कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अश्वतर

aśvataraपुं · masc.

In 11 kośas: 13 synonym verses, 2 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.62 · p. 48
वेसरोऽश्वतरो वेगसरश्चाथ क्रमेलकः ।कुलनाशः शिशुनामा शलो भोलिर्मरुप्रियः ॥ १२५३ ॥मयो महाङ्गो वासन्तो द्विककुद्दुर्गलङ्घनः ।भूतघ्न उष्ट्रो दाशेरो रवणः कण्टकासनः ॥ १२५४ ॥दीर्घग्रीवः केलिकीर्णः करभस्तु त्रिहायणः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शु (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1311 · p. 50
अथ कम्बलाश्वतरधृतराष्ट्रबलाहकाः ।इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥ १३११ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.450 · p. 52
शिविका याप्ययानं स्याद्वेसरोऽश्वतरो मतः ।पदातपत्तिपादातपदातिकपदातयः ।पद्गश्च पदगश्चेति कथ्यन्ते पादचारिणः ॥ ४५० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.12 · p. 365
बलाहकश्चाश्वतर इत्याद्यास्तत्कुलाधिपाः ।तत्तल्लक्षणसंयुक्तास्तत्तत्कुलसमुद्भवाः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.64 · p. 288
चक्रीवांश्चक्रवालश्च बालेयो रासभः खरः ।शङ्कुकर्णो[138a]थाश्वतरे स्तो वेगसर-वेसरौ ॥ ६४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.162 · p. 72
अथ वेगसरो वेसरस्तथाश्वतरः स्मृतः ।क्रमेलकः कुलनाशः शलो भोलिर्महाङ्गकः ॥ १६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.70 · p. 368
वेसरोऽश्वतरो वेगसरोऽश्वस्य भिदा भवेत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2368 · p. 382
अथ कम्बलाऽश्वतरधृतराष्ट्रबलाहकाः ।महानीलोऽपि नागोऽस्ति विशिष्टकुलसम्भवः ॥ २३६८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.300 · p. 41
शेषोऽनन्तो वासुकिरहिराडथ शङ्खतक्षकाश्वतराः ।कम्बलगुलिकस्वस्तिककर्कोटकशङ्खचूडकौरव्याः ॥ ३०० ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.745 · p. 95
खलीनोऽस्त्री समानौ तु वेसराश्वतरौ समौ ।वडवायां समुत्पन्नौ मूकः कुण्डश्च वेसरात् ॥ ७४५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव पातालवर्गः Trikāṇḍaśeṣa 1.7.8 · p. 25
तद्बन्धवस्तु कुमुदकम्बलाश्वतरादयः ।पुरी भोगवती चैषां भोगिन्यो नागकन्यकाः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.44 · p. 68
वाताश्वतात्याजानेयो वेशरोऽश्वतरः खरः ।श्रीवृक्षोऽस्य हृदावर्तो रोचमानो गलोद्भवः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.108 · p. 113
अह्नाश्वगम्यमाश्वीनं त्रिष्वेतेऽश्वतरः पुनः ।स्थाद्वेसरो वेगसरो मूकरुण्डौ तु वेसरात् ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.68 · p. 176
अरुष्करः स्याद्वणकृद्भल्लातकमरुष्करम् ।अश्वतरो नागराजे गोपुत्रे चापि गर्दमे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.6 · p. 332
विष्णौ मतश्चक्रधरो भुजङ्गेस्याद्ग्रामजालिन्यथ नागराजे ।स्याद्वेसरे चाश्वतरोऽथ वीर-तरं शरे वीरणके च षण्ढे ॥ ६ ॥
उपजातिः

अश्वतर as a meaning in nānārtha verses

  • कोषकल्पतरु मयभयं तु घोरे कथितं च भीतौ कुब्जप्रसूनेऽथ मयस्तथोष्ट्रे । स्याद्दैत्यतक्ष्ण्यश्वतरे लयस्तु संश्लेषतौर्यत्रिकसाम्ययोश्च ॥ ४ ॥ Koṣakalpataru 6.26.4
  • कोषकल्पतरु प्रखरस्यात्सारमेयेऽश्वतरे तुरङ्ग- सेनाहकेऽन्यत्र भृशं खरे च । शैलाग्रकेऽस्त्री शिखरो द्रुमाग्रे स्यात्कोटिकक्ष्यापुलकेषु तद्वत् ॥ ९१ ॥ Koṣakalpataru 6.27.91
  • शब्दरत्नावली गोकर्णगोकर्णोऽनामिकाङ्गुष्ठमाने चाश्चतरेऽपि च । मृगसर्पगणे पुंसि गोकर्णीमूर्विकाद्रुमे ॥ Śabdaratnāvalī 7.15.34
  • शब्दरत्नावली मयअथ भाग्यं क्लीबलिङ्गं स्याच्छुभाशुभकर्मणोः । मयो दैत्ये च करभे शिल्पिन्यश्वतरेऽपि च ॥ मध्यमस्त्री विलग्ने स्यान्न्याय्येऽन्तरेऽधमे त्रिषु । मत्स्याः पुंभूम्नि देशे तु मीने नारायणे पुमान् ॥ मन्युर्ना दैन्यशोकेष्टिक्रोधेष्वहङ्कृतौ क्वचित् ॥ Śabdaratnāvalī 7.26.22
  • शब्दरत्नावली प्रखरनिकारः स्यात्तिरस्कारे धान्योत्क्षेपणकेऽपि च । निष्ठुरं निर्भरे सारे निर्लज्जे कठिनेऽन्यवत् ॥ प्रवरं गोत्रसन्तत्योः क्लीबं श्रेष्ठेऽभिधेयवत् । प्रखरो वाजिसन्नाहकुक्कुराश्वतरेषु ना ॥ Śabdaratnāvalī 7.27.81