कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तारा

tārāस्त्री · fem.

In 23 kośas: 36 synonym verses, 9 as a nānārtha head word, 11 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.108 · p. 8
नक्षत्रं तारका ताराज्योतिषी भमुडु ग्रहः ॥ १०७ ॥धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता ।अश्वयुग्वालिनी चाथ भरणी यमदेवता ॥ १०८ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.575 · p. 25
चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् ।लोचनं दर्शनं दृक्च तत्तारा तु कनीनिका ॥ ५७५ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.25
नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम् ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.51 · p. 7
भं नक्षत्रं तारकं तारका च,ज्योतिस्तारा धिष्ण्यमृक्षं तथोडु ।पुष्यस्तिष्यः स्याद्धनिष्ठा श्रविष्ठा,दाक्षायण्यः कीर्तिताश्चन्द्रदाराः ॥ ५१ ॥
शालिनी
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.520 · p. 59
नयनोपान्तमपाङ्गः कनीनिका नयनमध्यतारा च ।कूर्पं भ्रुवोश्च मध्यं सृक्व स्यादोष्ठपर्यन्तः ॥ ५२० ॥
आर्या
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.45 · p. 69
ताराभं रात्रिजं धिष्ण्यं न ना नक्षत्रमित्यपि ।कुजारमङ्गलाङ्गाराः लोहिताङ्गो धरासुतः ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्योत्स्नी च ज्यौत्स्निका ज्योत्स्ना ज्योत्स्नावत्यां निशि स्थिताः ।तारकं तारका तारा तारं च परिकीर्त्यते ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.13 · p. 21
तारा भं रात्रिजं भानुभीरु नक्षत्रमित्यपि ।नभोबीजं चन्द्रबिन्दुधिष्ण्यं सन्नुडुतारकम् ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.147 · p. 36
दृशी दृक् स्याद्दृशिरपि स्त्रियां क्लीबे च दर्शनम् ।तारकास्त्र्यस्त्रियां तारा बिम्बिन्यक्ष्णः कनीनिका ॥ १४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.181 · p. 400
विह्वलार्थं तु नीहारो वश्योऽवश्याय इत्यपि ।नक्षत्रं तारका तारा न पुमानुडु वा स्त्रियाम् ॥ १८१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.10 · p. 418
नादान्ता निष्कला गूढा सकला मधुरा पुनः ।कामाङ्गा मदिरा श्यामा तारा चन्द्रानना शुभा ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.39 · p. 421
विनोदश्चन्द्रसरसोऽथैकताली त्रिधा मता ।रामा तारा चन्द्रिका च द्रुतमध्यविलम्बिताः ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.27 · p. 441
तारा महाश्रीरोंकारा वसुधारा धनप्रदा ।सुदूरवासिनी भद्रा वेश्या नीलसरस्वती ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.77 · p. 35
भं नक्षत्रं धिष्ण्यमृक्षं तारावत्तारका त्रिषु ।न पुंस्युडु ग्रहोऽथ स्यात्तज्जे नाक्षत्रभे त्रिषु ॥ ७८-७९ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.99 · p. 151
ब्रीडा तारा गन्धवधूर्वातघ्ना भूतनाशनी ।नपुंसि तरुणी चाथ द्वंद्वे रालोऽग्निवल्लभः ॥ 99 ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 220
ईक्षणं लोचनं देहदीपोऽम्बक-विलोचने ।दर्शनं तारकं * * [तार] - तारके च कनीनिका ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.66 · p. 102
दरिः शरारिर्मरी-मारि-पार्योदर्द्रूस्तरिः पूरपि वास्तुभूम्निहारा च होरा च परंपरा चतारापि देव्यां च वरा वरी द्वाः ॥ ६६ ॥
इन्द्रवज्राmetre not read in every line
genderस्त्रीfem.
विषसञ्ज्ञाः पुंसि भवन्ति । हालाहलः कालकूटः ब्रह्मपुत्रः । विषं नपुंसकम् । इदं विषं सर्पशरीरजं च । तिथिशब्दो वा विभाषया स्त्रीलिङ्गे भवति पुंल्लिङ्गश्च । यथा इयं तिथिः । अयं तिथिः । अतिथिशब्दः पुंसि भवति । अयमतिथिरभ्यागतः । शकृदित्यादिनीतरप्रकृतौ नपुंसके भवन्ति । इदं शकृत्पुरीषम् । नीतं घृतम् । शोणितं रुधिरम् ।मुक्त्वा दिनाहनी दिवसनामानि पुंसि स्त्रियां त्विडुडुताराः ।पाणियुगः पुंस्युक्तः स्त्रियां समाश्चैव वर्षाश्च ॥ ४१ ॥
metre not recognised
genderस्त्रीfem.
