कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

भूकाण्डः · वनौषधिवर्गः (14/15)

भक्तकाराः सूपकाराः सौपिकारालिकावपि ।प्रस्थपाणिः पचेलुश्चौदनिकान्धसिकावपि ॥ ५७ ॥
2.3.57 · p. 276
अनुष्टुप्
आ*[पू]पिकः कान्दचिको भक्ष्यकार इमे त्रिषु ।अथान्तिका चुल्लिरधिश्रयणी मूलकारिका ॥ ५८ ॥
2.3.58 · p. 276
अनुष्टुप्
उद्धानमश्मन्तमथाङ्गारधानी हसन्तिका ।हसन्यङ्गारशकटी तथा साङ्गारपात्रिका ॥ ५९ ॥
2.3.59 · p. 276
अनुष्टुप्
भ्राष्ट्रमि[130a]न्धो भ्राष्ट्रमिन्धे यः स्वयं भेद्यलिङ्गकः ।भ्राष्ट्राम्बरीषौ न स्त्री स्तो ऋचीषं स्यादृजीषवत् ।न द्वयोः पिष्टपचनं भवेन्मांस्पचनं पुनः ॥ ६० ॥
2.3.60 · p. 276
अनुष्टुप्metre not read in every line
मांस्पाकपात्रं कन्दुस्तु द्वयोः स्यात्स्वेदनी स्त्रियाम् ।पालिका स्यात्कुन्तलिका दध्यादिच्छेदिनी हि या ।दर्विः कम्बिः खजाकाथ तर्दूर्ना दारुहस्तकः ॥ ६१ ॥
2.3.61 · p. 276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्कु (wrong syllable)
अलिंजरोऽस्त्री मणिके कटाहस्त्रिषु कर्परम् ।कर्क्करी कर्क्करीका स्यादालुरालूर्गलन्तिका ॥ ६२ ॥
2.3.62 · p. 276
अनुष्टुप्
वार्द्धनी कारकोऽस्त्री स करङ्को नालिकेरजः ।* * * * * * * * कुम्भी कुम्भीरुखा कुला ।चरुर्ना पिठरस्त्रय्यां कलशः कलसस्त्रिषु ।घटः कुम्भः करीरो ना न स्त्री कुट-निपावुभौ ।घटः कुम्भश्च मिथुने करीरोऽस्त्री कुटो निपः ॥ ६४ ॥
2.3.64 · p. 276
अनुष्टुप्metre not read in every line
पुटग्रीवश्च विट्वालः प्रघणस्ताम्रजो मतः ।काचजः कटखादोऽथ कुनालो हण्डिकासुतः ॥ ६५ ॥
2.3.65 · p. 276
अनुष्टुप्
अयस्कुम्भः पयस्कुम्भोऽयस्पात्रीत्यादि तस्य चेत् ।शरावोऽस्त्री वर्द्धमानः [130b] शालाजिरक-पार्थिवौ ।मृत्कांस्यं चाथ मन्थन्यां गर्गरी कलशी समे ॥ ६६ ॥
2.3.66 · p. 276
अनुष्टुप्metre not read in every line
नेत्रं मथिगुणो न स्त्री मन्थनं तु विलोडनम् ।वैशाखः खजको मन्थो मन्थास्तक्राट इत्यपि ।माथः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटकोऽपि सः ॥ ६७ ॥
2.3.67 · p. 278
अनुष्टुप्
दण्डमाथं धावति यो भेद्यवद्दाण्डमाथिकः ।श्रेणिर्द्वयोः कंशमयं स्थलं त्वशतभाजनम् ॥ ६७ ॥
2.3.67 · p. 278
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
मल्लिका कोशिका पारी कंसस्तु चषकोऽस्त्रियाम् ।स्यात्पानभाजनं न स्त्री पिधानं स्यादुदञ्चनम् ॥ ६८ ॥
2.3.68 · p. 278
अनुष्टुप्
कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् ।कृता सर्वा चर्मणा सा सार्वचर्मीणकोच्यते ॥ ६९ ॥
2.3.69 · p. 278
अनुष्टुप्
