कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मय

mayaपुं · masc.

In 20 kośas: 19 synonym verses, 6 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.62 · p. 48
वेसरोऽश्वतरो वेगसरश्चाथ क्रमेलकः ।कुलनाशः शिशुनामा शलो भोलिर्मरुप्रियः ॥ १२५३ ॥मयो महाङ्गो वासन्तो द्विककुद्दुर्गलङ्घनः ।भूतघ्न उष्ट्रो दाशेरो रवणः कण्टकासनः ॥ १२५४ ॥दीर्घग्रीवः केलिकीर्णः करभस्तु त्रिहायणः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.75
उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः ।करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शृ (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.280 · p. 34
दासेरकः क्रमेलक उष्ट्रो मयरवणकरभशृङ्खलकाः ।बालेयश्चक्रीवान् खरगर्दभरासभाश्च तुल्यार्थाः ॥ २८० ॥
गीतिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.319 · p. 95
नदभो गर्दभश्चापि … ।मयस्तूष्ट्रो मवाग्रीवो वक्राङ्गः पार्वतीप्रियः ॥ ३१९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.468 · p. 184
तालुनाशश्च लम्बौष्ठोऽध्वगो भोलिर्मरुप्रियः ।शलो महाङ्गश्च मयो दुर्गपर्यायलङ्घनः ॥ ४६८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.18 · p. 363
संवरोऽप्यथ मायावी स्यान्मयः कालनेमिनि ।कालनेमिरितीत्याद्या दैत्यकालेयदानवाः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.60 · p. 286
अविसोढं चाविदूसं भवेदविमरीसवत् ।अविक्षीरे महाङ्गस्तु मय उष्ट्रः क्रमेलकः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
एते शब्दाः सदा पुंसि भवन्ति । यथा पाषाणः प्रस्तरः । उपलः शिला पाषाण एव । शृङ्गारो विदग्धता । प्रस्थः परिमाणम् । भृङ्गारः सुवर्णमयः कलशः । मस्तकः शिरः । स्तबकः पुष्पोत्करः । शब्दो ध्वनिः । रसो माधुर्यादिः । स्पर्शो मृदुकर्कशादिः । गन्धो नासिकाग्राह्यः कुसुमादेः । रूपं मुक्त्वा रूपं विहाय ।रूपं नपुंसके भवति । इदं रूपं चक्षुर्ग्राह्यम् ।शेखरयूपपुरोडाशकूपसूपलवशष्पाः ।धर्ममयवासोदशादाराः पुंसि बहुत्वं चैषाम् ॥ ५५ ॥
metre not recognised
genderपुंmasc.
एते शब्दाः पुंसि भवन्ति । अयं शेखरः पुष्पसङ्घातः उत्तुङ्गो वा । यूपो यज्ञभाण्डम् । पुरोडाशो यज्ञपिण्डकिः । कूपोऽवटः । सूपो व्यञ्जनम् । लवो लेशः । शष्पो बालतृणम् । धर्म उपवासादिः । मयो वेश्म । वासांसि वस्त्राणि तेषां दशाः । दाराः स्त्रियश्च पुंसि भवन्ति बहुत्वं चैषां सदा भवति । इमे वासोदशाः वस्त्रान्तसूत्रम् । इमे दाराः स्त्रियः । वास इति किम् । दशा अवस्था ।मांसविवराभिधानं नपुंसके विद्धि तीर्थतुण्डे च ।यवमाषाद्या व्रीहयः पुंसि प्रियङ्गवश्च स्त्रियामेव ॥ ५६ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.99 · p. 20
करभश्च मयस्तूष्ट्रो महाग्रीवस्तु वर्तकः ।भषकः सारमेयः स्याच्छ्वा शुनो मृगदंशकः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 91 · p. 46
