दिवस
divasaपुं · masc.In 17 kośas: 22 synonym verses, 12 as a meaning of another word.
त्रिंशता तैरहोरात्रस्तत्राहर्दिवसो दिनम् ।दिवं द्युर्वासरो घस्रः प्रभातं स्यादहर्मुखम् ॥ १३८ ॥व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः ।काल्यं मध्याह्णस्तु दिवामध्यं मध्यंदिनं च सः ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
दिवसो दिवा दिनं द्युः प्रोक्तमहर्वासरस्तथा घस्रः ।प्रहरो यामः सन्ध्ये रजनीदिनयोः प्रवेशनिष्कासौ ॥ १०६ ॥
गीतिः
genderपुंmasc.
genderपुंmasc.
घस्रो घ्रंसो घृणिर्द्यौः स्याद्दिवसश्च तिथिर्द्वयोः ।कर्मवाटी तिथी द्वे स्त्री क्लीबेऽहर्दिनमस्त्रियाम् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
पुंलिङ्गमृतुहस्तौष्ठकोष्ठाधूनां नखस्य च ।कपोलकेशदिवसरसानां स्तनगुच्छयोः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
वर्षावतंसमासानां विसविष्कसयोरपि ।रसकर्पासपनसमासानां दिवसस्य च ॥ १९१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
द्युर्वासकः[रः?] प्रतिदिवा नरि दण्डयाम-सूर्याङ्क-घस्र-घसरा अपि वास्र-वारौ ।****************** रोऽपि दिवसोऽह्नि दिवाव्यये स्तः ॥ १६ ॥
metre not recognisednearly वसन्ततिलका
genderपुंmasc.
कार्पास-कांस-चमसाः पनसोपवासौस्यादिष्वसः सदिवसोऽपि रसो बुसोऽपि ।दोर्वद्विहाय उदितं हृदये तु वत्संमाघे तपोऽथ नृपनाम्नि तथैव कंसः ॥ ७३ ॥
वसन्ततिलका
genderपुंक्लीm. n.
विषसञ्ज्ञाः पुंसि भवन्ति । हालाहलः कालकूटः ब्रह्मपुत्रः । विषं नपुंसकम् । इदं विषं सर्पशरीरजं च । तिथिशब्दो वा विभाषया स्त्रीलिङ्गे भवति पुंल्लिङ्गश्च । यथा इयं तिथिः । अयं तिथिः । अतिथिशब्दः पुंसि भवति । अयमतिथिरभ्यागतः । शकृदित्यादिनीतरप्रकृतौ नपुंसके भवन्ति । इदं शकृत्पुरीषम् । नीतं घृतम् । शोणितं रुधिरम् ।मुक्त्वा दिनाहनी दिवसनामानि पुंसि स्त्रियां त्विडुडुताराः ।पाणियुगः पुंस्युक्तः स्त्रियां समाश्चैव वर्षाश्च ॥ ४१ ॥
metre not recognised
genderपुंmasc.
दिनाहनी मुक्त्वा अन्ये दिवसपर्यायाः पुंसि भवन्ति । अयं दिवसो वासरः घस्रः सूर्यकर इत्यादिः । दिनाहनी नपुंसके भवतः । इदं दिनमहः । स्त्रियां त्विडुडुताराः । त्विडादयः शब्दाः स्त्रियां भवन्ति । इयं त्विट् कान्तिः । इयमुडुर्नक्षत्रम् । इमास्ताराः नक्षत्राणि । पाणियुगः पुंसि भवति । अयं पाणियुगः । पाणियुगग्रहणमन्ययुगनिवृत्त्यर्थम् ।भवति नपुंसकयोगः सङ्ख्यापूर्वस्य रात्रिशब्दस्य ।ससमासस्य तु तस्यैव पुंसि योगं वि[न]जानीयात् ॥ ४२ ॥
metre not recognised
genderपुंmasc.
इनः सूर्यस्तमोध्वान्ततिमिरारिर्विरोचनः ।दिनं दिवाऽहर्दिवसो वासरः तत्करश्च सः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
दिवसो वासरो घस्नोऽहर्दिनं द्युर्दिवं च तत् ।प्रभातं च विभातं स्यात्प्रत्यूषाहर्मुखे पुनः ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिदिवताण्डवपारशवं पुनःकुलिशकर्कशकोशविषा अपि ।कणिशमङ्कुशपाशकरीषकादिवसरोहिषमेषविशेषकाः ॥ १६१ ॥
द्रुतविलम्बितम्
genderपुंक्लीm. n.
लग्नानि राशयश्चैव मेषाद्या द्वादश स्मृताः ।अहर्दिनं दिवं घस्रं दिवसो वासरो दिवा ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
तद्द्वयेन मुहूर्तस्तु तथा तैरपि त्रिंशता ।अहोरात्रस्तु सम्पूर्ण दिवसः कथितो बुधैः ॥ १२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable)
genderपुंmasc.