भेद्यवत्सर्वचर्मीणं दृतिर्भस्त्रा च खल्वकः ।प्रसेवकः पुमानत्र द्वयोश्चर्मप्रसेविका ॥भूते दृत्यां कलस्यां च दार्त्तेयं कालशेयवत् ।चर्मणो जलपात्रे स्यादालूः करकपात्रिका ॥ ७० ॥
2.3.70 · p. 278
अनुष्टुप्
सर्वमावपनं भाण्डं पात्रं तु त्रिषु भाजनम् ।अमत्रं भु[131a]ज्युराद्येऽथ स्थालं तच्च महीयसि ॥ ७१ ॥
2.3.71 · p. 278
अनुष्टुप्metre not read in every line
प्रस्थंपचं प्रास्थिकं च द्रौणं द्रौणिकमित्यपि ।द्रोणपाचि स्यादथाढकीनमाढकिकं तथा ॥ ७२ ॥
2.3.72 · p. 278
अनुष्टुप्
आचितीनं त्वाचितिकं पात्रीणं पात्रिकं तथा ।सर्वपात्रव्यापकं यत्सर्वपात्रीणमुच्यते ॥प्रस्थंपचादित्रितये देहयात्रा तु भोजनम् ।जक्षणं भक्षणं प्रत्यवसानं जेमनादने ॥ ७२ ॥
2.3.72 · p. 278
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्वा (wrong syllable)
स्वदनं स्वादनं प्सानं विष्वाणं कल्पनं च तत् ।अवष्वानाशने न्यादो निघसोऽभ्यवहारवत् ॥ ७३ ॥
2.3.73 · p. 278
अनुष्टुप्
वल्भ आहारलेहा च घसि-जग्धी स्त्रियौ न्यदः ॥
2.3.1579 · p. 259
ईषद्घृतादियुक्तेऽस्मिन्नव्ययं स्याद्घृतप्रति ।चर्वणं चूर्णनं दन्तैर्जिह्वास्वादस्तु लेहनम् ॥ ७४ ॥
2.3.74 · p. 259
अनुष्टुप्
कल्यवर्तः प्रातराशः सग्धिः स्त्री सहभोजनम् ।सपीतिस्तुल्यपानं स्यादथ ग्रासो गुडेरकः ॥ ७५ ॥
2.3.75 · p. 259
अनुष्टुप्
गुडः पिण्डो गडोलश्च गण्डोलः कवकोऽपि सः ।कवलोऽस्त्री स्वयं त्वेष बद्धः सिन उदीर्यते ।स्यात्सितोऽन्यस्तर्पणं तु तृप्तिः सौहित्यमित्य[131b]पि ॥ ७६ ॥
2.3.76 · p. 259
अनुष्टुप्metre not read in every line
आघ्राणालेपने स्त्री तु फेला-पिण्डोलि-फेलयः ।गण्डोलश्चोचमुच्छिष्टं तथा कवटमस्त्रियाम् ॥ ७७ ॥
2.3.77 · p. 259
अनुष्टुप्
उच्छिष्टभिन्नो भुक्तावशेषो विघस ईरितः ।शोषणं तु रसादानं घीतिः स्त्री पान-धानके ॥ ७८ ॥
2.3.78 · p. 259
अनुष्टुप्
पेयं लेह्यं च चोष्यं च भक्ष्यं चेति पृथक्त्रिषु ।काञ्जिकं * * * शुक्तं धान्याम्लं च तुषोदकम् ॥ ७९ ॥
2.3.79 · p. 259
अनुष्टुप्metre not read in every line
आरनालक-सौवीर-कुल्माषाभिषुतानि च ।अवन्तिसोममुन्नाहं सुवीराम्लं च कुञ्जलम् ॥ ८० ॥
2.3.80 · p. 259
अनुष्टुप्
महारसं कुण्डगोलं गृहाम्भो धातुनाशनम् ।चुक्रं रक्षोक्षकं चाथ स्नेहे स्नैनं तु न स्त्रियाम् ॥ ८१ ॥
2.3.81 · p. 259
अनुष्टुप्
म्रक्षणाभ्यञ्जने वस्तु कटुतैलं तु सार्षपम् ।न स्त्रियौ खल-पिण्याकौ खलि-पिण्ड्यौ स्त्रियावुभे ।इक्षो रसस्य समलत्र्यंशोर्ध्वाङ्घ्रिमलामलाः ॥ ८२ ॥
2.3.82 · p. 259
अनुष्टुप्
विकाराः फाणित-गुड-मत्स्यण्डी-खण्ड-शर्कराः ।गुड इक्षुरसक्वाथो मत्स्यण्डी पल्लिकापि सा ॥ ८३ ॥
2.3.83 · p. 259
अनुष्टुप्
