घस्र
ghasraपुं · masc.In 17 kośas: 18 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.
त्रिंशता तैरहोरात्रस्तत्राहर्दिवसो दिनम् ।दिवं द्युर्वासरो घस्रः प्रभातं स्यादहर्मुखम् ॥ १३८ ॥व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः ।काल्यं मध्याह्णस्तु दिवामध्यं मध्यंदिनं च सः ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
दिवसो दिवा दिनं द्युः प्रोक्तमहर्वासरस्तथा घस्रः ।प्रहरो यामः सन्ध्ये रजनीदिनयोः प्रवेशनिष्कासौ ॥ १०६ ॥
गीतिः
genderपुंmasc.
genderपुंmasc.
व्योमपर्यायकेशार्थः पशुपर्यायतः पतिः ।घस्रो जयन्तो गिरिशो मृडो भीष्मो महेश्वरः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
घस्रो घ्रंसो घृणिर्द्यौः स्याद्दिवसश्च तिथिर्द्वयोः ।कर्मवाटी तिथी द्वे स्त्री क्लीबेऽहर्दिनमस्त्रियाम् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
ककुभस्यार्मघस्रामसंक्रमाणां हिमस्य च ।कामहेमललामानामुद्यामोद्यमयोरपि ॥ १७१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
द्युर्वासकः[रः?] प्रतिदिवा नरि दण्डयाम-सूर्याङ्क-घस्र-घसरा अपि वास्र-वारौ ।****************** रोऽपि दिवसोऽह्नि दिवाव्यये स्तः ॥ १६ ॥
metre not recognisednearly वसन्ततिलका
genderपुंmasc.
दिनाहनी मुक्त्वा अन्ये दिवसपर्यायाः पुंसि भवन्ति । अयं दिवसो वासरः घस्रः सूर्यकर इत्यादिः । दिनाहनी नपुंसके भवतः । इदं दिनमहः । स्त्रियां त्विडुडुताराः । त्विडादयः शब्दाः स्त्रियां भवन्ति । इयं त्विट् कान्तिः । इयमुडुर्नक्षत्रम् । इमास्ताराः नक्षत्राणि । पाणियुगः पुंसि भवति । अयं पाणियुगः । पाणियुगग्रहणमन्ययुगनिवृत्त्यर्थम् ।भवति नपुंसकयोगः सङ्ख्यापूर्वस्य रात्रिशब्दस्य ।ससमासस्य तु तस्यैव पुंसि योगं वि[न]जानीयात् ॥ ४२ ॥
metre not recognised
genderपुंmasc.
दिवसो वासरो घस्नोऽहर्दिनं द्युर्दिवं च तत् ।प्रभातं च विभातं स्यात्प्रत्यूषाहर्मुखे पुनः ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
कालो दिष्टोऽप्यनेहापि समयः सम इत्यपि ।घस्रो दिनः समा वारोऽहः क्लीबे तिथिरित्यपि ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
लग्नानि राशयश्चैव मेषाद्या द्वादश स्मृताः ।अहर्दिनं दिवं घस्रं दिवसो वासरो दिवा ॥ ७८ ॥
अनुष्टुप्
genderक्लीneut.
अहर्दिनञ्च घस्रं द्युर्दिवसो वासरो दिवम् ।
अनुष्टुप्
genderक्लीneut.
घस्रो दिवाव्ययं व्युष्टमंशकं क्लीबमित्यपि ।प्रभातं गोस-गोसंज्ञौ प्रत्यूषप्रत्यूषे अपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त्यू (wrong syllable)
genderपुंmasc.
अह्न्यहे ङ्यन्त-टाबान्तावहः सन्तोऽथ वासरः ।वाश्रश्च दन्त्य-तालव्यमध्यौ घस्रश्च हस्रयुक् ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
व्युष्टं प्रत्यूषगोसर्गौ प्रगे प्रातश्च न त्रिषु ।दिनाहनी तु घस्रो वा षण्डौ दिवसवासरौ ॥ २३३ ॥
अनुष्टुप्
genderपुंmasc.
पाठी यवनिका सूर्यरक्तसंज्ञं तु कुङ्कुमम् ।जागुडं दीपनं घस्रं सौरभं सुघृणं च तत् ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
त्रिंशता तैरहोरात्रः पक्षांगोऽप्यथ वासरः ।दिवसञ्चास्त्रियौ भानुर्घृणिर्घस्रो रविध्वजः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि ।गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु ।गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् ।गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥असञ्जातरजः कन्या वरुणाणी नदीषु च ।घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे ।चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 द्म (wrong syllable); pāda 4, syllable 3 ङ्गु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
घस्र as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप भानुमहाभाष्यादि तत्र स्याद् भाषणीये तु भेद्यवत् । भानुर्ना भास्करे घस्रे नृस्त्रियोस्तु गभस्तिषु ॥ ९०४ ॥ Nānārthārṇavasaṃkṣepa 2.5.904