दुर्गलङ्घन
durgalaṅghanaपुं · masc.In 4 kośas: 4 synonym verses.
वेसरोऽश्वतरो वेगसरश्चाथ क्रमेलकः ।कुलनाशः शिशुनामा शलो भोलिर्मरुप्रियः ॥ १२५३ ॥मयो महाङ्गो वासन्तो द्विककुद्दुर्गलङ्घनः ।भूतघ्न उष्ट्रो दाशेरो रवणः कण्टकासनः ॥ १२५४ ॥दीर्घग्रीवः केलिकीर्णः करभस्तु त्रिहायणः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शु (wrong syllable)
genderपुंmasc.
दासेरकश्च भूतघ्नो वारणो दुर्गलङ्घनः ।ललज्जिह्वो मया तूष्ट्रा करभः स त्रिहायणः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
वासन्तो द्विककुद्दुर्गलङ्घनो मय इत्यपि ।दासेरोष्ट्रौ केलिकीर्णो रवणो दीर्घकन्धरः ॥ १६३ ॥
अनुष्टुप्
genderपुंmasc.
कुलनाशः शलः भोलिः कुलनाशः क्रमेलकः ।द्विककुद्दीर्घग्रीवश्व दाशेरो दुर्गलङ्घनः ॥ २२६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्घ (wrong syllable)
genderपुंmasc.