क्रोडो वराहो दंष्ट्री च घृष्टिः पोत्री च शूकरः ।उष्ट्रो मयः शृंखलिकः कलभः शीघ्रगामुकः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.163 · p. 72
वासन्तो द्विककुद्दुर्गलङ्घनो मय इत्यपि ।दासेरोष्ट्रौ केलिकीर्णो रवणो दीर्घकन्धरः ॥ १६३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.508 · p. 91
उष्ट्रे महाङ्गो मयटो मयः शुन्धी क्रमेलकः ।करभे स्याच्छृङ्खलको बन्धिते स तु बालकः ॥ ५०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छृ (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2264 · p. 368
उष्ट्रो मयो महाङ्गश्व खप्पः कण्टकाशनः ॥ २२६४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.145 · p. 147
उष्ट्रः क्रमेलशरभौ करभः कण्टकाशनः ।तोलिर्बहुकरो वक्रग्रीवो धकरुद्वीपाः(?) ॥मय-वासन्त-लम्बोष्ठमहाङ्गाश्च क्रमेलकः ।उष्ट्रस्य शिशवो ये स्युः करभाः करभाश्च ते ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.303 · p. 243
अप्युष्ट्रे तु मय-मयू क्रमेलश्च क्रमेलकः ।दाशेरकः सदाशेरः उक्ष्णि शक्वर-शाक्वरौ ॥ ३०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.746 · p. 95
महाङ्गमयदाशेररवणोष्ट्रक्रमेलकाः ।टङ्कणः पादबन्धैस्तु दारवैः करभः शिशुः ॥ ७४६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश यक्षाद्यध्यायः Vaijayantī 1.3.7 · p. 15
त्वष्टा नाम स देवानां मयो नाम सुरद्विषाम् ।सनत्कुमारो वैधात्रो नारदः कलहप्रियः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.67 · p. 70
करभश्च मयस्तूष्ट्रो महाग्रीवः क्रमेलकः ।दाशेरकश्च रवणः करभः स्यादसौ शिशुः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास यपादः Dharaṇikośa 25.1.3 · p. 148
मय उष्ट्रे दैत्यभेदे मन्युर्दैन्ये क्रतौ क्रुधि ।स्मयौ गर्वाद्भुतौ ज्ञेयौ गोप्यौ संरक्ष्यचेटकौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.4 · p. 286
भयं तु घोरे कथितं च भीतौकुब्जप्रसूनेऽथ मयस्तथोष्ट्रे ।स्याद्दैत्यतक्ष्ण्यश्वतरे लयस्तुसंश्लेषतौर्यत्रिकसाम्ययोश्च ॥ ४ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.937 · p. 123
क्ली स्त्रीभूम्नि मघा अग्निनक्षत्रे कालमात्रके ।तद्युक्तेऽथ मयः पुंसि दैत्यतक्षणि हिंसने ॥ ९३७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.938 · p. 123
प्रक्षेपणे च द्वे तूष्ट्रे तथाश्वेऽथो मलोऽस्त्रियाम् ।स्यात् पापकिट्टविष्ठासु वातादिषु च नप् पुनः ॥ ९३८ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.22 · p. 259
अथ भाग्यं क्लीबलिङ्गं स्याच्छुभाशुभकर्मणोः ।मयो दैत्ये च करभे शिल्पिन्यश्वतरेऽपि च ॥मध्यमस्त्री विलग्ने स्यान्न्याय्येऽन्तरेऽधमे त्रिषु ।मत्स्याः पुंभूम्नि देशे तु मीने नारायणे पुमान् ॥मन्युर्ना दैन्यशोकेष्टिक्रोधेष्वहङ्कृतौ क्वचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.319 · p. 203
स्यान्माया शाम्बरीबुद्ध्योर्दैत्यशिल्प्युष्ट्रयोर्मयः ।ययुरश्वे क्रतुहये रूप्यं त्रिषु सुरूपके ॥ ३१९ ॥
अनुष्टुप्

मय as a meaning in nānārtha verses