अहन्
ahanक्ली · neut.In 17 kośas: 22 synonym verses, 10 as a meaning of another word.
त्रिंशता तैरहोरात्रस्तत्राहर्दिवसो दिनम् ।दिवं द्युर्वासरो घस्रः प्रभातं स्यादहर्मुखम् ॥ १३८ ॥व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः ।काल्यं मध्याह्णस्तु दिवामध्यं मध्यंदिनं च सः ॥ १३९ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
दिवसो दिवा दिनं द्युः प्रोक्तमहर्वासरस्तथा घस्रः ।प्रहरो यामः सन्ध्ये रजनीदिनयोः प्रवेशनिष्कासौ ॥ १०६ ॥
गीतिः
genderक्लीneut.
genderक्लीneut.doubtful
घस्रो घ्रंसो घृणिर्द्यौः स्याद्दिवसश्च तिथिर्द्वयोः ।कर्मवाटी तिथी द्वे स्त्री क्लीबेऽहर्दिनमस्त्रियाम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.doubtful
भसत्संपत्ककुत्पर्वमहद्वृषत्पुरीतताम् ।स्याद्रोम्णोऽह्न इतीहोक्ताः क्लीबप्रकृतयोऽथ तु ॥ १०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्वृ (wrong syllable)
genderक्लीneut.
द्युर्वासकः[रः?] प्रतिदिवा नरि दण्डयाम-सूर्याङ्क-घस्र-घसरा अपि वास्र-वारौ ।****************** रोऽपि दिवसोऽह्नि दिवाव्यये स्तः ॥ १६ ॥
metre not recognisednearly वसन्ततिलका
genderक्लीneut.doubtful
नक्तंदिवं तथा रात्रिंदिवं क्लीबे रतद्द्वि(र्द्धि)कम् ।अहश्च दिनं तु न स्त्री स्याद्वासरे समार्थकम् ॥ २० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कुक्षौ कृत्स्नं वाद्यभेदे घनं स्याद्द्युम्नं चिह्नं निम्नमह्ना ललाम ।कुनं(?) रोम स्याद्दृशानं च पर्ववर्त्म प्रोक्तं सक्थि धन्व स्थले च ॥ २ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 1, syllable 1 कु (wrong syllable)
genderक्लीneut.doubtful
विषसञ्ज्ञाः पुंसि भवन्ति । हालाहलः कालकूटः ब्रह्मपुत्रः । विषं नपुंसकम् । इदं विषं सर्पशरीरजं च । तिथिशब्दो वा विभाषया स्त्रीलिङ्गे भवति पुंल्लिङ्गश्च । यथा इयं तिथिः । अयं तिथिः । अतिथिशब्दः पुंसि भवति । अयमतिथिरभ्यागतः । शकृदित्यादिनीतरप्रकृतौ नपुंसके भवन्ति । इदं शकृत्पुरीषम् । नीतं घृतम् । शोणितं रुधिरम् ।मुक्त्वा दिनाहनी दिवसनामानि पुंसि स्त्रियां त्विडुडुताराः ।पाणियुगः पुंस्युक्तः स्त्रियां समाश्चैव वर्षाश्च ॥ ४१ ॥
metre not recognised
genderक्लीneut.
दिनाहनी मुक्त्वा अन्ये दिवसपर्यायाः पुंसि भवन्ति । अयं दिवसो वासरः घस्रः सूर्यकर इत्यादिः । दिनाहनी नपुंसके भवतः । इदं दिनमहः । स्त्रियां त्विडुडुताराः । त्विडादयः शब्दाः स्त्रियां भवन्ति । इयं त्विट् कान्तिः । इयमुडुर्नक्षत्रम् । इमास्ताराः नक्षत्राणि । पाणियुगः पुंसि भवति । अयं पाणियुगः । पाणियुगग्रहणमन्ययुगनिवृत्त्यर्थम् ।भवति नपुंसकयोगः सङ्ख्यापूर्वस्य रात्रिशब्दस्य ।ससमासस्य तु तस्यैव पुंसि योगं वि[न]जानीयात् ॥ ४२ ॥
metre not recognised
genderक्लीneut.
सङ्ख्यापूर्वो यदि रात्रिशब्दस्तदा नपुंसके बोद्धव्यः । यथा इदमेकरात्रं द्विरात्रं त्रिरात्रमित्येवमादयः । सह समासेन वर्त्तत इति ससमासः ससमासस्य तु रात्रिशब्दस्य पुंसि योगं विजानीयात् । यथा पूर्वरात्रः अर्द्धरात्रः वर्षारात्रः ।पुरमधुजगन्ति विद्यान्नपुंसके वा स्त्रियां भवेदर्च्चिः ।त्वतलौ नपुंसकस्त्रीविधावहः पुंसि सङ्ख्यादिः ॥ ४३ ॥
metre not recognised
genderपुंmasc.
