ Koṣakalpataru 6.27.28
- नानार्थार्णवसंक्षेप स्वैरस्वैरस्तु मन्दे स्वच्छन्दे हर्ता चोरेऽपि नेतरि ॥ ३०-१/२ ॥ Nānārthārṇavasaṃkṣepa 2.4.31
- नानार्थार्णवसंक्षेप मन्थरवन्यसंज्ञे तुरुष्काख्यनिर्यासे चाथ मन्थरम् । मन्दे वक्रे पृथौ च त्रि सूचके मन्दगामिनि ॥ १३४७ ॥ Nānārthārṇavasaṃkṣepa 4.1347
- नानार्थार्णवसंक्षेप विलम्बितविवक्षितं तु रुचिरे वक्तुमिष्टे च भाषितम् । विलम्बितं वञ्चिते स्यान्मन्दे शाकुनिकः पुनः ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 6.26
- परमानन्दीयनाममाला जिह्मअर्जुने वासवे देवपादपेऽथ जलं जडे । जले जिह्मोऽसमे मन्दे जिह्मं तगरपादपे ॥ १९६ ॥ Paramānandīyanāmamālā 5.13.196
- शब्दरत्नावली रङ्करेकः विरेके शङ्कायां रङ्कः कृपणमन्दयोः । लङ्कादेशस्य पूःशाखाशाकिनीकुलटासु च ॥ Śabdaratnāvalī 7.1.19
- शब्दरत्नावली जिह्मगचक्राङ्गी कटुरोहिण्यां जिह्मगः फणिमन्दयोः । तडागः स्यात् कूटयन्त्रे जलाधारविशेषके ॥ Śabdaratnāvalī 7.3.35
- शब्दरत्नावली वितानक्लीबन्तु वृत्तिभेदे स्यात्त्रिलिङ्गस्तुच्छमन्दयोः । विक्लिन्नन्तु जराजीर्णे आर्द्रे शीर्णे च वाच्यवत् ॥ Śabdaratnāvalī 7.20.78
- शब्दरत्नावली जिह्मचमूः सेनामात्रकेतु सेनाभेदेऽपि च स्त्रियाम् । जाल्मः क्रूरे पामरेऽसमीक्ष्यकारिण्यपि त्रिषु ॥ जिह्मः स्यात्कुटिले मन्दे क्लीबं तगरभूरुहे । तोक्मं कर्णमले ना तु हरिते च हरिद्यवे ॥ Śabdaratnāvalī 7.25.10
- शब्दरत्नावली स्वैरस्वैरं पुमांस्तु स्वच्छन्दमन्दयोः क्वापि वाच्यवत् । हरिरिन्द्रांशुब्रह्मेन्दुमण्डूकयमबर्हिषु ॥ Śabdaratnāvalī 7.27.49
- शब्दरत्नावली मन्दरमधुरा शतपुष्पायां तथा मधुरिकापुरोः । मन्दरो मन्दबहुलमन्थाद्रिवृक्षभित्सु च ॥ Śabdaratnāvalī 7.27.93
- शब्दरत्नावली मनाक्धिक् भर्त्सने च निन्दायां मनाक् स्यादल्पमन्दयोः । हिरुक् विनार्थे मध्यार्थेऽप्यमार्थे च दृश्यते ॥ Śabdaratnāvalī 8.1.15
- शब्दरत्नाकर अलसब्रह्मण्यव्यक्तमस्पष्टे त्रिषु स्यात् सौम्यमन्दयोः । अलसोऽथाङ्गजः कामे प्राणादौ तनये रुजि ॥ २०४० ॥ Śabdaratnākara 4.1.2040
- तन्त्राभिधान लज्ञानिनी वेगिनी नाथः प्रद्युम्नः शोषणो हरिः । विश्वात्म-मन्दौ बलवान् मेरुर्गिरिः कलारसः ॥ १५० ॥ Tantrābhidhāna 2.45.150
- त्रिकाण्डशेष जिह्मगुल्मः स्तम्बे घट्टभेदे घर्मः स्वेदातपोष्मसु । जिह्मः स्थात्कुटिले मन्दे तलिमं तल्पकुट्टिमें ॥ २९६ ॥ Trikāṇḍaśeṣa 3.3.296
- त्रिकाण्डशेष धीरधारा हरिद्राश्वगतिनिशाम्बुस्रुतिराजिषु । धाराधरो खड्गमेघौ धीरः पण्डितमन्दयोः ॥ ३५८ ॥ Trikāṇḍaśeṣa 3.3.358
- त्रिकाण्डशेष मन्थरमहेन्द्रो भूधरे शक्रे मन्दे वक्रे च मन्थरः । विघ्नमन्मथयोर्मारो मकरो राशिथादसोः ॥ ३६८ ॥ Trikāṇḍaśeṣa 3.3.368
- त्रिकाण्डशेष वठरविकारो विकृतौ रोगे विश्वकद्रू श्वभित्खलौ । बेरोऽङ्गे कुङ्कुमे बेरं वठरः शठमन्दयोः ॥ ३७३ ॥ Trikāṇḍaśeṣa 3.3.373
- वैजयन्ती जिह्मछेको विदग्धे गृह्ये च जिह्यं मन्देऽघवक्रयोः । जन्यं रणे जनितरि विगीतजननीययोः ॥ ३२ ॥ Vaijayantī 6.5.32
- वैजयन्ती अलसअलसौ पादरुङ्मन्दावण्डीरौ शक्तपूरुषौ । विद्युत्पव्योरक्ल्यशनिरनीकोऽस्त्री चमूयुधोः ॥ १५ ॥ Vaijayantī 7.5.15
- वैजयन्ती वितानत्रिषु शून्ये च मन्दे च विषाण्युक्षेभशृंगिषु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे न षण् ॥ ७७ ॥ Vaijayantī 7.5.77
- वैजयन्ती विलंबितविशारदो बुधे धृष्टे वंचिते तु विलंबितम् । मन्दे चाथ समुन्नद्धौ पण्डितम्मन्यगर्वितौ ॥ १२ ॥ Vaijayantī 8.4.12