वारण
vāraṇaपुं · masc.In 20 kośas: 25 synonym verses, 8 as a nānārtha head word, 16 as a meaning of another word.
हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः ।स्तम्बेरमद्विरदसिन्धुरनागदन्तिनो दन्तावलः करटिकुञ्जरकुम्भिपीलवः ॥ १२१७ ॥इभः करेणुर्गर्जोऽस्य स्त्री धेनुका वशापि च ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
genderपुंmasc.
दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ।मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥ ३४ ॥इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः ।
अनुष्टुप्
genderपुंmasc.
मातङ्गद्विरदद्विपाः करिगजस्तम्बेरमानेकपाः,कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी,हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
माषाशी महिषद्वेषी पुरुषः सिंहविक्रमः ।दन्तावलः कुञ्जरश्च महाकायस्तु वारणः ॥ ३२२ ॥
अनुष्टुप्
genderपुंmasc.
हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले ।उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ।नागो यमो वारणश्च कण्डुकः पञ्चमवल्लभः ॥ १२३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
विमानेऽथ वराङ्गः स्याद्वारणो मृग इत्यपि ।हस्ती दन्तावलो दन्ती सिन्धुरो दीर्घमारुतः ॥ १४२ ॥
अनुष्टुप्
genderपुंmasc.
ध्वजोऽतिभारगो मिश्रशब्दोऽप्यथ महामृगाः ।वराहमहिषन्यङ्कुरुरुरोहितवारणाः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
दीर्घप्राण-विषाणि-वारण-महादाना द्विपायी जटीस्याच्छूर्पश्रवणो विलोमरसनश्चोच्चैर्मृगः सामजः ॥ ८४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
दासेरकश्च भूतघ्नो वारणो दुर्गलङ्घनः ।ललज्जिह्वो मया तूष्ट्रा करभः स त्रिहायणः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
स्तम्बेरमो गजो गर्जो द्विरदोऽनेकपो द्विपः ।दन्तावलो महाकायो वारणः कुञ्जरोऽसुरः ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
गजो मतङ्गजो हस्ती वारणोऽनेकपः करी ।दन्ती स्तम्बेरमः कुम्भी द्विरदेभमितङ्गमाः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
झिल्लीका झिल्लिका भृङ्गारिका वर्षकरी पुनः ।हस्ती मतङ्गजो नागो मातङ्गो वारणः करी ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
कुञ्जरो वारणो नागो हस्ति स्तम्बेरमो द्विपः ।इभः पद्मी सामयोनिः पीलुः कुम्भी महामृगः ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
असुरो वारणः कुञ्जः कुञ्जरः पीलुरित्यपि ।महामृगः शूर्पकर्ण समाजसिन्धुरः कपी ॥ २५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
genderपुंmasc.
अनेकपश्च करटी करेणुः पीलुवारणौ ।घोटकस्तुरगो वाजी तुरंगोऽश्वस्तुरंगमः ॥ १५५ ॥
अनुष्टुप्
genderपुंmasc.
वृषभो वारणो वाजी कपिः क्रौञ्चाऽब्जस्वस्तिकाः ।चन्द्रमाः मकराङ्कः श्रीवत्सः खड्गी च सैरिभः ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ब्ज (wrong syllable)
genderपुंmasc.
अन्तः स्वेदस्तथा दीर्घपवनो वारणोऽसुरः ।स्तम्बेरमश्च शुण्डालो दन्तावलश्च कुञ्जरः ॥ २२०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderपुंmasc.
स्तम्वेरमः शूर्पकर्णः सिन्धुरः सामजः कटी ।अन्तःस्वेद इभः पद्मी वारणः दीर्घमारुतः ॥
अनुष्टुप्
genderपुंmasc.
सेनापतौ च सेनानीर्वाहिनीपतिरित्यपि ।कञ्चुकोऽस्त्री वारवाणो वाणवारोऽपि वारणम् ॥
अनुष्टुप्
genderक्लीneut.
मातङ्गः करटीभवारणकरिस्तम्बेरमानेकपाःशुण्डालद्विपहस्तिनागमदमुक्शूर्पश्रवःकुजराः ।वेतण्डद्विरदौ महाबलगजौ दन्तावलः सिन्धुरःपद्मी सामभवो रदी च करिणः कुम्भौ शिरःपिण्डकौ ॥ ६९८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 17 कु (wrong syllable)
genderपुंmasc.
हेरम्बः कृष्णशृङ्गश्च मृगस्तु वलनो लिगुः ।वारणः पेचकी कुम्भी मदवाही महामृगः ॥ १८०६ ॥
अनुष्टुप्
genderपुंmasc.
क्रोधीशो वारणश्चण्डः शङ्का तून्मत्तभैरवः ।ज्वालामुखो रक्तदंष्ट्रोऽसिताङ्गो बलयामुखः ॥
अनुष्टुप्
genderपुंmasc.