इनः सूर्यस्तमोध्वान्ततिमिरारिर्विरोचनः ।दिनं दिवाऽहर्दिवसो वासरः तत्करश्च सः ॥ ५० ॥
अनुष्टुप्
genderक्लीneut.doubtful
दिवसो वासरो घस्नोऽहर्दिनं द्युर्दिवं च तत् ।प्रभातं च विभातं स्यात्प्रत्यूषाहर्मुखे पुनः ॥ १२७ ॥
अनुष्टुप्
genderक्लीneut.doubtful
आर्तवं पौतवं साध्वसं साहसकशेरुणी ।शयातुवीक्षपर्वाणि ककुन्महदहानि च ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
कालो दिष्टोऽप्यनेहापि समयः सम इत्यपि ।घस्रो दिनः समा वारोऽहः क्लीबे तिथिरित्यपि ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.doubtful
लग्नानि राशयश्चैव मेषाद्या द्वादश स्मृताः ।अहर्दिनं दिवं घस्रं दिवसो वासरो दिवा ॥ ७८ ॥
अनुष्टुप्
genderक्लीneut.
अहर्दिनञ्च घस्रं द्युर्दिवसो वासरो दिवम् ।
अनुष्टुप्
genderक्लीneut.
नाडी-नाली-नालिकाश्च, दिने तु दिवसो दिवम् ।दिवा प्रतिदिवा नान्तौ द्युरस्त्र्यव्ययमप्यहः ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
अह्न्यहे ङ्यन्त-टाबान्तावहः सन्तोऽथ वासरः ।वाश्रश्च दन्त्य-तालव्यमध्यौ घस्रश्च हस्रयुक् ॥ २९ ॥
अनुष्टुप्
genderक्लीneut.
व्युष्टं प्रत्यूषगोसर्गौ प्रगे प्रातश्च न त्रिषु ।दिनाहनी तु घस्रो वा षण्डौ दिवसवासरौ ॥ २३३ ॥
अनुष्टुप्
genderक्लीneut.
पद्मबन्धुः कोकहितो द्युश्च क्ली स्यादहर्दिनम् ।रजनी यामिनी याम्या त्रियामा क्षणदा क्षपा ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
genderक्लीneut.
अहन् as a meaning in nānārtha verses
- धरणिकोश द्युद्युरह्नि त्रिदिवेऽपि स्याज्ज्या स्यान्मौर्वी वसुंधरा । द्योशब्दो गगने स्वर्गे यः सर्वनाम्नि योऽनिले ॥ Dharaṇikośa 25.1.1
- धरणिकोश दिवादिवाहनि प्रभाते स्यादेवौपम्येऽवधारणे । Dharaṇikośa 34.18.1
- कोषकल्पतरु द्युयः सर्वनामानिलदण्डभृत्सु स्त्रियां तु लक्ष्म्यां जननीधरित्र्योः । द्युरह्नि वह्नौ त्रिदिवे पुमान्स्याद्- द्यौस्तु स्त्रियां स्वर्गसुराध्वनोश्च ॥ १ ॥ Koṣakalpataru 6.26.1
- कोषकल्पतरु वाश्रषण्ढे तथा चाश्रुणि दस्र आद्ये खरेऽश्विनोर्वासरहिंस्रयोस्तु । घस्रोऽथ वाश्रोऽह्नि खरे पिके च चतुष्पथेऽन्त्ये सदने तथैव । स्त्री प्रस्नुतायां गवि शब्दवत्या- मुस्रो वृषे स्यात्किरणे च पुंसि ॥ ५९ ॥ Koṣakalpataru 6.27.59
- नानार्थार्णवसंक्षेप रजस्अहन्यथ रहः शब्दो मैथुने विजने तु तत् । अव्ययं वाथ राधः स्यात् प्ररूढे च धनेऽपि च ॥ ५१ ॥ Nānārthārṇavasaṃkṣepa 2.3.51
- नानार्थार्णवसंक्षेप घृणिरश्मौ ज्वाले निदाघेऽह्नि वीच्यां घोणा तु सा स्त्रियाम् । नासिकायां हयप्रोथे जलस्योपरि गत्वरे ॥ ३८९ ॥ Nānārthārṇavasaṃkṣepa 2.5.389
- नानार्थार्णवसंक्षेप वक्रिअह्नि च त्रिस्तु कुटिले शल्यके तु द्वयोरयम् । वह्निस्त्वग्नौ पुमानक्ष्णि द्वे त्वश्वे वहिवाक् तु ना ॥ ११९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1198
- नानार्थार्णवसंक्षेप शुन्ध्युधातौ स्याच्छुण्ठतौ स्त्री तु नागरे शुन्ध्युवाक् तु ना । सूर्येऽग्नावहनीत्यन्यः शकुनौ तु द्वयोरथ ॥ १४०१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1401
- नानार्थार्णवसंक्षेप वराहश्रेष्ठे नपुंसकं त्वन्ये वराहस्तु पुमान् गिरौ । मेघेऽङ्गिरःसु प्रवरेऽप्यहनि द्वे तु सूकरे ॥ १६११ ॥ Nānārthārṇavasaṃkṣepa 4.1611
- नानार्थार्णवसंक्षेप प्रतिदिवपरिणाहो विशालत्वे परितो बन्धनेऽपि च । अथ प्रतिदिवाह्नि स्यादपराह्वेऽपि पठ्यते ॥ ८७ ॥ Nānārthārṇavasaṃkṣepa 6.87