मस्तु
mastuक्ली · neut.In 15 kośas: 20 synonym verses, 2 as a nānārtha head word, 3 as a meaning of another word.
genderक्लीneut.
genderक्लीneut.
मिष्टान्नं व्यञ्जनं ज्ञेयं वेषवार उपस्करः ।दधिमण्डो भवेन्मस्तु करम्भो दधिसक्तवः ॥ ३२१ ॥
अनुष्टुप्
genderक्लीneut.
गोधूमजं तु सौवीरं तुषोत्थं तु तुषोदकम् ।द्विरुत्तरं मधुगुडकाञ्जिकं मस्तु धान्यकम् ॥ २०५ ॥
अनुष्टुप्
genderक्लीneut.
आसप्ताहादथ दधि मङ्गल्यं क्षीरसम्भवम् ।विरलं तज्जलं मस्तु क्लीबेथो कट्वरः सरः ॥ २३० ॥
अनुष्टुप्
genderक्लीneut.
बर्होछदे बर्हिरग्नौ ब्रीहिभेदे तु हायनः ।मस्तुः सक्तौ वर्हिवव्रे स्यादच्छः स्फटिकेऽपि च ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
व्रीहीणां तु पुरोडाशो भवेद्व्रीहिमयो हि सः ।अद्ग[100b]स्तृप्रः पुरोडाशो कपालेष्वष्टसु ह्यसौ ।संस्कृतोऽष्टाकपालोऽथ तप्तक्षीरगतं दधि ।स्यादामिक्षा क्षीरसरः पयस्या मस्तु वाजिनम् ॥ ५८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कटुक्षारस्नेहहीना[134a] हीनाश्च क्रमतो मताः ।यवचूर्णं चिक्कसोऽस्त्री धाना भृष्टयवे स्त्रियः ।धानाचूर्णं सक्तवः स्युर्भूम्न्यस्त्री मस्तुरादिमे ।ते द्रवाः खोडिता मन्थोऽथोदमन्थो जलप्लुताः ॥ १२ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
शार्क्वको दुग्धतालीयं दुग्धफेनश्च सम्मतः ।शृतं पक्वे घृतक्षीरे शीनं तु स्त्यानमित्यपि ॥उष्णीकृतं विलीनं स्याद्धृतं स्त्यानादयोऽन्यवत् ।गोरसो दधिदुग्धोत्थं द्रप्सं स्यात्प[134b]त्तलं दधि ॥अजातं दधि मन्दं स्यान्मस्त्वन्त्ये दधिमण्डकः ।दध्युत्तरो दधिसरो दध्यग्र्यः कट्वरोऽपि सः ॥दधिस्नेहो घृतं त्वस्त्री हविः सर्पिर्हविष्यवत् ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
केदारे हि बर्हिरुक्तो हुताशेबर्होऽपर्णपिच्छयोः कोणके निः ।मित्रः सूर्ये रत्नभेदे च नीलोमस्तुः सक्तुर्निर्मलग्राब्णि चाच्छः ॥ ११ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 1, syllable 4 हि (wrong syllable); pāda 2, syllable 4 र्ण (wrong syllable)
genderपुंmasc.
पुरादीनि नपुंसके विजानीयात् । इदं पुरं नगरम् । मधु क्षौद्रम् । जगद्विश्वम् । अर्च्चिःशब्दः स्त्रियां भवति वा । इयमर्चिः । इदमर्चिर्दीप्तिः । त्वतलौप्रत्ययौ यथासङ्ख्यं नपुंसकस्त्रीविधौ द्रष्टव्यौ । ब्राह्मणस्य भावो ब्राह्मणत्वं ब्राह्मणता । एवमिदं शूद्रत्वं इयं शूद्रता । अहःशब्दः यदा सङ्ख्यादिः तदा पुंल्लिङ्गो भवति । अयमेकाहः द्व्यहः त्र्यहः । सङ्ख्यादेरिति किम् । पुन्याहम्? । प्रत्यहम् ।रुत्वन्ताः पुंसि कशेरुदारुजतुवस्तुमस्तूभिस्त्यक्ताः ।स्युः सग्रन्थिप्रस्था इसुसू ष्य[घ्य]ञन्तानां नपुंसकता ॥ ४४ ॥
metre not recognised
genderक्लीneut.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderक्लीneut.