मीनाण्डी मधुधूलिस्तु खण्डः स्यात्पिण्डश[132a]र्करा ।शर्करा सिकता श्वेताहिच्छत्रा च सितोपला ॥ ८४ ॥
2.3.84 · p. 280
अनुष्टुप्metre not read in every line
मधुरा सा माधवी सा पक्वा यस्य तु चार्करा ।स्याद्यासशर्करा पुष्पासवस्तु मधु न स्त्रियाम् ॥ ८५ ॥
2.3.85 · p. 280
अनुष्टुप्
माक्षिकं मक्षिकाविट् च सारघं तैलवद्धि यत् ।क्षौद्रं तु तत्कपिलाभं स्यात्पौत्तिकं घृतसंनिभम् ॥ ८६ ॥
2.3.86 · p. 280
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भ्रामरं श्वेतवर्णं स्याच्चतस्रो मधुजातयः ।मधूच्छिष्टं तु मयणं सिक्थं चात्र नपुंसके ।आर्घ्यं छात्रं तथौद्दालं मधुभेदाः परेऽपि च ॥ ८७ ॥
2.3.87 · p. 280
अनुष्टुप्
रसाला स्याच्छिखरिणी रोमाली मार्जितापि सा ।गुडाम्लिकादिसंयुक्तं पानकं सलिलादिकम् ॥ ८८ ॥
2.3.88 · p. 280
अनुष्टुप्
रागस्तु पानकं स्वादु पट्वम्लरससंयुतम् ।मरिचाद्यन्वितो रागः खाडवो विनिगद्यते ॥ ८९ ॥
2.3.89 · p. 280
अनुष्टुप्
मधुखर्जूरमृद्वीकापरूषकसिताम्भसा ।कृतं यत्पानकं रुच्यं पञ्चसारं तदुच्यते ॥ ९० ॥
2.3.90 · p. 280
अनुष्टुप्
कूर्चिका कुर्चिका क्षीरविकारोऽथ पयो यदि ॥ ९१ ॥
2.3.91 · p. 280
[132b] गदिता दधिकूर्चीका पक्वं दध्ना समन्वितम् ।तक्रेण तक्रकूर्चीका क्षीरशाकस्त्वपाकतः ॥क्षीरदध्नोर्हि यो भागः पृथग्भूतघनद्रवः ।किलाटो मिथुने क्षीरदध्नोर्यो घनभागकः ॥ ९३ ॥
2.3.93 · p. 280
अनुष्टुप्
द्रवभागो मोरणो यत्त्रिषु भारूटकावधः (?) ।औख्यं तूखासंस्कृतं यद्दाधिकं दध्नि संस्कृतम् ॥ ९४ ॥
2.3.94 · p. 280
अनुष्टुप्
क्षीरे क्षैरेयमौदश्वित्कमौदश्वितमित्यपि ।एवं सार्पिष्क-कौलत्थ-दकलावणिकादयः ॥ ९५ ॥
2.3.95 · p. 280
अनुष्टुप्
स्याच्चूर्णि चूर्णसंसृष्टं मौद्गं मुद्गैः समन्वितम् ।प्रणीतमुपसंपन्नं प्रयस्तं तु सुसंस्कृतम् ॥ ९६ ॥
2.3.96 · p. 281
अनुष्टुप्
पक्वं राद्धं च संसिद्धं भृष्टं पक्वं विनाम्बुना ।स्यात्पिच्छिलं विजिविलं विजिलं विज्जलं च तत् ॥ ९७ ॥
2.3.97 · p. 281
अनुष्टुप्
पूतं स्याद्गलितं स्निग्धं मसृणं चिक्कणं समम् ।अम्लीकृतं त्वासुतं स्यान्मांसे शूलेन पाचितम् ॥ ९८ ॥
2.3.98 · p. 281
अनुष्टुप्
शूल्यं शूलाकृतं भारूटकं भूतिश्च भृष्टकः ॥ ९९ ॥
2.3.99 · p. 281
भक्तौदनोन्धोमसरारनाल-[133a]प्रसादनान्नानि च जीवनं च ।याजं च वाजं कुरुरोदनोऽस्त्रीकूराशने दीदिवि चात्र भिस्सा ॥ १०० ॥
2.3.100 · p. 281
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 प्र (wrong syllable)
त्रिष्वाशितंभवो येन भवेदतिथिराशितः ।भिस्सटा-दग्धिकेऽथास्मिन्स यवेनाद्य-यावकौ ॥ १ ॥
2.3.1 · p. 281
अनुष्टुप्
