उडु
uḍuक्ली · neut.In 20 kośas: 23 synonym verses, 1 as a nānārtha head word, 8 as a meaning of another word.
नक्षत्रं तारका ताराज्योतिषी भमुडु ग्रहः ॥ १०७ ॥धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता ।अश्वयुग्वालिनी चाथ भरणी यमदेवता ॥ १०८ ॥
अनुष्टुप्
genderक्लीneut.
नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम् ।
अनुष्टुप्
genderस्त्रीक्लीf. n.
भं नक्षत्रं तारकं तारका च,ज्योतिस्तारा धिष्ण्यमृक्षं तथोडु ।पुष्यस्तिष्यः स्याद्धनिष्ठा श्रविष्ठा,दाक्षायण्यः कीर्तिताश्चन्द्रदाराः ॥ ५१ ॥
शालिनी
genderक्लीneut.
सप्तविंशति नक्षत्रं धिष्ण्यर्क्षोडुश्व कथ्यते ।दंता रदाश्च द्वात्रिंशत्संज्ञोक्ता मुनिसम्मतम् ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
तारा भं रात्रिजं भानुभीरु नक्षत्रमित्यपि ।नभोबीजं चन्द्रबिन्दुधिष्ण्यं सन्नुडुतारकम् ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
इरा जडं जीवनीयं चलोदे संवरं कुशम् ।शिवं शवं शरं क्लीबे वा स्त्रियां स्यादुडूरुडुः ॥ १४ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
विह्वलार्थं तु नीहारो वश्योऽवश्याय इत्यपि ।नक्षत्रं तारका तारा न पुमानुडु वा स्त्रियाम् ॥ १८१ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
गोलावडिशयोश्छर्दिजम्ब्वलावूषसामपि ।गुणदामार्चिसदसां सरसां चोडुना सह ॥ १३४ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
भं नक्षत्रं धिष्ण्यमृक्षं तारावत्तारका त्रिषु ।न पुंस्युडु ग्रहोऽथ स्यात्तज्जे नाक्षत्रभे त्रिषु ॥ ७८-७९ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
वृत्ते वसन्ततिलकं नखमत्र शुक्तौस्यात्कन्यकुब्जमपि देशगतं च पीठम् ।क्रोडा तु वक्षसि भवेदुडु तद्वदर्णास्थूणाथ संयदपि नक्तमथावहित्थम् ॥ ८१ ॥
वसन्ततिलका
genderस्त्रीक्लीf. n.
विषसञ्ज्ञाः पुंसि भवन्ति । हालाहलः कालकूटः ब्रह्मपुत्रः । विषं नपुंसकम् । इदं विषं सर्पशरीरजं च । तिथिशब्दो वा विभाषया स्त्रीलिङ्गे भवति पुंल्लिङ्गश्च । यथा इयं तिथिः । अयं तिथिः । अतिथिशब्दः पुंसि भवति । अयमतिथिरभ्यागतः । शकृदित्यादिनीतरप्रकृतौ नपुंसके भवन्ति । इदं शकृत्पुरीषम् । नीतं घृतम् । शोणितं रुधिरम् ।मुक्त्वा दिनाहनी दिवसनामानि पुंसि स्त्रियां त्विडुडुताराः ।पाणियुगः पुंस्युक्तः स्त्रियां समाश्चैव वर्षाश्च ॥ ४१ ॥
metre not recognised
genderस्त्रीfem.
दिनाहनी मुक्त्वा अन्ये दिवसपर्यायाः पुंसि भवन्ति । अयं दिवसो वासरः घस्रः सूर्यकर इत्यादिः । दिनाहनी नपुंसके भवतः । इदं दिनमहः । स्त्रियां त्विडुडुताराः । त्विडादयः शब्दाः स्त्रियां भवन्ति । इयं त्विट् कान्तिः । इयमुडुर्नक्षत्रम् । इमास्ताराः नक्षत्राणि । पाणियुगः पुंसि भवति । अयं पाणियुगः । पाणियुगग्रहणमन्ययुगनिवृत्त्यर्थम् ।भवति नपुंसकयोगः सङ्ख्यापूर्वस्य रात्रिशब्दस्य ।ससमासस्य तु तस्यैव पुंसि योगं वि[न]जानीयात् ॥ ४२ ॥
metre not recognised
genderस्त्रीfem.
उडूनि भानि तारर्क्षं नक्षत्रम् तत्पतिः निशा ।क्षणदा रजनी नक्तं दोषा श्यामा क्षिपाकरः ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
कला च षोडशो भागस्तारकाभोडवः पुनः ।नक्षत्रज्योतिषी धिष्ण्यं ग्रहऋक्षेऽप्यथाश्विनी ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.