दधिमण्डं मस्तुसंज्ञं भक्तोद्भूतं यथा हि तत् ।निस्रावमासराचामा यवागूस्तरला स्त्रियाम् ॥ ६१ ॥
अनुष्टुप्
genderक्लीneut.
हायनो व्रीहिगः पुंसि वह्नौ बर्हिस्तथा नरे ।मस्तुर्धानाविकारे त्वच्छो नरे स्फटिकार्थगः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
तस्मिन्नर्धाम्बुसहिते चोदश्विन्मथितं द्वयम् ।मतिमस्तु( ?) समाम्नातं दध्युत्पन्ननवोद्धृते ॥ ४८० ॥
अनुष्टुप्
genderक्लीneut.
माण्डं सर्वरसाग्रं स्यात् मस्तु च दधिजं भवेत् ।भक्तोत्थास्त्रय आख्याता निःस्रावाऽऽचामभासराः ॥ ५८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 स्तु (wrong syllable)
genderक्लीneut.
मथितन्तु निरम्बु स्यात् त्रितयं दधिसम्भवम् ।मस्तुर्ना दधिजे मण्डे पेयूषस्तु नवं पयः ।स्त्रीक्षुत् क्षुधा वुभुक्षा स्यादशनायाः च सा स्मृता ॥
अनुष्टुप्
genderपुंmasc.
मण्डं दधिभवं मस्तु करम्भा दधिसक्तवः ।आज्यं दशाब्दिकं कौहं हृद्यं तु श्रीघनं दधि ॥ ७७१ ॥
अनुष्टुप्
genderक्लीneut.
प्रत्यक्षी व्यक्तदृष्टार्थश्चाऽथ कर्तनतर्कुटे ।चिरकाले दीर्धरात्रममिक्षा मस्तु वाजिनम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
तक्रपिण्डञ्चाथ मस्तु प्राग्राढं दधिमण्डके ।आतंचनं संजावनं प्रतीवापश्च मूतकम् ॥ १४४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 जा (wrong syllable)
genderक्लीneut.
स्यात् पारधैनुके चापि यस्याघोषणवृत्तिता ।मस्तुस्तु नृस्त्रियोर्मुष्टौ पिण्डिताङ्गुलिरूपके ॥ ९६५ ॥
अनुष्टुप्
meaningsमुष्टि
वैजयन्त्यामिदं प्रोक्तं दधिमण्डे तु तन्नपि ।मर्जूः सम्मार्जनीशुद्ध्योर्नदीतीरे परः पुनः ॥ ९६६ ॥
अनुष्टुप्
meaningsदधिमण्ड
doubtful
मस्तु as a meaning in nānārtha verses
- कोषकल्पतरु पाण्डुषण्ढे पुंसि मतौ तु योषिति भवेत्पण्डोऽथ पाण्डुः सिते कुन्तीभर्तरि चास्त्रियां तु गदितः शाके च मस्तुन्यपि । एरण्डेऽपि च मण्डनेऽग्रगजले सारे च मण्डोऽथ स स्त्री धात्र्यां ना तु विधुंतुदे च दनुजे मुण्डोऽस्त्रियां मूर्धनि ॥ ७८ ॥ Koṣakalpataru 6.12.78
- शिवकोष मण्डपृथ्व्यां च भण्डी जिङ्ग्यां ना कूष्माण्डे कर्कटीभिदि । मण्डोरुवावसिक्थान्नरसे क्लीबं तु मस्तुनि ॥ १४९ ॥ Śivakoṣa 10.1.149
- त्रिकाण्डशेष मण्डसमूहे चान्तरावेद्यां मण्डः स्यात्सारपिच्छयोः । एरण्डे मस्तुनि क्लीबे मार्तण्डौ खगदंष्ट्रिणौ ॥ ११५ ॥ Trikāṇḍaśeṣa 3.3.115