तिलतन्दुलमाषाश्च कृशरा-त्रिसरे स्त्रियौ ।भूतौदनो दधिनिशा सत्तुलाजतिलान्वितः ॥ २ ॥
2.3.2 · p. 281
अनुष्टुप्
मण्डः सर्वरसाग्रेऽस्त्री तस्मिन्नोदनसंभवे ।मासराचाम-निस्रावा सिक्थः पुंसि पुलाकवत् ॥ ३ ॥
2.3.3 · p. 281
अनुष्टुप्
पार्परोऽस्त्री स्त्रियां तु स्यात्पेयाल्पतरसिक्थका ।यवागुरुष्णिका किंचित्सिक्थोष्णा सा नखंपचा ॥ ४ ॥
2.3.4 · p. 281
अनुष्टुप्
श्राणा विलेपी तरला यवागूर्घनसिक्थका ।गारित्रं लड्डुकः पुंसि मोदकोऽस्त्री च सम्मतः ।एलाकर्पूरमरिचकयुक्तोऽसौ सिंहकेसरः ॥ ५ ॥
2.3.5 · p. 281
अनुष्टुप्metre not read in every line
पूपोऽपूपः पिष्टकश्च मण्डकोऽसौ गुडादियुक् ।स्यात्संयावः पूलिका तु पोलिका[133b] पोलि-पूपिकाः ॥ ६ ॥
2.3.6 · p. 282
metre not recognised
पूपल्यथेषत्पक्वासावभ्यूषोऽभ्योष आदिमे ।पौलिः स्त्रियां पूरणं तु सगुडस्विन्नपिष्टकम् ॥ ७ ॥
2.3.7 · p. 282
अनुष्टुप्
पिष्टपूरो घृतवरो घृतपूरश्च घार्त्तिका ।चमसि [ पिष्टवर्ति स्यात् ] * * * * * ॥ ८ ॥
2.3.8 · p. 282
अनुष्टुप्metre not read in every line
आपूपिकं शाष्कुलिकं तद्गणे तु नपुंसकम् ।तस्मै हितमपूपीयमपूप्यं च विशेष्यवत् ॥ ९ ॥
2.3.9 · p. 282
अनुष्टुप्
नियुक्तं दीयते श्राणा यस्यै सा श्राणिकी तथा ।स्यान्मांसोदनिकी भाक्ती भाक्तिकी च विशेष्यगाः ॥ १० ॥
2.3.10 · p. 282
अनुष्टुप्
स्यात्तेमनं च निष्ठानं वटकस्त्ववसेकिमः ।शाण्डाकी कन्दमूलादिमुद्गादिवटकैः कृताः ॥ ११ ॥
2.3.11 · p. 282
अनुष्टुप्
पायसं परमान्नं स्यात्प्रहितं त्ववरान्नकम् ।सूदः सूपः कूलकोऽस्त्री बुस्तं मांसजलं रसः ॥ ९ ॥
2.3.9 · p. 282
अनुष्टुप्
यूर्ना रसो यूषमस्त्री पक्वमुद्गादिजे जले ।खलः पक्वैर्मूलफलैरथ काम्बलिको भवेत् ।समांसकट्वम्लयुतो रसाद्यास्त्वकृताः कृताः ॥ १० ॥
2.3.10 · p. 282
अनुष्टुप्metre not read in every line
कटुक्षारस्नेहहीना[134a] हीनाश्च क्रमतो मताः ।यवचूर्णं चिक्कसोऽस्त्री धाना भृष्टयवे स्त्रियः ।धानाचूर्णं सक्तवः स्युर्भूम्न्यस्त्री मस्तुरादिमे ।ते द्रवाः खोडिता मन्थोऽथोदमन्थो जलप्लुताः ॥ १२ ॥
2.3.12 · p. 282
अनुष्टुप्metre not read in every line
दध्नाप्लुतः करम्भोऽस्त्री त्वक्षताः पुंसि भूयसि ॥ १३ ॥
2.3.13 · p. 282
लाजा भूम्नि द्वयोर्भृष्टः शलिखादिक उद्बुसः ।भृष्टार्द्रशूकधान्ये स्यात्पृथुकश्चिपिटः समौ ॥ १४ ॥
2.3.14 · p. 283
अनुष्टुप्
उलुम्बकस्तु गोधूमो भृष्टो योऽथोलको भवेत् ।भृष्टाः शिम्ब्या (?) व्यञ्जनं तु घृतप्रभृति कथ्यते ॥ १५ ॥
2.3.15 · p. 283
अनुष्टुप्
गव्यं त्रिषु गवां सर्वं पयस्यं तु पयोभवम् ।अस्त्री क्षीरपयः सूमं सोमजोधस्यनामकम् ॥ १६ ॥
2.3.16 · p. 283