दिनाहनी मुक्त्वा अन्ये दिवसपर्यायाः पुंसि भवन्ति । अयं दिवसो वासरः घस्रः सूर्यकर इत्यादिः । दिनाहनी नपुंसके भवतः । इदं दिनमहः । स्त्रियां त्विडुडुताराः । त्विडादयः शब्दाः स्त्रियां भवन्ति । इयं त्विट् कान्तिः । इयमुडुर्नक्षत्रम् । इमास्ताराः नक्षत्राणि । पाणियुगः पुंसि भवति । अयं पाणियुगः । पाणियुगग्रहणमन्ययुगनिवृत्त्यर्थम् ।भवति नपुंसकयोगः सङ्ख्यापूर्वस्य रात्रिशब्दस्य ।ससमासस्य तु तस्यैव पुंसि योगं वि[न]जानीयात् ॥ ४२ ॥
metre not recognised
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 48 · p. 25
उडूनि भानि तारर्क्षं नक्षत्रम् तत्पतिः निशा ।क्षणदा रजनी नक्तं दोषा श्यामा क्षिपाकरः ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.240 · p. 130
नयनं लोचनं नेत्रमम्बकं दृष्टिचक्षुषी ।अक्षीक्षणे तथा दृक्च तारायां स्यात्कनीनिका ॥ २४० ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.319 · p. 22
नक्षत्रं तारका तारा भमृक्षमुडुरत्निका ।मङ्गलो भूमितनयो रक्ताङ्गो मेषवाहनः ॥ ३१९ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.70 · p. 8
नक्षत्रमृक्षं भं धिष्ण्यं तारा ज्योतिरुडुर्ग्रहः ।मयूखः किरणो भानुर्मरीचिर्दीधितिः करः ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.92 · p. 14
नक्षत्रं तारका तारा ज्योतिषी भमुडुर्ग्रहः ।धिष्ण्यमृक्षं नवैव स्युरन्तर्भेदोऽपि ज्ञायताम् ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.923 · p. 141
रूपग्रहोऽम्वकं चैव दृक् चेति कथ्यते बुधैः ।तारा कनीनिका भूयस्तारका रूपग्राहिणी ॥ ९२३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable); pāda 4, syllable 5 प (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.210 · p. 15
तारकं तारका तारा नक्षत्रमुडु वा स्त्रियाम् ।भमृक्षं ज्योतिधिष्ण्यञ्च तारमित्यपि कुत्रचित् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.315 · p. 103
भ्रूवौ स्त्रियां नयनयोरूर्ध्वलोमावली द्वयम् ।अस्त्री कूर्चं भ्रूवोरन्तस्तथा तारा तु तारका ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ्रू (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.33 · p. 310
विषाणी वीरणीपूगी चज्जूरी च नदादिषु ।पुटिकेन्मालिकाद्यास्तु स्त्रियामादादिषु स्मृता ।लक्ष्मीर्वाणी भवानी रजनिजविरतिकान्तिसीता जुगुप्सा ।चिन्ताऽसूयाविभूतिद्युतितरणिमतिक्षेपणीविष्टि पीडा ।तन्त्रीस्तन्द्री विपञ्चिद्रुणिविपणिकृपावेदनामुक्तिविद्या ।ज्योत्स्ना वेश्या कलावाक्सरणिविषहरीहूतिकाकूप्रपाश्च ।…वदितिकथादेवताद्योदिवौ च ।ढक्काव्रीडावहित्थासुरभिकुमुदिनीपद्मिनीपूर्णिमाश्च ।ताराश्रेणी च वीथीद्युतिरवनि नदीपुष्करिण्यम्बिकोम्रा ।निद्राहेला च लीलायुवतिरनुमतिर्दिक्कुहुः पक्षतिश्च ॥
अनुष्टुप्two metres in one verse
