कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पाणियुग

pāṇiyugaपुं · masc.

In 1 kośa: 2 synonym verses.

विषसञ्ज्ञाः पुंसि भवन्ति । हालाहलः कालकूटः ब्रह्मपुत्रः । विषं नपुंसकम् । इदं विषं सर्पशरीरजं च । तिथिशब्दो वा विभाषया स्त्रीलिङ्गे भवति पुंल्लिङ्गश्च । यथा इयं तिथिः । अयं तिथिः । अतिथिशब्दः पुंसि भवति । अयमतिथिरभ्यागतः । शकृदित्यादिनीतरप्रकृतौ नपुंसके भवन्ति । इदं शकृत्पुरीषम् । नीतं घृतम् । शोणितं रुधिरम् ।मुक्त्वा दिनाहनी दिवसनामानि पुंसि स्त्रियां त्विडुडुताराः ।पाणियुगः पुंस्युक्तः स्त्रियां समाश्चैव वर्षाश्च ॥ ४१ ॥
metre not recognised
genderपुंmasc.doubtful
दिनाहनी मुक्त्वा अन्ये दिवसपर्यायाः पुंसि भवन्ति । अयं दिवसो वासरः घस्रः सूर्यकर इत्यादिः । दिनाहनी नपुंसके भवतः । इदं दिनमहः । स्त्रियां त्विडुडुताराः । त्विडादयः शब्दाः स्त्रियां भवन्ति । इयं त्विट् कान्तिः । इयमुडुर्नक्षत्रम् । इमास्ताराः नक्षत्राणि । पाणियुगः पुंसि भवति । अयं पाणियुगः । पाणियुगग्रहणमन्ययुगनिवृत्त्यर्थम् ।भवति नपुंसकयोगः सङ्ख्यापूर्वस्य रात्रिशब्दस्य ।ससमासस्य तु तस्यैव पुंसि योगं वि[न]जानीयात् ॥ ४२ ॥
metre not recognised
genderपुंmasc.doubtful