अनुष्टुप्
स्तन्यं पुंसवनं दुग्धं गोरसोऽभिनवं तु तत् ।पेयुषोऽस्त्री स सप्ताहान्मोरणो मोलिकश्च सः ॥ १७ ॥
2.3.17 · p. 283
अनुष्टुप्
शार्क्वको दुग्धतालीयं दुग्धफेनश्च सम्मतः ।शृतं पक्वे घृतक्षीरे शीनं तु स्त्यानमित्यपि ॥उष्णीकृतं विलीनं स्याद्धृतं स्त्यानादयोऽन्यवत् ।गोरसो दधिदुग्धोत्थं द्रप्सं स्यात्प[134b]त्तलं दधि ॥अजातं दधि मन्दं स्यान्मस्त्वन्त्ये दधिमण्डकः ।दध्युत्तरो दधिसरो दध्यग्र्यः कट्वरोऽपि सः ॥दधिस्नेहो घृतं त्वस्त्री हविः सर्पिर्हविष्यवत् ॥ १९ ॥
2.3.19 · p. 283
अनुष्टुप्metre not read in every line
आधार आज्यं खजपमुशिक्तामरमित्यपि ।हैयंगवीनं तु नवं तक्रं त्वस्त्री च कट्वरः ॥ २० ॥
2.3.20 · p. 283
अनुष्टुप्
दधिसारः शरोत्थं चाथार्घाम्बूदश्विदन्तिमे ।निर्जलं मथितं घोलो गोरसोऽरिष्टमित्यपि ॥ २१ ॥
2.3.21 · p. 283
अनुष्टुप्
दण्डाहतं कालशेयं भवेच्छ्वेतरसं तु तत् ।द्विगुणाम्भोऽथ कामं स्यात्प्रकामं च निकामवत् ॥ २३ ॥
2.3.23 · p. 283
अनुष्टुप्
पर्याप्तमुपसंपन्नमिष्टं क्लीबे यथेप्सितम् ।सर्पिर्मज्जा वसा तैलमिति स्नेहचतुष्टयी ॥द्वाभ्यां तु यमकस्ताभ्यां त्रिभिस्त्रिवृन्नामकः ।महांश्चतुर्भिरुदितो वैद्यशास्त्रविचक्षणैः ॥स्नेहमात्रोत्तमानन्ना प्राग्भक्ताल्पावपीडकः ।पाशुपाल्यं जीववृत्तिर्गोमान्गोमी गवीश्वरः ॥ २३ ॥
2.3.23 · p. 283
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 वृ (syllables merged)
स्याद्गौसहस्रिको यः स्या[135a]द्गोसहस्रसमन्वितः ।गोप-गोपाल-गोसंख्य-गोधुगाभीर-वल्लवाः ॥ २४ ॥
2.3.24 · p. 284
अनुष्टुप्metre not read in every line
गोविन्दोऽधिकृतो गोषु स तु पञ्चगस्वकः ।यस्य स्वं पञ्च गावः स्युर्गच्छति त्वनु गुह्यतः ॥ २५ ॥
2.3.25 · p. 284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
योऽसावनुगवीनः स्यादागवीनस्तु कर्मकृत् ।गोः प्रत्यर्पणपर्यन्तं त्रिषु स्युर्गोमिदा(ना?)दयः ॥ २६ ॥
2.3.26 · p. 284
अनुष्टुप्
गोमहिष्यादिकं पादबन्धनं पादवन्धनम् ।गोधनं गोकुलं पुंसि व्रजश्च विनिगद्यते ॥ २७ ॥
2.3.27 · p. 284
अनुष्टुप्
वृषः ककुद्मानृषभोऽप्यनड्वान्स्याद्वाडवेयो वृषभश्च भद्रः ।गौः सौरभेयो वहतुश्च धाको-ऽप्युक्षा बलीवर्द इहापि शक्वा ॥ २८ ॥
2.3.28 · p. 284
उपजातिः
प्रोष्ठः सधिः शाक्वर-शांकरौ चमहोक्षनामोक्षतरः स उक्तः ।वृद्धोक्ष उक्तोऽतिजरद्गवोऽथजातोक्षसंज्ञः स च जात उक्षा ॥ २९ ॥
2.3.29 · p. 284
उपजातिः
स्कन्धवाही स्कान्धिकः स्यादार्षभ्यः षण्ढतोचितः ।इट्वरो गोपतिः षण्ढो गोवृषो मदकोहलः ।स्यात्कूलमुद्रुजोऽनड्वान्यो दृप्तः कूलमुद्रुजन् ।शकृत्करिस्तु वत्सः[135b] स्याद्दम्य-वत्सतरौ समौ ॥ ३० ॥
