तिथि
tithiस्त्री · fem.In 17 kośas: 21 synonym verses, 22 as a meaning of another word.
तिथिः पुनः कर्मवाटी प्रतिपत्पक्षतिः समे ॥ १४७ ॥
metre not recognised
genderस्त्रीfem.
कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः ।प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
माश्च मासश्च तुल्यौ द्वौ तिथी तिथिरपीष्यते ।पौर्णमासी पूर्णमासी पूर्णिमा पूर्णमा तथा ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमाधार्मिक-तिथयश्चन्द्रकलाः पञ्चदश भवन्तीह ।शुक्रार्चिषः शशिकला विद्यादेव्यस्तु षोडश भवन्तीह ॥ २५ ॥
metre not recognised
genderस्त्रीfem.
आखण्डलः सुरपतिः सुरेशमनुवासवाः ।तिथिः पंचदशः प्रोक्ता नृपभूपति षोडशः ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
घस्रो घ्रंसो घृणिर्द्यौः स्याद्दिवसश्च तिथिर्द्वयोः ।कर्मवाटी तिथी द्वे स्त्री क्लीबेऽहर्दिनमस्त्रियाम् ॥ २ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
वीणाग्रीवा शिंशिपाद्याचीरी ज्योत्स्ना तिथीत्विषाम् ।अङ्गुलीकलशीकङ्गुहिङ्गपत्रीसुरानसाम् ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
द्वयोस्तिथिः कर्मवाटी तैथ्यं तु तिथिजे त्रिषु ।उदयादौदयं शुद्धा षष्टिनाडीमिता तिथीः(थिः?) ।विद्धा सायोदये पूर्वतिथ्या षड्दण्डमानया ॥ ५० ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
अवटु-तिथि-शिलानामुष्णिकाहिङ्गुपत्री-शिमिपृथुकटभीनामङ्गुलीनाकुलीनाम् ।स्फिगतसिजटिलालू-ग्ना-हरिद्राबलाका-मुखजलहरिताली-कङ्गु-गोधा-विधाना[223b]म् ॥ २९ ॥
मालिनी
genderस्त्रीfem.
आदि ना किरणे समुद्भेपतितगवाद्युद्धरणयष्टौ च ।ईतिश्च गर्मुन्निरये तु दुर्गति-र्हस्तस्तु भे मेथितिथी रथस्तथा ।तथाजमोदोपि च कन्दुरीरितोनेमौ प्रधिः स्यादिषुधिर्विधोपि च ॥ २५ ॥
upajati 12metre not read in every line
genderपुंस्त्रीm. f.
एतानि नपुंसकानि स्युः । यथा इदं क्षीरं दुग्धम् । इदमुदस्वित्तक्रविशेषः । नवनीतं दधिविकारः । वर्षं संवत्सरः । कुण्डं पेयादिपात्रम् । अण्डं बीजादिप्रादुर्भावः । घृतमाज्यम् । भगं योनिः । गगनमाकाशम् । ओदनस्तु पुंसि भवति । अयमोदनः भक्तम् । स्त्रियां ज्या च । धनुषो गुणः ।विषसञ्ज्ञाः पुंसि विषं तु नपुंसकं स्यात्स्त्रियां तिथिर्वोक्ता ।अतिथिस्तु पुंसि शकृन्नीतशोणितानीतरप्रकृतौ ॥ ४० ॥
metre not recognised
genderपुंस्त्रीm. f.
विषसञ्ज्ञाः पुंसि भवन्ति । हालाहलः कालकूटः ब्रह्मपुत्रः । विषं नपुंसकम् । इदं विषं सर्पशरीरजं च । तिथिशब्दो वा विभाषया स्त्रीलिङ्गे भवति पुंल्लिङ्गश्च । यथा इयं तिथिः । अयं तिथिः । अतिथिशब्दः पुंसि भवति । अयमतिथिरभ्यागतः । शकृदित्यादिनीतरप्रकृतौ नपुंसके भवन्ति । इदं शकृत्पुरीषम् । नीतं घृतम् । शोणितं रुधिरम् ।मुक्त्वा दिनाहनी दिवसनामानि पुंसि स्त्रियां त्विडुडुताराः ।पाणियुगः पुंस्युक्तः स्त्रियां समाश्चैव वर्षाश्च ॥ ४१ ॥
metre not recognised
genderपुंस्त्रीm. f.
