शकृत्
śakṛtक्ली · neut.In 14 kośas: 14 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.
पुष्पिका तु लिङ्गमलं विड्विष्ठावस्करः शकृत् ।गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी ॥ ६३४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ ।
अनुष्टुप्
genderक्लीneut.
उच्यते वर्च उच्चारो वर्चस्कोऽवस्करः शकृत् ।गूथं कीटं च विट् विष्ठा पुरीषं शमलं मलम् ॥ ६३७ ॥
अनुष्टुप्
genderक्लीneut.
प्रस्रावः प्रस्रवोऽपि स्याद्विड्विष्ठे च स्त्रियामुभे ।शकृत् क्लीबे मलोप्यस्त्री पुंस्युच्चारोऽप्यवस्करः ॥ २४७ ॥
अनुष्टुप्
genderक्लीneut.
उल्बमस्त्री च कललं शुक्रार्तवघनेऽस्त्रियाम् ।मूत्रं वस्तिमलं किट्टोत्थ (?) मनुष्यजलं स्रवः ॥प्रस्रावश्च भवेन्मेहोऽथोच्चारावस्करौ समौ ।वर्चः पुरीषं लेण्डं च शकृच्छमलमन्तिमे ॥विष्ठा न स्त्री गूथ-मल-वर्चस्का विड्विषौ न ना ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
एतानि नपुंसकानि स्युः । यथा इदं क्षीरं दुग्धम् । इदमुदस्वित्तक्रविशेषः । नवनीतं दधिविकारः । वर्षं संवत्सरः । कुण्डं पेयादिपात्रम् । अण्डं बीजादिप्रादुर्भावः । घृतमाज्यम् । भगं योनिः । गगनमाकाशम् । ओदनस्तु पुंसि भवति । अयमोदनः भक्तम् । स्त्रियां ज्या च । धनुषो गुणः ।विषसञ्ज्ञाः पुंसि विषं तु नपुंसकं स्यात्स्त्रियां तिथिर्वोक्ता ।अतिथिस्तु पुंसि शकृन्नीतशोणितानीतरप्रकृतौ ॥ ४० ॥
metre not recognised
genderक्लीneut.
विषसञ्ज्ञाः पुंसि भवन्ति । हालाहलः कालकूटः ब्रह्मपुत्रः । विषं नपुंसकम् । इदं विषं सर्पशरीरजं च । तिथिशब्दो वा विभाषया स्त्रीलिङ्गे भवति पुंल्लिङ्गश्च । यथा इयं तिथिः । अयं तिथिः । अतिथिशब्दः पुंसि भवति । अयमतिथिरभ्यागतः । शकृदित्यादिनीतरप्रकृतौ नपुंसके भवन्ति । इदं शकृत्पुरीषम् । नीतं घृतम् । शोणितं रुधिरम् ।मुक्त्वा दिनाहनी दिवसनामानि पुंसि स्त्रियां त्विडुडुताराः ।पाणियुगः पुंस्युक्तः स्त्रियां समाश्चैव वर्षाश्च ॥ ४१ ॥
metre not recognised
genderक्लीneut.
विष्ठा गूथपुरीषे च वर्चस्कं वर्चसा सह ।विट् शकृच्छमलोच्चारौ [75] परिकर्म त्वलंकृतिः ॥ २८९ ॥
अनुष्टुप्
genderक्लीneut.
दूषिका स्यान्नेत्रमले मूत्रे स्रावः प्रकीर्तितः ।पुरीषेऽवस्करः प्रोक्तः शमलं शकृदित्यपि ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्ने (wrong syllable)
genderक्लीneut.
मूत्रं लिङ्गोदकोद्गारौ शकृद्विष्ठा पुरीषका ।कलेवरं वपुर्वर्ष्म प्रतीको देहविग्रहौ ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
उच्चारोऽवस्करो वर्चो वर्चस्कं शमलं शकृत् ।विट् विष्ठाऽशुचि गूथं वै पुरीषं चेति मन्यते ॥ १०२५ ॥
अनुष्टुप्
genderक्लीneut.
अथ मूत्रन्तु प्रसावः स्त्रियौ विष्ठा विषौ शकृत् ।अमेध्यं शामलं दूर्यं गूथं वर्चस्कमस्त्रियाम् ॥
अनुष्टुप्
genderक्लीneut.
पुरीषं शमलं वर्चः शकृद्विष्ठाविशौ स्त्रियौ ।गूथवर्चस्कमस्त्री स्यादुच्चारावस्करौ समौ ॥ १११८ ॥
अनुष्टुप्
genderक्लीneut.
लसीका लसिका रक्तरसमांसविपाकजाः ।पूयं तु कुणपं दूष्यं पुरीषं शमलं शकृत् ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
शकृत् as a meaning in nānārtha verses
- कोषकल्पतरु शमलपिटकतिलकदृग्रुग्बर्हपर्याय ओघे पुनरिह न नरेऽथ च्छागलश्छाग आद्ये । युगमुगसितवस्त्रे स्त्री भवेद्वृद्धदारौ शकृति तु शमलं स्यादंहसि प्राहुरेतत् ॥ ४४० ॥ Koṣakalpataru 6.28.440
- शब्दरत्नाकर शमलआक्रोशने स्याच्छपथः शपने तनयादिभिः । शिशौ मत्स्ये च शिशुकः शमलं शकृदंहसोः ॥ २१७६ ॥ Śabdaratnākara 4.1.2176