अहर्दिनञ्च घस्रं द्युर्दिवसो वासरो दिवम् ।
अनुष्टुप्
genderपुंmasc.
प्रतिपत् पक्षती स्त्री द्वे तदाद्यास्तिथयो द्वयोः ।पुंनपुंसकयोर्वारदिवसांशकवासराः ॥
अनुष्टुप्
genderपुंक्लीm. n.
नाडी-नाली-नालिकाश्च, दिने तु दिवसो दिवम् ।दिवा प्रतिदिवा नान्तौ द्युरस्त्र्यव्ययमप्यहः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
व्युष्टं प्रत्यूषगोसर्गौ प्रगे प्रातश्च न त्रिषु ।दिनाहनी तु घस्रो वा षण्डौ दिवसवासरौ ॥ २३३ ॥
अनुष्टुप्
genderपुंmasc.
समरसरकरणविटपाङ्गारिकदैवतकूटागाराः ।प्रोथमुहूर्तदिवसफलकानिकाशनिदाघमुषलतिलकानि ॥ १३ ॥
उद्गीतिःmetre not read in every line
genderपुंक्लीm. n.
त्रिंशता तैरहोरात्रः पक्षांगोऽप्यथ वासरः ।दिवसञ्चास्त्रियौ भानुर्घृणिर्घस्रो रविध्वजः ॥ ५५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
दिवस as a meaning in nānārtha verses
- कोषकल्पतरु रतर्द्धिकजैवातृको नरीन्दौ परवज्जायौ कृशे चिरायुषि च । दिवसे रतर्द्धिकं स्या- त्सुखतः स्नानेऽष्टमङ्गले चान्त्ये ॥ ४४ ॥ Koṣakalpataru 6.1.44
- कोषकल्पतरु दण्डयामकान्ते चानुपमो विशेष्यसदृशः स्त्री सुप्रतीकस्त्रियां अभ्यर्णे च हतौ विरोधरणयोरभ्युद्गमेऽभ्यागमः । जीर्णे भुक्तसमुज्झिते च गदितो ना यातयामस्तथा कीनाशे दिवसे घटोद्भवमुनौ स्याद्दण्डयामोऽपि च ॥ ९३ ॥ Koṣakalpataru 6.25.93
- कोषकल्पतरु वासरस्याद्वासरोऽस्त्री दिवसे च नाग- प्रभेदके ना पुनरिक्षुभेदे । कान्तारमस्त्री विपिने सुदुर्गमे मार्गेऽङ्घ्रिधूलौ त्वपि पादरः स्यात् ॥ ३९ ॥ Koṣakalpataru 6.27.39
- नानार्थार्णवसंक्षेप द्युओष्ठस्थानस्वरे चाथ ग्लौर्वपुर्ग्लानिचन्द्रयोः । आकाशे दिवसे च द्युः पुमानात्मनि पौरुषे ॥ २ ॥ Nānārthārṇavasaṃkṣepa 1.2.2
- नानार्थार्णवसंक्षेप घर्मभारवाहकभेदे च वृद्धनाभौ च गोण्डवाक् । घर्मः स्वेदजले ग्रीष्म उष्णे दिवस आतपे ॥ ४९ ॥ Nānārthārṇavasaṃkṣepa 2.2.49
- नानार्थार्णवसंक्षेप जिगर्तुतथा प्राणेषु दिवसेऽप्यथ द्वे ब्राह्मणेऽथ ना । शत्रौ जिघांसुस्त्रिषु तु हन्तुमिच्छौ पुमान् पुनः ॥ ७९८ ॥ Nānārthārṇavasaṃkṣepa 4.798
- नानार्थार्णवसंक्षेप बार्द्दरबार्द्दरस्तु पुमान मेलानन्दायां दिवसे(पि?तु) नप् । बालकस्तु पुमान् कृष्णशालौ त्रिस्त्वतिबालिशे ॥ १२५२ ॥ Nānārthārṇavasaṃkṣepa 4.1252
- नानार्थार्णवसंक्षेप वासरवाचाला वासरस्त्वस्त्री दिवसे ना तु पावके । कामे प्रावृषि चाथ स्युर्वाहिकाः पुंसि भूम्नि च ॥ १६८० ॥ Nānārthārṇavasaṃkṣepa 4.1680
- नानार्थार्णवसंक्षेप स्वसरत्रि तु तद्वत्यपि स्याच्च स्वर्गते स्व(रस?सर)स्तु ना । भ्रातरि क्ली तु दिवसे गेहे चाथ द्वयोरयम् ॥ १९१९ ॥ Nānārthārṇavasaṃkṣepa 4.1919
- शब्दरत्नावली घस्रत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10
- वैजयन्ती वासरवासरौ नागदिवसौ वैकुण्ठाविन्द्रकेशवौ । विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ ७२ ॥ Vaijayantī 7.1.72
- वैजयन्ती द्युआकाशे दिवसे च द्युर्विः पक्षिपरमात्मनोः ॥ ६० ॥ Vaijayantī 8.1.60