तिथिः स्यात्कर्मवाटी च पक्षान्तौ पर्वणी तथा ।विषुवं विषुवत्तुल्यदिनरात्रावनेहसि ॥ १३५ ॥
अनुष्टुप्
genderस्त्रीfem.
शस्त्री वीणावटुर्वीचिचीरीहिङ्गुतिथीनसः ।ज्योत्स्नापत्री सुरा कङ्गुवीणाकलशिनिम्नगाः ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
केलिर्मौलिर्मरीचिश्च पृश्निस्तिथ्यशनी हलिः ।गव्यूतिः स्वातिबस्तीषुधयोऽहिः पार्ष्णिरप्यथ ॥ ११५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कालो दिष्टोऽप्यनेहापि समयः सम इत्यपि ।घस्रो दिनः समा वारोऽहः क्लीबे तिथिरित्यपि ॥ १३२ ॥
अनुष्टुप्
genderस्त्रीfem.
तिथिस्तु कर्मवाटी स्यात् पक्षतिः प्रतिपत् तथा ।पञ्चदश्यौ यज्ञकालौ पक्षान्तौ चापि पर्वणी ॥ १४० ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतिपत् पक्षती स्त्री द्वे तदाद्यास्तिथयो द्वयोः ।पुंनपुंसकयोर्वारदिवसांशकवासराः ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
निपक्षतिर्द्वितीया स्याद् भूतेष्टा तु चतुर्दशी ।स्त्रीपुंसे तु तिथिः पौर्णमासी पूर्णा च पूर्णिमा ॥ २४१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
अथ स्त्रीपुंसयोः केलिर्मणिर्योनिर्मसिर्मुनिः ।मरीचिः शाल्मलिः स्वातिः श्रेणिर्मुष्टिस्तिथिः सृणिः ॥ १५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
काल्यं प्रभातं स्त्री वोषः सन्धा सन्ध्या पितृप्रसूः ।तिथिर्न षण् कर्मवाटी प्रतिपत्त्वेकपक्षतिः ॥ ६९ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
तिथि as a meaning in nānārtha verses
- धरणिकोश प्रतिपद्आमोदौ हर्षगन्धौ तु दायादौ ज्ञातिबान्धवौ । तमोनुदो[48]ऽग्रिचन्द्रार्काः प्रतिपत्तिथिसंविदोः ॥ Dharaṇikośa 17.1.6
- धरणिकोश पर्वन्पर्व स्यादुत्सवे ग्रन्थप्रस्तावे विषुवादिषु । दर्शप्रतिपदोः सन्धौ स्यात्तिथिः पञ्चकान्तरे ॥ Dharaṇikośa 19.3.6
- कोषकल्पतरु राकालङ्का तु रक्षःपुरपत्तनस्त्री शाखासु शङ्का तु भये वितर्के । राका तु कच्छ्वां प्रथमार्तवायां नद्यन्तरे पूर्णविधौ तिथौ च ॥ १८ ॥ Koṣakalpataru 6.1.18
- कोषकल्पतरु नन्दाछेदिस्तु बज्रे नरि स च्छिदि स्त्री ज्ञाने विदा स्त्रीधिषणार्थकश्च । धीदा तु कन्या धिषणार्थकापि नन्दा तु संप[5a]न्मणिके तिथौ च ॥ २८ ॥ Koṣakalpataru 6.19.28
- कोषकल्पतरु प्रतिपद्प्रतिपत्स्त्री धियि च तिथौ तमोनुदत्त्वग्निचन्द्रार्काः । सौदामिन्यां वज्रे शतह्रदा स्यात्स्त्रियामेव ॥ ४८ ॥ Koṣakalpataru 6.19.48
- कोषकल्पतरु विजयाविजयस्तु धनंजये जये गिरिजायां च तिथौ स्त्रियां भवेत् । विनयः प्रणतौ च शिक्षणे त्विह योषिद्विषयस्तु गोचरे ॥ ५५ ॥ Koṣakalpataru 6.26.55
- कोषकल्पतरु भद्रस्त्रियां तु रास्नासुरनिम्नगार्थो- ऽनन्ताकणाकट्फलवाचकः स्यात् । तिथौ च विष्टौ चरमे तु हेम्नि कल्याणमुस्तार्थ[क]ईरितश्च ॥ ४६ ॥ Koṣakalpataru 6.27.46
