क्रमेलक
kramelakaपुं · masc.In 16 kośas: 16 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
वेसरोऽश्वतरो वेगसरश्चाथ क्रमेलकः ।कुलनाशः शिशुनामा शलो भोलिर्मरुप्रियः ॥ १२५३ ॥मयो महाङ्गो वासन्तो द्विककुद्दुर्गलङ्घनः ।भूतघ्न उष्ट्रो दाशेरो रवणः कण्टकासनः ॥ १२५४ ॥दीर्घग्रीवः केलिकीर्णः करभस्तु त्रिहायणः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शु (wrong syllable)
genderपुंmasc.
उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः ।करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शृ (wrong syllable)
genderपुंmasc.
दासेरकः क्रमेलक उष्ट्रो मयरवणकरभशृङ्खलकाः ।बालेयश्चक्रीवान् खरगर्दभरासभाश्च तुल्यार्थाः ॥ २८० ॥
गीतिः
genderपुंmasc.
अवतोका वताका च दामदामे उभे समे ।मन्यो मन्थाश्च (मन्था च?) कथितः क्रमेलः स्यात क्रमेलकः ॥ २४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
क्लीबे दामं स्त्रियां रञ्जुर्दामन्युष्ट्रः क्रमेलकः ।वक्रग्रीवो बहुकरो वासन्तः कण्टकाशनः ॥ ४६७ ॥
अनुष्टुप्
genderपुंmasc.
अविसोढं चाविदूसं भवेदविमरीसवत् ।अविक्षीरे महाङ्गस्तु मय उष्ट्रः क्रमेलकः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
अथ वेगसरो वेसरस्तथाश्वतरः स्मृतः ।क्रमेलकः कुलनाशः शलो भोलिर्महाङ्गकः ॥ १६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
उष्ट्रे महाङ्गो मयटो मयः शुन्धी क्रमेलकः ।करभे स्याच्छृङ्खलको बन्धिते स तु बालकः ॥ ५०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छृ (wrong syllable)
genderपुंmasc.
शीतलाश्वो लम्बकर्णो रासभो धूसरः खरः ।उष्ट्रवामी वेसराख्यो लम्बग्रीवः क्रमेलकः ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
तम्पा तम्बार्जुनी धेनुर्माहेयी च निलिम्पिका ।क्रमेलकोष्ट्रकरभा दासेरः कण्टकाशनः ॥ १६२ ॥
अनुष्टुप्
genderपुंmasc.
कुलनाशः शलः भोलिः कुलनाशः क्रमेलकः ।द्विककुद्दीर्घग्रीवश्व दाशेरो दुर्गलङ्घनः ॥ २२६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्घ (wrong syllable)
genderपुंmasc.
उष्ट्रः क्रमेलशरभौ करभः कण्टकाशनः ।तोलिर्बहुकरो वक्रग्रीवो धकरुद्वीपाः(?) ॥मय-वासन्त-लम्बोष्ठमहाङ्गाश्च क्रमेलकः ।उष्ट्रस्य शिशवो ये स्युः करभाः करभाश्च ते ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अप्युष्ट्रे तु मय-मयू क्रमेलश्च क्रमेलकः ।दाशेरकः सदाशेरः उक्ष्णि शक्वर-शाक्वरौ ॥ ३०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderपुंmasc.
महाङ्गमयदाशेररवणोष्ट्रक्रमेलकाः ।टङ्कणः पादबन्धैस्तु दारवैः करभः शिशुः ॥ ७४६ ॥
अनुष्टुप्
genderपुंmasc.
करभश्च मयस्तूष्ट्रो महाग्रीवः क्रमेलकः ।दाशेरकश्च रवणः करभः स्यादसौ शिशुः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
उग्री क्रमेलकं तस्मान्निर्णेक्ता रजकश्च सः ।सोपाकं पुल्कसी निष्ट्याच्चण्डालादिति के चन ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कश्मीरजं कुङ्कुमे स्यात् त्रि तु कश्मीरसम्भवे ।क्रमेलको द्वे स्यादुष्टे मर्त्यजात्यन्तरे तथा ॥ १५३ ॥
अनुष्टुप्
क्रमेलक as a meaning in nānārtha verses
- कोषकल्पतरु ललजिह्वललजिह्वः शुनि हिंस्रे क्रमेलके स्त्री तु दूर्वायाम् । भार्गवनार्यामपि शतपर्वा स्यात्तु पञ्चाङ्गे ॥ ३८ ॥ Koṣakalpataru 6.29.38