विषाणीस्त्रीवीरणीस्त्रीपूगीस्त्रीखर्जूरीस्त्रीपुटिकास्त्रीमालिकास्त्रीलक्ष्मीस्त्रीवाणीस्त्रीभवानीस्त्रीरजनिस्त्रीविरतिस्त्रीकान्तिस्त्रीसीतास्त्रीजुगुप्सास्त्रीचिन्तास्त्रीअसूयास्त्रीविभूतिस्त्रीद्युतिस्त्रीतरणिस्त्रीमतिस्त्रीक्षेपणीस्त्रीविष्टिस्त्रीपीडास्त्रीतन्त्रीस्त्रीतन्द्रीस्त्रीविपञ्चिस्त्रीद्रुणिस्त्रीविपणिस्त्रीकृपास्त्रीवेदनास्त्रीमुक्तिस्त्रीविद्यास्त्रीज्योत्स्नास्त्रीवेश्यास्त्रीकलास्त्रीवाच्स्त्रीसरणिस्त्रीविषहरीस्त्रीहूतिस्त्रीकाकूस्त्रीप्रपास्त्रीकथास्त्रीदेवतास्त्रीद्योस्त्रीदिव्स्त्रीढक्कास्त्रीव्रीडास्त्रीअवहित्थास्त्रीसुरभिस्त्रीकुमुदिनीस्त्रीपद्मिनीस्त्रीपूर्णिमास्त्रीतारास्त्रीश्रेणीस्त्रीवीथीस्त्रीअवनिस्त्रीनदीस्त्रीपुष्करिणीस्त्रीअम्बिकास्त्रीनिद्रास्त्रीहेलास्त्रीलीलास्त्रीयुवतिस्त्रीअनुमतिस्त्रीदिश्स्त्रीकुहूस्त्रीपक्षतिस्त्री
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.15 · p. 178
नक्षत्रे तारका तारा निरिकाराऽत्र तारका ।अश्वयुज्याश्विकिनी चाश्विनी स्युः कृत्यका बहौ ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.159 · p. 201
कनीनिकायां तारा स्यात् तारकाऽप्यर्धवीक्षणे ।काक्षः कटाक्षो नेत्रस्य मीले मेष-मिषौ नितः ॥ १५९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.85 · p. 12
तारा सुकेश्यनुम्लोचा सहजन्या तिलोत्तमा ।कृतस्थला मञ्जुघोषा मरीचिः पुञ्चि(ञ्जि?)कस्थला ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.188 · p. 25
केतवो ब्रह्मपुत्राः स्युर्विकचा धूमजाश्च ते ।नक्षत्रमृक्षं भं ज्योतिः सन्ति तारोडुतारकाः ॥ १८८ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
तमाटः षाटिर्वामस्फिक् ताराख्य ऊर्ध्वजानुकः ।शक्ती शक्तिर्जटा चैव तारको मध्यकर्णकः ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.17 · p. 6
जटाधरो महावीर्यो वक्रसूर्योऽवलोकितः ।तारा महाश्रीरोङ्कारा स्वाहाश्रीश्च मनोरमा ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
उत्पलिनी Utpalinī · व्याडि Utpalinī 6 · p. 46
प्रज्ञापारमिता तारा वृन्दा च जिनशक्तयः ।मारीची चतुदुर्वासा मारीचा वज्रकाल्यपि ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.38 · p. 20
तारा भं रात्रिजं धिष्ण्यं सन्नक्षत्रमुडुर्न ना ।मृगशीर्षं मृगशिरो मार्गायण्याग्रहायणी ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.24 · p. 182
तारोऽत्युच्चध्वनितरणयोः कीशमुक्ताविशुद्ध्यो-स्तारो रूप्ये स्फुरितकिरणे निर्मले तारमाहुः ।तारा ऋक्षे नयनकनिका बुद्धदेव्यां च तारातारा प्रोक्ता धिषणवनिता चापि सुग्रीवपत्नी ॥
मन्दाक्रान्ता
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.524 · p. 87
रदेऽपि सज्जनः प्राह तारा तु स्यान्नरस्त्रियोः ।नक्षत्रे नेत्रमध्ये च रजते तु नृशण्डयोः ॥ ५२४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.525 · p. 87
त्रिषु तूच्चैस्तरे शब्दे विशदेऽप्यथ पङ्कजे ।प्रणवे च नपि स्त्री तु तारा योषिति वालिनः ॥ ५२५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.526 · p. 87