- नानार्थार्णवसंक्षेप षष्ठीषष्ठं तु पूरणे षण्णां त्रिः षष्ठी तु स्त्रियां तिथौ । स्कान्द्यां षष्ठविभक्तौ च पार्वत्यां चाथ षण्डवाक् ॥ १४३७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1437
- नानार्थार्णवसंक्षेप अष्टमीतिथौ रुद्रस्याष्टमः स्यादष्टानां पूरणे त्रिषु । अम्बकं नयने क्लीबं पार्वत्यां त्वम्बिका स्त्रियाम् ॥ ८९ ॥ Nānārthārṇavasaṃkṣepa 4.89
- नानार्थार्णवसंक्षेप तृतीयातृफलाथ तृतीयः स्यात् त्रयाणां पूरणे त्रिषु । तृतीया तु तृतीयस्यां विभक्तौ स्त्री तथा तिथौ ॥ ८८६ ॥ Nānārthārṇavasaṃkṣepa 4.886
- नानार्थार्णवसंक्षेप पञ्चमीस्यात् पञ्चमविभक्तौ च स्त्रीलिङ्गा स्याच्छ्रियस्तिथौ । पञ्चानां पूरणे तु त्रि पलितस्त्वस्त्रियामियम् ॥ १०६१ ॥ Nānārthārṇavasaṃkṣepa 4.1061
- नानार्थार्णवसंक्षेप एकादशीएकादशी तु स्त्रीन्द्रस्य ति वीणान्तरे तथा । स्यादेकादशतन्त्रीक एकदेशः पुनः पुमान् ॥ १२४ ॥ Nānārthārṇavasaṃkṣepa 6.124
- नानार्थार्णवसंक्षेप त्रयोदशीतप्तव्ये त्रिरथो तन्तुवायो लूताक्रिमौ द्वयोः । कुविन्देऽप्यथ कामस्य तिथौ स्त्री स्यात् त्रयोदशी ॥ २४८ ॥ Nānārthārṇavasaṃkṣepa 6.248
- परमानन्दीयनाममाला द्वितीयाद्रविणं द्युम्नवद्द्रव्ये सङ्घौषधपराक्रमे । द्वितीया गेहिनीतिथ्योर्दारदः पारदे विषे ॥ २४१ ॥ Paramānandīyanāmamālā 5.16.241
- परमानन्दीयनाममाला षष्ठीषण्डस्तु कानने भेदे षष्ठी गौर्यां तिथावपि ॥ ३६० ॥ Paramānandīyanāmamālā 5.26.360
- शब्दरत्नावली षष्ठीशोठो मूर्खेऽलसे धूर्ति नीचे पापरतेऽपि च । षष्ठी रेमवतीतिथ्योः षण्णाञ्च पूरणे त्रिषु ॥ Śabdaratnāvalī 7.12.8
- शब्दरत्नावली जयाजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17
- शब्दरत्नावली द्वितीयाजरायुस्तत्र विहगे भवेद्गर्भाशये पुमान् । तपस्यः फाल्गुणे पुंसि व्रतचर्यास्वपि स्त्रियाम् ॥ द्वितीया तिथिपत्न्योः स्त्री पूरणे तु द्वयोस्त्रिषु । देवयुर्ना सुरे धर्मशीलेऽभिमातृके(?)ऽन्यवत् ॥ Śabdaratnāvalī 7.26.42
- शब्दरत्नाकर कुतपकुमारी चण्डिका कन्या सहा सुदुहितर्यपि । कुतपो भागिनेयार्कगोतिथिब्राह्मणेषु ना ॥ २०७५ ॥ Śabdaratnākara 4.1.2075
- शब्दरत्नाकर प्रतिपद्प्रतीतस्त्रिषु विख्याते प्रीते प्रत्ययिते बुधे । प्रतिपत्तिथिबुद्ध्योः स्यात् प्रकृतिर्मूलकारणे ॥ २१२९ ॥ Śabdaratnākara 4.1.2129
- त्रिकाण्डशेष प्रतिपद्मूले प्रत्यन्तशैले च प्रसादस्त्वनुरोधने । स्वास्थ्ये काव्यगुणे चाऽथ प्रतिपत्तिथिसंविदोः ॥ २०८ ॥ Trikāṇḍaśeṣa 3.3.208
- वैजयन्ती प्रतिपद्बोधे तिथौ च प्रतिपत् प्रवृत्तिर्वृत्त्युदन्तयोः । प्रवेणी तु कुथावेण्योः प्रसूतिः पुत्रजन्मनोः ॥ १६ ॥ Vaijayantī 7.2.16