गौरावस्कन्दिवन्दीकौ वारणो देवदुन्दुभिः ।महेन्द्रो बाहुदन्तेयस्तुराषाड्वज्रदक्षिणः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
दन्तावलो महाकायो वारणः कुंजरोऽसुरः ।महामृगः शूर्पकर्णः सामजः सिंधुरः कपिः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
आवालमालवालं स्यात्सेतौ वारणसंवरौ ।उदधिः सागरोऽपारो जलराशिरपांपतिः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
वडबायोगिनि प्राह रभसः पुन्नपुंसकम् ।वडबानां गणे द्वे तु वारणः कुञ्जरे त्रि तु ॥ १६५४ ॥
अनुष्टुप्
meaningsकुञ्जर
पुमांस्तु न स्त्रियां रूपभेदाक्षरविलेपने ।वारणो दैत्यान्तरे काण्डे केवले गोस्तनेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वारण as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अलम्अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । Amarakośa 3.3.492
- धरणिकोश अलम्अलं भूषणपर्याप्तिवारणेषु स्मृत[मलम्] । एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥ Dharaṇikośa 34.15.4
- कोषकल्पतरु प्रतिषेधतिसमो द्रविः पलायेऽथाङः श्लेषे लिङ्गतिर्मतः । वारणे स्यात्प्रतेः सेधिस्तद्वन्नेरपि वारणे ॥ आङो विरोधे प्रात्ख्यातावाविर्भाव-विभूषयोः । समः स्वभावसंसिद्ध्योरुदो वृद्धौ समुच्छ्रये ॥ आङस्तञ्चिः प्रतीवापे जवनाप्याययोरपि ॥ ३३ ॥ Koṣakalpataru 3.5.33
- कोषकल्पतरु अपाकरोतिअपाद्भर्त्सनविद्वेषेऽथापाङो वारणे निरः । प्रतीकारे वेर्मुदंते(?) परिणामान्यथात्वयोः ॥ ५७ ॥ Koṣakalpataru 3.5.57
- कोषकल्पतरु प्रहृप्रत्युदः प्रतिदृष्टान्ते समाङः संग्रहे प्रतः । वारणेऽध्याङ ऊहेऽपाच्चौर्यापचयकर्मणि ॥ ४० ॥ Koṣakalpataru 3.5.40
- कोषकल्पतरु कुलृ मङ्गलेऽथो ए ऐस्तः स्मृत्यामन्त्रण-हूतिषु । संबुद्ध्याह्वानयोरो औ कुस्तु वारणकुत्सयोः ॥ ७९ ॥ Koṣakalpataru 5.1.79
- कोषकल्पतरु कञ्चुकपिष्टकविकृतौ तद्व- द्रतताल्यामादिमे प्रोक्तः । कञ्चुकमस्त्री कवचे निर्मोके वारणेऽपि स्यात् ॥ ८९ ॥ Koṣakalpataru 6.1.89
- कोषकल्पतरु प्रवारणपर्वण्यपि स्यादथतन्दुरीणः कीटे तथा तन्दुलतोयके च । प्रवारणं वारणकामदाने- ऽध्वर्यौ हुताशे जुहुराण इन्दौ ॥ ५९ ॥ Koṣakalpataru 6.15.59
- कोषकल्पतरु पर्याप्ततृप्तौ च शक्ते त्रिषु वारणेऽन्त्ये- ऽथेन्द्रे घने भूभृति देवताडे । भृत्ये च जीमूतमुशन्ति सन्तः स्यादेधतुर्विष्णुहुताशपुंस्सु ॥ १५ ॥ Koṣakalpataru 6.16.15
- कोषकल्पतरु कुञ्जरकुञ्जरो न स्त्रियां वारणे स्यात्कचे घातकीवाचकः सम्मतः स स्त्रियाम् । पञ्जरोऽस्त्री[55a]मतः पक्षिबन्धस्थले बन्धमात्रेऽप्यथो पिञ्जरं हेमनि ॥ २५ ॥ Koṣakalpataru 6.27.25
- नानार्थार्णवसंक्षेप संसरणघण्टापथे जन्मनि च वारणेऽप्याह सज्जनः । संसार उक्त्वा भूयोऽपि संसृतावजयोऽब्रवीत् ॥ ४६ ॥ Nānārthārṇavasaṃkṣepa 6.46
- शारदीयाख्यनाममाला सारङ्गवीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाः चन्द्रश्चातकचञ्चरीकजलमुक्चापासिवज्राहयः । हंसः कोकिलकेकिकीरगरुडः स्वर्णानिलार्कास्तमो गुञ्जा श्रीफलपद्मदीपखटीकाः सारङ्गशब्दा इमे ॥ १२७ ॥ Śāradīyākhyanāmamālā 3.5.127
- शब्दरत्नावली निराकृतिनिराकृतिरनध्याये इनाकारे वारणे स्त्रियाम् । भवेत्परिगतः प्राप्तज्ञातविस्मृतवेष्टिते ॥ अथ प्रणिहितं प्राप्ते न्यस्तेऽपि च समाहिते । पल्लवितं विस्तृते स्याल्लाक्षारक्ते सपल्लवे ॥ अथ प्रतिहतं रुद्धे द्विष्टस्खलितयोस्त्रिषु ॥ Śabdaratnāvalī 7.16.166
- शब्दरत्नावली कञ्जारशबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् । कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥ कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् । कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥ करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् । करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥ Śabdaratnāvalī 7.27.60
- शब्दरत्नावली कक कुत्सायामीषदर्थे पापवारणयोरपि ॥ Śabdaratnāvalī 8.1.14
- शब्दरत्नावली मामा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48