2.3.30 · p. 284
अनुष्टुप्metre not read in every line
सद्योजातस्तर्णकोऽसौ द्विदन्षोडन्द्विषड्रदौ ॥ ३१ ॥
2.3.31 · p. 284
शृङ्गवाञ्शृङ्गिणः शृङ्गी कूटो भग्नविषाणकः ।काले त्वजातशृङ्गोऽसौ तूवरः समुदीरितः ॥ ३२ ॥
2.3.32 · p. 285
अनुष्टुप्
नस्योतो नस्तितो नाथ हरिर्नस्यां वहन्नसि ।स्यात्कूलमुद्वहः कूलं पष्ठवाड्युगपार्श्वगः ॥ ३३ ॥
2.3.33 · p. 285
अनुष्टुप्
वहंलिहश्च प्रासङ्ग्यः शाकटस्तद्वहः पृथक् ।तद्वोढा तेन खनतीत्यादौ हालिक-सैरिकौ ॥ ३४ ॥
2.3.34 · p. 285
अनुष्टुप्
धुर्यो धुरीणो धौरेयो धूर्वहश्च धुरंधरः ।उभावेकधुरीणैकधुरावेकधुरावहे ॥ ३५ ॥
2.3.35 · p. 285
अनुष्टुप्
गलिः शक्तोऽप्यधूर्वोढा त्रिषु स्युः स्कान्धिकादयः ।औक्षकं तूक्षवृन्देऽन्त्येऽथोक्ष्णः स्यादिदमादिषु ।औक्षमौक्ष्णं त्वपत्येऽस्य गव्या गोत्रे गवां व्रजे ॥ ३६ ॥
2.3.36 · p. 285
अनुष्टुप्
धेनूनां धैनुकं वृन्दे वत्सानां वात्सकं गणे ।आधेनवं त्वधेनूनां स्याद्धेन्वनडुहं पुनः ॥ ३७ ॥
2.3.37 · p. 285
अनुष्टुप्
धेनोर्वृषस्य च[136a] द्वंद्वे स्कन्धस्त्वस्य वहः स्मृतः ।ककुदं कुकुदं न स्त्री यद्वृषस्यांसकूटकम् ॥ ३८ ॥
2.3.38 · p. 285
अनुष्टुप्metre not read in every line
नैचिकं तु शिरोऽथास्त्री शृङ्गं स्यात्कूणिका स्त्रियाम् ।विषाणी च विषाणा च स्वत एव त्रिलिङ्गभाक् ॥ ३९ ॥
2.3.39 · p. 285
अनुष्टुप्
नाथस्तु नासारज्जुर्या सास्ना तु गलकम्बलः ।गौरुस्राध्न्याप्यनड्वाही माता माहानडुह्यपि ॥ ४० ॥
2.3.40 · p. 285
अनुष्टुप्
सौरभेयी च माहेयी तम्पा तम्बा निलिम्पिका ।उषा शृङ्गिण्यर्जुनी च रोहिणी सुरभिश्च सा ॥ ४१ ॥
2.3.41 · p. 285
अनुष्टुप्
नैचिकी तूत्तमा गोषु सैव स्याद्गोमतल्लिका ।वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः ॥ ४२ ॥
2.3.42 · p. 285
अनुष्टुप्
वशा वन्ध्यावतोका तु स्रवद्गर्भाथ संधिनी ।आक्रान्ता वृषभेणाथ वेहद्या हि वृषोपगा ॥ ४३ ॥
2.3.43 · p. 286
अनुष्टुप्
गर्भोपघातिनी चाथ प्रष्ठौही यास्ति गर्भिणी ।असिक्नी च पलिक्नी च या गौः स्याद्बालगर्भिणी ।काल्योपसर्या प्रजने धेनुः स्यान्नवसूतिका ॥ ४४ ॥
2.3.44 · p. 286
अनुष्टुप्
धेनुंभव्या भविष्यन्ती धेनुर्या सुव्रता पुनः ।सुखदो[136b]ह्याथ करटा यातिदुःखेन दुह्यते ॥ ४५ ॥
2.3.45 · p. 286
अनुष्टुप्metre not read in every line
सुकरा स्यादचण्डी सा परेष्टुर्बहुसूतिका ।गृष्टिः सकृत्प्रसूता या बहुदुग्धा तु वञ्जुला ॥ ४६ ॥ ॥
2.3.46 · p. 286
अनुष्टुप्doubled daṇḍa: ॥ ॥
प्रौढवत्सा बष्कयिणी पीनोध्नी पीवरस्तनी ।अत्यूध्नी वन्दितोध्नी स्याद्व्यूध्नी तु द्विगुणस्तनी ॥ ४७ ॥