सुगतस्य च ताम्रं तु स्यात् क्लीबं शुल्बरूपयोः ।ना शुल्बवर्णसदृशे वर्णे तद्वति तु त्रिषु ॥ ५२६ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तकारादयः Paramānandīyanāmamālā 5.15.218 · p. 190
तारा सुरगुरोः पत्नी बुद्धसुग्रीवपत्न्यपि ।तारं रूप्ये प्रधानेऽपि तारा नेत्रकनीनिका ॥ २१८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.14 · p. 266
तारस्त्रिषूच्चनिनादमुक्तार्कशुद्धमुक्तयोः (?) ।ऋक्षाक्षिमध्ययोर्न ना रजते च नपुंसकम् ।स्त्रियां बुद्धदेवतायां वालिदेवगुरुस्त्रियोः ।ताम्रन्तु शुल्वारुणयोर्दरोऽस्त्रीभयगर्त्तयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्न (wrong syllable); pāda 3, syllable 4 द्ध (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1718 · p. 207
धोरा तु गतिचातुर्ये धारा तु जलसंततिः ।आरा प्रवयणे तारा रज्जौ कारा तु बन्धने ॥ १७१८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.353 · p. 215
तारिण्यङ्गदमात्रोः स्त्री न ना ऋक्षाक्षिमध्ययोः ।दृग्रोगे तिमिरं ध्वान्ते तोत्रे प्राजनवेणुके ॥ ३५३ ॥
अनुष्टुप्
उत्पलिनी Utpalinī · व्याडि Utpalinī 60 · p. 51
नक्षत्रे नेत्रमध्ये च तारा स्यात् तार इत्यपि ॥ ६० ॥

तारा as a meaning in nānārtha verses

  • धरणिकोश पद्मलाञ्छनापद्मलाञ्छन उद्दिष्टो ब्रह्मा लोकेश्वरो हरिः । स्यात्पद्मलाञ्छना तारा लक्ष्मीः स्यात्पद्मलाञ्छना ॥ Dharaṇikośa 19.3.30
  • कोषकल्पतरु पद्मलाञ्छनास्यात्पद्मलाञ्छनोऽर्क्के विधौ च लङ्कापतौ धनदे । तारालक्ष्म्योस्तु स्त्री तद्वत्प्रोक्तः सरस्वत्याम् ॥ ६२ ॥ Koṣakalpataru 6.21.62
  • नानार्थार्णवसंक्षेप ज्योतिस्ज्योतिरात्मनि सूर्येऽग्नौ हविर्होमार्चिदीप्तिषु । ग्रहनक्षत्रतारासु नक्षत्रेऽपि विशेषतः ॥ ४९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.493
  • परमानन्दीयनाममाला तारकतक्षको भुजगे तक्ष्णि तरणी रविबेडयोः । तरुणो नूतने यूनि तारकं नेत्रतारयोः ॥ २३० ॥ Paramānandīyanāmamālā 5.15.230
  • शब्दरत्नावली रोहिणीरोहिणी कण्ठरुग्तारासोमवल्ककटम्भरेः । लवणं सैन्धवादौ तु ना सिन्धौ रसरक्षसोः ॥ Śabdaratnāvalī 7.15.58
  • शब्दरत्नावली पद्मलाञ्छनाअमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134
  • शब्दरत्नाकर मूलअंशे परिच्छदे मात्रा मात्रं कार्त्स्न्येऽवधारणे । मदो दाने स्मये मूलं शिफातारादिहेतुषु ॥ १९८० ॥ Śabdaratnākara 4.1.1980
  • त्रिकाण्डशेष चित्राकर्ब्बुरे तिलके चित्रं सुभद्रातारयोः स्त्रियाम् । चन्द्रः शशिनि कर्पूरे चारो बन्धापसर्पयोः ॥ ३४९ ॥ Trikāṇḍaśeṣa 3.3.349
  • वैजयन्ती ज्योतिस्जीलं चर्मपुटः कोशो दृतिः करकपत्रिका । ज्योतिस्ताराग्निभाज्वालादृक्पुत्रार्थाध्वरात्मसु ॥ १० ॥ Vaijayantī 6.3.10
  • वैजयन्ती मूलमूलं वशीकृतौ स्वीये शिफातारान्तिकादिषु । गमने वाहने यानं रत्नं श्रेष्ठे मणावपि ॥ २६ ॥ Vaijayantī 6.3.26
  • वैजयन्ती चित्राघनाः कठिनसंघातमेघकाठिन्यमुद्गराः । चित्रा सुभद्रा तारा च चित्रमालेख्यमिश्रयोः ॥ ३० ॥ Vaijayantī 6.5.30