कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हविस्

havisक्ली · neut.

In 20 kośas: 28 synonym verses, 6 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.78 · p. 20
घृतं हविष्यमाज्यं च हविराघारसर्पिषी ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.657 · p. 34
हविः सांनाय्यमामिक्षा शृतोष्णक्षीरगं दधि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.92
घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.416 · p. 48
हव्यपाकश्चरुः प्रोक्तः सान्नाय्यं हविरुच्यते ।शृते क्षीरे दधिक्षिप्तमामिक्षा कथ्यते बुधैः ॥ ४१६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.67 · p. 76
प्रमीत उपसंपन्न प्रोक्षितौ वाच्यलिङ्गकाः ।स्युरथापि च सांनाय्यं हविष्यं होत्रकं हविः ॥ ६७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.6 · p. 377
क्लीबेऽपां पित्तमप्पित्तं ज्योतिर्बर्हिर्हविश्च षण् ।अपि वायुसखाऽनन्तः पाचनः पावनोऽनलः ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.57 · p. 237
हविर्होम्यं च सांनाय्यं हव्यपाके चरुः पुमान् ।होत्रं च तत्र पक्वे स्यात्तत्पात्रेऽपि भवेच्चरुः ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 283
शार्क्वको दुग्धतालीयं दुग्धफेनश्च सम्मतः ।शृतं पक्वे घृतक्षीरे शीनं तु स्त्यानमित्यपि ॥उष्णीकृतं विलीनं स्याद्धृतं स्त्यानादयोऽन्यवत् ।गोरसो दधिदुग्धोत्थं द्रप्सं स्यात्प[134b]त्तलं दधि ॥अजातं दधि मन्दं स्यान्मस्त्वन्त्ये दधिमण्डकः ।दध्युत्तरो दधिसरो दध्यग्र्यः कट्वरोऽपि सः ॥दधिस्नेहो घृतं त्वस्त्री हविः सर्पिर्हविष्यवत् ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.130 · p. 24
होमेन्धनं स्यादिध्मोऽस्त्री पुमानेधः समित्स्त्रियाम् ।पुरोडाशस्तु तृप्रको होमपात्रं हविश्चरुः ॥ १३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प्र (wrong syllable)
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.225 · p. 37
स्नेहो तिलानां तैलं स्यादन्येषां नामपूर्वकम् ।घृतमाज्यं हविः सर्पिः कौम्भं त्वाज्यं दशाब्दकम् ॥ २२५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.75 · p. 110
हविष्यं हविराघारमाज्यं क्षीरोद्भवं दधि ।गोरसोऽथाघने तत्र क्लीवे द्वे द्रप्सपत्रले ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.18 · p. 4
वेदो वेदाः श्रुतिः प्रज्ञापौरुषेया त्रयी हविः ।ऋग्वेदे तु ऋगित्युक्ता ऋचा चापि ऋजा ऋजी ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.477 · p. 87
घृते तु द्रव्यसं सर्पिः स्यातं स्यात्सेचनं हविः ।हैयङ्गवीनं पूर्वेद्युर्दुग्धगोघृतमात्रके ॥ ४७७ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.113 · p. 8
पितृमन्त्रः स्वधा स्वाहा हविः सागोऽग्निवल्लभा ।मनुर्मन्त्रः ऋषिर्मन्त्रदर्शको मन्त्रचारकः ॥ ११३ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.51 · p. 39
घृतमाज्यं हविः सर्पिः नवनीतं तु म्रक्षणम् ।उदश्विन्मथितं तक्रमारनालं तु काञ्जिकम् ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.608 · p. 79
घृतमाज्यं हविः सर्पिः तथाऽऽधारो हविष्यकम् ॥ ६०८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1385 · p. 219
हविस्तथैव सान्नाय्यं बलिदानं हि कथ्यते ।क्षीरशरः पयस्या च शृतोष्णक्षीरमं दधि ॥ १३८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि तेजस्कायनामानि Suśīlanāmamālā 5.3.1923 · p. 316
पीथोऽनिलसखो हव्यभुग्घविरशनो हविः ।हवनो हव्यवाहश्च हव्याशनो हुताशनः ॥ १९२३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ग्घ (wrong syllable); pāda 4, syllable 3 श (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.52 · p. 114
हते वाच्याः प्रमीतोपसम्पन्नप्रोक्षिताः पशौ ।हविर्हविष्यं सान्नाय्यं होत्रञ्च हव्यवस्तुनि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्च (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.111 · p. 145
घृतं हविः सर्पिराज्यं नवनीतं नवोद्धृतम् ।ह्यो गोदोहोद्भवं घृतं हैयङ्गवीनमुच्यते ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.50 · p. 192
द्रप्स-द्रप्स्ये दध्न्यघने, हविष्य-हविषी घृते ।रसायन-गोरसौ द्वौ घोले, तक्रे त्वरिष्टयुक् ॥ ५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.114 · p. 227
घासिर्घसुरिर्हवनो हविश्च द्वौ वनात्परौ ।दवो दावो, हेतौ कीला कीलो ज्वालोऽपि ज्वालया ॥ ११४ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.769 · p. 98
दुग्धं तु क्षीरमूधस्यं पयः स्तन्यं नवं तु तत् ।पीयूषोऽथ हविः सर्पिर्घृतमाज्यं समार्थकम् ॥ ७६९ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1175 · p. 144
बृहस्पतिसवेनेष्टं येन स स्थपतिः स्मृतः ।सानाय्यं तु हविर्हव्यं हुतं त्रिषु वषट्कृतम् ॥ ११७५ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.21 · p. 62
स्वाहा परा देवभोज्यं ठद्वयं चन्द्रयुग्मकम् ।श्रुवो हविर्वेदमाता देवास्यं वह्निसुन्दरी ॥स्वाहा॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव ब्रह्मवर्गः Trikāṇḍaśeṣa 2.7.7 · p. 57
होमधूमस्तु निगणो होमभस्म तु वैष्टुभम् ।आर्यकं पिण्डदानादिपितृकार्यमथो हविः ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.138 · p. 134
घृतमाज्यं हविः सर्पिः कौंभं त्वाज्यं दशाब्दिकम् ।हैयंगवीनं पीथं च नवनीतं च तक्रजम् ॥ १३८ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास सपादः Dharaṇikośa 31.1.5 · p. 219
वसुरश्वेऽश्चमेधाख्ये उषः सन्ध्याप्रभातयोः ।हविः सर्पिषि होतव्ये वपुर्भव्याकृतौ तनौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.98 · p. 381
ज्यायांस्तु वृद्धे च तथा प्रशस्येघृते हविः स्याच्चरमे च होम्ये ।रेपस्त्ववद्ये कृपणेऽधमे चक्रूरेऽन्यवत्स्यादथ पुंसि वेधाः ॥ ९८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.74 · p. 39
अग्निसामविशेषेषु पञ्चस्वथ हविर्घृते ।हव्ये जलेऽथ होत्वं स्याद् यजमानसमुद्रयोः ॥ ७४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.39 · p. 296
हविर्होतव्यमात्रे स्याद्घृतेऽपि च नपुंसकम् ।
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.455 · p. 254
हविः सर्पिषि हव्ये च हंसस्तु खगसूर्ययोः ।निर्लोभे नृपतौ विष्णान्तरात्मनि चेष्यते ॥ ४५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.37 · p. 227
स्रोतोंऽबुनिर्गमद्वार इन्द्रियेऽप्सु जलस्रुतौ ।हविर्हव्ये घृते तोये हेम्नी काञ्चनवेतने ॥ ३७ ॥
अनुष्टुप्

हविस् as a meaning in nānārtha verses