2.3.47 · p. 286
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
द्रोणक्षीरा द्रोणदुग्धा धेनुष्या पीतदुग्धका ।उत्तमर्णगृहे यावदृणमुक्तिं स्थिता हि या ॥ ४८ ॥
2.3.48 · p. 286
अनुष्टुप्
अद्यश्वीना तु सा गोः स्याद्याद्यश्वो वा विजायते ।सुपुच्छी तु सुपुच्छा स्याच्चित्रपुच्छा तु सा भवेत् ॥नित्यं कम्बरपुच्छ्येव व्याघ्रपुच्छी तु तादृशी ।समांसमीना प्रत्यब्दं या सूतेऽमी तु भेद्यवत् ॥ ४९ ॥
2.3.49 · p. 286
अनुष्टुप्
गवां मले गोमयोऽस्त्री भूमिलेपनमित्यपि ।साढो गोग्रन्थिरुपलोत्पले न स्त्री करीषवत् ॥पिष्टकं छगणं छाणं शुष्के गोमूत्र-गोजले ।आपीनोऽस्त्री क्लीबमूधः कीलः पुष्पलकः शिवः ॥तिष्ठद्गु त्वव्ययं दोहसमयः क[137a]थितो गवाम् ।स्यादायतीगवं तद्वद्यत्रागच्छन्ति धेनवः ॥ ५० ॥
2.3.50 · p. 286
अनुष्टुप्metre not read in every line
दारागवोः पुनर्द्वंद्वे क्लीबे दारगवं भवेत् ।नपुंसि दाम * * * * * * * समन्विता ।उद्दामानं तथोद्दामां प्राहुरुत्कृष्टदामनीम् ॥ ५१ ॥
2.3.51 · p. 286
अनुष्टुप्metre not read in every line
पशुरज्जुर्दामनी स्यात्प्रजनोपसरौ समौ ।द्रोणी गवादनी च स्त्री गवादेर्भक्ष्यभाजनम् ।गोगोयुगं तु गोयुग्ममेवं स्यादुष्ट्रगोयुगम् ॥ ५२ ॥
2.3.52 · p. 286
अनुष्टुप्metre not read in every line
गोषड्गवं गवां षट्त्वं तद्वत्स्यादुष्ट्रषड्गवम् ।अजः शुभोऽपि जाबालश्छगलश्छागलश्छगः ॥ ५३ ॥
2.3.53 · p. 286
अनुष्टुप्
वस्तः स्तभः पशुश्छागोऽथाजा छागी गलस्तनी ।सर्वभक्षा च मञ्जाथ वर्करस्तरुणः पशुः ॥ ५४ ॥
2.3.54 · p. 286
अनुष्टुप्
वाध्रीणस * * * * पशुभेदाः प्रकीर्तिताः ।अजथ्या*[स्या]द्भेद्यलिङ्गा हिताजाया अजस्य वा ॥ ५५ ॥
2.3.55 · p. 286
metre not recognised
तथाविथ्याप्यथाजस्य भिषक्स्याच्छागलेमिनः ।आजकं त्वजवृन्देऽन्त्ये मेण्ढस्तूर्णायुरेडकः ॥ ५६ ॥
2.3.56 · p. 286
अनुष्टुप्
अविर्हुडुरजो वृष्णिरुरणोर[137b]भ्र-रोमशाः ।मेषोऽस्त्री भेड-संफाल-शृङ्गिणो अविको धनुः ॥ ५७ ॥
2.3.57 · p. 286
अनुष्टुप्metre not read in every line
जालकिन्यविला वेणी कुररी चरुजापि सा ।पृष्ठशृङ्गो वनाजः स्यादैडिकः शिशुवाहकः ॥ ५८ ॥
2.3.58 · p. 286
अनुष्टुप्
ऊर्णा मेषादिलोम्नि स्त्री वृन्दे त्वौरभ्रकं मतम् ।ऊर्णायास्तु विकारे स्यादौर्णमौर्णकमन्त्यवत् ।कम्बल्यं कम्बलीया तु नामनि * * * * * ।संघातोऽवेरविकटोऽविपटस्त्वविविस्तृतौ ॥ ५९ ॥
2.3.59 · p. 286
अनुष्टुप्metre not read in every line
अविसोढं चाविदूसं भवेदविमरीसवत् ।अविक्षीरे महाङ्गस्तु मय उष्ट्रः क्रमेलकः ॥ ६० ॥
2.3.60 · p. 286
अनुष्टुप्