संपरायो रणे तल्पः पर्यङ्केऽपि तथैव च ।प्रेते भूत उडावृक्षो वर्णः श्वेतस्वरादिके ॥ १२३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सत्तारा रात्रिजं बिन्दु काम्यं कीरमुडुर्नना ।दाक्षायण्योऽश्विनीत्यादितारा अश्वयुगश्विनी ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
नक्षत्रं तारका तारा भमृक्षमुडुरत्निका ।मङ्गलो भूमितनयो रक्ताङ्गो मेषवाहनः ॥ ३१९ ॥
अनुष्टुप्
genderक्लीneut.
नक्षत्रमृक्षं भं धिष्ण्यं तारा ज्योतिरुडुर्ग्रहः ।मयूखः किरणो भानुर्मरीचिर्दीधितिः करः ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
नक्षत्रं तारका तारा ज्योतिषी भमुडुर्ग्रहः ।धिष्ण्यमृक्षं नवैव स्युरन्तर्भेदोऽपि ज्ञायताम् ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable)
genderक्लीneut.
तारकं तारका तारा नक्षत्रमुडु वा स्त्रियाम् ।भमृक्षं ज्योतिधिष्ण्यञ्च तारमित्यपि कुत्रचित् ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
केतवो ब्रह्मपुत्राः स्युर्विकचा धूमजाश्च ते ।नक्षत्रमृक्षं भं ज्योतिः सन्ति तारोडुतारकाः ॥ १८८ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
स्त्रीक्लीबयोरुडुर्दामा छर्द्दिर्ज्योतिः सदोर्च्चिषः ।सुखं लक्षं वणिज्यञ्च वडिशक्रोडपाटलम् ॥ १९ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
तारा भं रात्रिजं धिष्ण्यं सन्नक्षत्रमुडुर्न ना ।मृगशीर्षं मृगशिरो मार्गायण्याग्रहायणी ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
उडु as a meaning in nānārtha verses
- धरणिकोश ऐरावतऐरावतौ दिग्गजनागभेदा- वैरावताख्यौ उडु[46]नागराजौ । ऐरावतं वासवकार्मुकं स्या- दैरावती विद्युत्तडिद्विशेषः ॥ Dharaṇikośa 15.3.37
- कोषकल्पतरु धिष्र्यपुण्यं मनोज्ञे सुकृ[37a]ते च पूते ऽन्यवद्भवेद्धिष्ण्यमुडौ च [गे] हे । स्थाने च शक्तावनले तु पुंसि शल्यं तु न स्त्री किल शङ्कुवाचि ॥ २८ ॥ Koṣakalpataru 6.26.28
- कोषकल्पतरु ज्योतिस्ज्योतिः पुमान्भास्वति वीतिहोत्रे दृष्टौ प्रकाशेऽप्युडुनि द्वयोनः ॥ ११ ॥ Koṣakalpataru 6.31.11
- नानार्थार्णवसंक्षेप दाक्षायणीदक्षापत्ये द्वयोः स्त्री तु पार्वत्यामवनौ स्त्रियाम् । दाक्षायणी स्यादश्विन्याद्युडौ च क्ली तु हाटके ॥ २७० ॥ Nānārthārṇavasaṃkṣepa 6.270
- शब्दरत्नाकर तारद्वारबन्धनयन्त्रे च वाद्यभेदे विलम्बिते । कुञ्चिकायां च तारस्तु मुक्ताशुद्धावुडौ न ना ॥ १९२९ ॥ Śabdaratnākara 4.1.1929
- शब्दरत्नाकर त्रिशङ्कुत्रिधामा दहने विष्णौ त्रिशङ्कुरुडुतार्क्ष्ययोः । एरण्डे यूनि तरुणस्तरुणी युवतिः सहा ॥ २०९७ ॥ Śabdaratnākara 4.1.2097
- शब्दरत्नाकर खकः समीरार्कवेधःसु खमुडौ व्योम्नि चेन्द्रिये । गौवृषे ना स्त्रियां गोभूवाग्दिग्दृष्टिमरीचिषु ॥ २२४१ ॥ Śabdaratnākara 4.1.2241
- वैजयन्ती तारक्ली तुल्यदेशे तारस्तु मुक्ताशुद्धौ सुमौक्तिके । उडुदृङ्मध्ययोरक्ली तुच्छं त्वसुखशून्ययोः ॥ ३६ ॥ Vaijayantī 6.5.36