मरुप्रियः केलिकीर्णो दीर्घग्रीवः शिशुः शलः ।द्विककुद्भोलि-वासन्त-रवणाः कण्टकाशनः ॥ ६१ ॥
2.3.61 · p. 286
अनुष्टुप्
दासेरकश्च भूतघ्नो वारणो दुर्गलङ्घनः ।ललज्जिह्वो मया तूष्ट्रा करभः स त्रिहायणः ॥ ६२ ॥
2.3.62 · p. 288
अनुष्टुप्
औष्ट्रकं तूष्ट्रवृन्देऽन्त्ये चिरमेही तु गर्दभः ॥ ६३ ॥
2.3.63 · p. 288
चक्रीवांश्चक्रवालश्च बालेयो रासभः खरः ।शङ्कुकर्णो[138a]थाश्वतरे स्तो वेगसर-वेसरौ ॥ ६४ ॥
2.3.64 · p. 288
अनुष्टुप्metre not read in every line
सर्जूः स्त्री वाणिजवणिक्तुलाधारश्च नीवरः ।क्रयिको नैगमः सार्थवाहो विक्रयिकश्च सः ॥पण्याजीवो ह्यापणिकः क्रयविक्रयिकोऽपि सः ।वैदेहिको वस्निकश्च क्रायिकः क्रयिकः क्रयी ॥ ६६ ॥
2.3.66 · p. 288
अनुष्टुप्
कन्यापालः पालवणिक्कन्याजीवश्च स स्मृतः ।मूल्यं निमानं वस्नोऽस्त्री पुंस्यर्घोऽवक्रयस्तथा ।नीवी परीणयो मूलं लाभोऽधिकफलं हि यत् ॥ ६७ ॥
2.3.67 · p. 288
अनुष्टुप्
वैलाभ्यं तु विलाभत्वं स्त्रियां भावे विलाभता ।विलाभिमा पुंसि च स्याद्विलाभो मूलसंक्षयम् ॥उपधानं तूपनिधिर्न्यासोऽनाख्याय भाण्डगम् ।वस्तु न्यस्तं परकरे स्थापितं तु प्रकाश्य यत् ॥स निक्षेपोऽथ तद्दानं प्रतिदानमुदीरितम् ।क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं क्रयाय यत् ॥ ६९ ॥
2.3.69 · p. 288
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
पणितव्यं तु विक्रेयं पण्यं पन्यं च तादृशम् ।विक्रीतं पणितं च स्यात्पनितं च पणायितम् ॥ ७० ॥
2.3.70 · p. 288
अनुष्टुप्
क्रे[138b]यादयोऽन्यलिङ्गाः स्युर्विपणो विक्रयः समौ ।तुला तु तोलनामत्रं पात्रं पाण-धटौ समौ ॥ ७१ ॥
2.3.71 · p. 288
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रग्राहस्तु तुलासूत्रमुद्गीर्णं तोलितोद्यते ।तुला सम्मितं तुल्यमुद्गीर्णाद्या विशेष्यगाः ।त्रिषु क्रीतादिके गौपुच्छिकं क्रीतं हि तेन यत् ॥ ७१ ॥
2.3.71 · p. 288
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
निष्केण नैष्किकं क्रीतं तथा परमनैष्किकम् ।पाणिकं पादिकं च स्यात्प्रास्थिकं द्रौणिकं तथा ॥ ७२ ॥
2.3.72 · p. 289
अनुष्टुप्
षाष्टिकं स्यात्साप्ततिकं क्रीतं यत्स्यात्पणादिभिः ।शत्यं च शतिकं चाश्वशतं स्याच्छतकः पुनः ॥ ७३ ॥
2.3.73 · p. 289
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सा (wrong syllable)
परिमाणं यस्य शतं पञ्चक्रीतं तु पञ्चकम् ।कतिकं कतिभिः क्रीतं भवेत्तावतिकं पुनः ॥ ७४ ॥
2.3.74 · p. 289
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
तावत्कं चाथ विंशत्या क्रीतादि स्याच्च विंशकम् ।असंज्ञायां कंसिकी तु कंसक्रीत्यर्द्धिकी तथा ॥ ७५ ॥
2.3.75 · p. 289
अनुष्टुप्